नारद उवाच ॥
श्रुतं सर्वं महाभाग सुधारसपरं वरम् ॥
स्तोत्रं च कवचं पूजाफलं कालं वद प्रभो ॥१॥
नारायण उवाच ॥
आर्द्रायां बोधयेद्देवीं मूलेनैव प्रवेशयेत् ॥
उत्तरेणार्च्चयित्वा तां श्रवणायां विसर्जयेत् ॥२॥
आर्द्रायुक्तनवम्यां तु कृत्वा देव्याश्च बोधनम् ॥
पूजायाः शतवार्षिक्याः फलमाप्नोति मानवः ॥ ३ ॥
मूलायां तु प्रवेशे च नरमेधफलं लभेत् ॥ ४ ॥
कृत्वा विसर्जनं देव्याः श्रवणायां च मानवः॥
लक्ष्मीं च पुत्रपौत्रांश्च लभते नात्र संशयः॥५॥
भुवः प्रदक्षिणं पुण्यं पूजायां लभते नरः ॥
नक्षत्रयोगाभावे तु पार्वत्याश्चैव नारद ॥६॥
नवम्यां बोधनं कृत्वा पक्षं सम्पूज्य मानवः॥
अश्वमेधफलावाप्त्यै दशम्यां च विसर्जयेत् ॥७॥
सप्तम्यां पूजनं कृत्वा बलिं दद्याद्विचक्षणः ॥
अष्टम्यां पूजनं शस्तं बलिदानविवर्जितम् ॥८॥
अष्टम्यां बलिदानेन विपत्तिर्जायते नृणाम् ॥
दद्याद्विचक्षणो भक्त्या नवम्यां विधिवद्बलिम्॥९॥
बलिदानेन विप्रेन्द्र दुर्गाप्रीतिर्भवेन्नृणाम्॥
हिंसाजन्यं न पापं च लभते यज्ञकर्मणि॥2.65.१०॥
उत्सर्गकर्त्ता दाता च च्छेत्ता पोष्टा च रक्षकः ॥
अग्रे पश्चान्निबद्धा च सप्तैतेऽवधकारिणः ॥ ११ ॥
यो यं हन्ति स तं हन्ति नेति वेदोक्तमेव च ॥
कुर्वन्ति वैष्णवीं पूजां वैष्णवास्तेन हेतुना ॥ १२ ॥
एवं सम्पूज्य सुरथः पूर्णं वर्षं च भक्तितः ॥
कवचं च गले बद्ध्वा तुष्टाव परमेश्वरीम् ॥ १३ ॥
स्तोत्रेण परितुष्टा सा तस्य साक्षाद्बभूव ह ॥
स ददर्श पुरो देवीं ग्रीष्मसूर्य्यसमप्रभाम् ॥ १४ ॥
तेजस्वरूपां परमां सगुणां निर्गुणां वराम् ॥
दृष्ट्वा तां कमनीयां च तेजोमण्डलमध्यतः ॥ १५ ॥
स्वेच्छामयीं कृपारूपां भक्तानुग्रहकारिणीम् ॥
पुनस्तुष्टाव राजेन्द्रो भक्तिनम्रात्मकन्धरः ॥ १६ ॥
स्तवेन परितुष्टा सा सस्मिता भक्तिपूर्वकम् ॥
उवाच सत्यं राजेन्द्रं कृपया जगदम्बिका ॥ १७ ॥
प्रकृतिरुवाच ॥
साक्षात्सम्प्राप्य मां राजन्वृणोषि विभवं वरम् ॥
ददामि तुभ्यं विभवं साम्प्रतं वाञ्छितं तव॥१८॥
निर्जित्य सर्वाञ्छत्रूंश्च लब्ध्वा राज्यमकण्टकम् ॥
भविष्यसि महाराज सावर्णिर्मनुरष्टमः॥१९॥
दास्यामि तुभ्यं ज्ञानं च परिणामे नराधिप ॥
भक्तिं दास्यं च परमे श्रीकृष्णे परमात्मनि ॥ 2.65.२० ॥
वृणोति विभवं यो हि साक्षान्मां प्राप्य मन्दधीः ॥
मायया वञ्चितः सोऽपि विषमत्त्यमृतं त्यजेत् ॥ २१ ॥
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नश्वरमेव च ॥
नित्यं सत्यं परं ब्रह्म कृष्णं निर्गुणमेव च ॥ २२ ॥
