०६७

नारद उवाच॥
भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद ॥
ब्रह्माण्डमोहनं नाम प्रकृतेः कवचं वद ॥ १ ॥
नारायण उवाच ॥
शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् ॥
श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥ २ ॥
ब्रह्मणा कथितं सर्वं धर्मार्थं जाह्नवीतटे ॥
धर्मेण दत्तं मह्यं च कृपया पुष्करे प्रभुः ॥ ३ ॥
त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा ॥
मुमोच धाता यद्धृत्वा मधुकैटभयोर्भयम् ॥
जघान रक्तबीजं तं यत्कृत्वा भद्रकालिका ॥ ४ ॥
यद्धृत्वा तु महेन्द्रश्च सम्प्राप कमलालयाम् ॥
यद्धृत्वा च महाकालश्चिरजीवी च धार्मिकः ॥ ॥ ५ ॥
यद्धृत्वा च महाज्ञानी नन्दी सानन्दपूर्वकम् ॥
यद्धृत्वा च महायोद्धा रामः शत्रुभयङ्करः ॥ ६ ॥
यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः ॥
ॐ दुर्गेति चतुर्थ्यन्तं स्वाहान्तो मे शिरोऽवतु ॥ ७ ॥
मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥
विचारो नास्ति वेदेषु ग्रहणे च मनोर्मुने ॥८॥
मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥
मम वक्त्रं सदा पातु चों दुर्गायै नमोऽन्ततः॥ ॥ ९ ॥
ॐ दुर्गे रक्षयति च कण्ठं पातु सदा मम ॥
ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् ॥ 2.67.१० ॥
ॐ ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ॥
ह्रीं मे वक्षःस्थलं पातु हस्तं श्रीमिति सन्ततम् ॥ ११ ॥
ॐ श्रीं ह्रीं क्लीं पातु सर्वाङ्गं स्वप्ने जागरणे तथा ॥
प्राचं मां प्रकृतिः पातु पातु वह्नौ च चण्डिका ॥ १२ ॥
दक्षिणे भद्रकाली च नैर्ऋत्यां च महेश्वरी ॥
वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला॥१३॥
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥
जले स्थले चान्तरिक्षे पातु मां जगदम्बिका॥१४॥
इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥
यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् ॥ १५ ॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ॥
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः ॥ १६ ॥
भ्रमणे सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे ॥
यत्फलं लभते लोकस्तदेतद्धारणान्मुने ॥ १७ ॥
पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम् ॥
लोके च सिद्धकवचं नास्त्रं विध्यति सङ्कटे ॥ १८ ॥
न तस्य मृत्युर्भवति जले वह्नौ विशेद्ध्रुवम् ॥
जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धेश्वरः स्वयम् ॥ १९ ॥
यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् ॥
कथितं प्रकृतेः खण्डं सुधाखण्डात्परं मुने ॥ 2.67.२० ॥
या चैव मूलप्रकृतिर्यस्याः पुत्रो गणेश्वरः ॥
कृत्वा कृष्णव्रतं सा च लेभे गणपतिं सुतम् ॥ २१ ॥
स्वांशेन कृष्णो भगवान्बभूव च गणेश्वरः ॥
श्रुत्वा च प्रकृतेः खण्डं सुश्राव्यं च सुधोपमम् ॥ २२ ॥
भोजयित्वा च दध्यन्नं तस्मै दद्याच्च काञ्चनम् ॥
सवत्सां सुरभिं रम्यां दद्याद्वै भक्तिपूर्वकम् ॥ २३ ॥
वासोऽलङ्काररत्नैश्च तोषयेद्वाचकं मुने ॥
पुष्पालङ्कारवसनैरुपहारगणैस्तथा ॥ २४ ॥
पुस्तकं पूजयेदेवं भक्तिश्रद्धासमन्वितः ॥
एवं कृत्वा यः शृणोति तस्य विष्णुः प्रसीदति ॥ २५ ॥
वर्द्धते पुत्रपौत्रादिर्यशस्वी तत्प्रसादतः ॥
लक्ष्मीर्वसति तद्गेहे ह्यन्ते गोलोकमाप्नुयात् ॥
लभेत्कृष्णस्य दास्यं स भक्तिं कृष्णे सुनिश्चलाम् ॥ २६ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने ब्रह्माण्डमोहनकवचं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ ॥

॥ श्रीकृष्णार्पणमस्तु ॥ ॥ ॥ ॥ ॥

॥ समाप्तश्चायं श्रीब्रह्मवैवर्त्ते महापुराण प्रकृतिखण्डो द्वितीयः ॥