ब्रह्मविष्णुशिवादीनामहमाद्या परात्परा ॥
सगुणा निर्गुणा चापि वरा स्वेच्छामयी सदा ॥२३॥
नित्या ऽनित्या सर्वरूपा सर्वकारणकारणम् ॥
बीजरूपा च सर्वेषां मूलप्रकृतिरीश्वरी ॥ २४ ॥
पुण्ये वृन्दावने रम्ये गोलोके रासमण्डले॥
राधा प्राणाधिकाऽहं च कृष्णस्य परमात्मनः ॥ २५ ॥
अहं दुर्गा विष्णुमाया बुद्ध्यधिष्ठातृदेवता ॥
अहं लक्ष्मीश्च वैकुण्ठे स्वयं देवी सरस्वती ॥ २५ ॥
सावित्री वेदमाताऽहं ब्रह्माणी ब्रह्मलोकतः ॥
अहं गङ्गा च तुलसी सर्वाधारा वसुन्धरा ॥ २७ ॥
नानाविधाऽहं कलया मायया सर्वयोषितः ॥
साऽहं कृष्णेन संसृष्टा नृप भ्रूभङ्गलीलया ॥२८॥
भ्रूभङ्गलीलया सृष्टो येन पुंसा महान्विराट्॥
लोम्नां कूपेषु विश्वानि यस्य सन्ति हि नित्यशः ॥ २९ ॥
असङ्ख्यानि च तान्येव कृत्रिमाणि च मायया ॥
अनित्ये नित्यबुद्धिं च सर्वे कुर्वन्ति सन्ततम् ॥ 2.65.३० ॥
सप्तसागरसंयुक्ता सप्तद्वीपा वसुन्धरा ॥
तदधः सप्त पातालाः स्वर्लोकाश्चैव सप्त च ॥ ३१ ॥
एवं विश्वं बहुविधं ब्रह्माण्डं ब्रह्मणा कृतम् ॥
प्रत्येकं सर्वविध्यण्डे ब्रह्मविष्णुशिवादयः ॥३२॥
सर्वेषामीश्वरः कृष्ण इति ज्ञानं परात्परम् ॥
वेदानां च व्रतानां च तीर्थानां तपसां तथा ॥३३॥
देवानां चैव सर्वेषां सारः कृष्ण इति स्मृतः ॥
तद्भक्तिहीनो यो मूढः स च जीवन्मृतो धुवम् ॥ ३४ ॥
पवित्राणि च तीर्थानि तद्भक्तस्पर्शवायुना ॥
तन्मन्त्रोपासकश्चैव जीवन्मुक्त इति स्मृतः ॥ ३९ ॥
मन्त्रग्रहणमात्रेण नरो नारायणो भवेत् ॥
विना जपेन तपसा विना तीर्थेन पूजया ॥ ३६ ॥
मातामहानां शतकं पितॄणां च सहस्रकम् ॥
पुंसामेवं समुद्धृत्य गोलोकं च स गच्छति ॥ ३७ ॥
इदं ज्ञानं सारभूतं कथितं ते नराधिप ॥
मन्वन्तरान्ते भोगान्ते भक्तिं दास्यामि ते हरौ ॥ ३८ ॥
नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ॥
अवश्यमेव भोक्तव्यं कृतं कर्म्म शुभाशुभम् ॥ ॥ ३९ ॥
अहं यमनुगृह्णामि तस्मै दास्यामि निर्मलाम् ॥
निश्चलां सुदृढां भक्तिं श्रीकृष्णे परमात्मनि ॥ 2.65.४० ॥
करोमि वञ्चनां यं यं तेभ्यो दास्यामि सम्पदम् ॥
प्रातः स्वप्नस्वरूपां च मिथ्येति भ्रमरूपिणीम् ॥ ४१ ॥
इति ते कथितं ज्ञानं गच्छ वत्स यथासुखम्॥
इत्युक्त्वा च महादेवी तत्रैवान्तरधीयत॥४२॥
राजा सम्प्राप्य राज्यं च नत्वा तां प्रययौ गृहम् ॥
इति ते कथितं वत्स दुर्गोपाख्यानमुत्तमम् ॥ ४३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने प्रकृतिसुरथसंवादे ज्ञानकथनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