नारायण उवाच ॥
राजा येन क्रमेणैव भेजे तां प्रकृतिं पराम् ॥
तच्छ्रूयतां महाभाग वेदोक्तं क्रममेव च ॥ १ ॥
स्नात्वाऽऽचम्य महाराजः कृत्वा न्यासत्रयं तदा ॥
स्वकराङ्गाङ्गमन्त्राणां भूतशुद्धिं चकार सः ॥ २ ॥
प्राणायामं ततः कृत्वा कृत्वा च शङ्खशोधनम् ॥
ध्यात्वा देवीं च मृन्मय्यां चकारावाहनं तदा ॥ ३ ॥
पुनर्ध्यात्वा च भक्त्या च पूजयामास भक्तितः ॥
+देव्याश्च दक्षिणे भागे संस्थाप्य कमलालयाम् ॥४ ॥
सम्पूज्य भक्तिभावेन भक्त्या परमधार्मिकः ॥
देवषट्कं समावाह्य देव्याश्च पुरतो घटे॥ ५ ॥
भक्त्या च पूजयामास विधिपूर्वं च नारद ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ ६ ॥
देवषट्कं च सम्पूज्य नमस्कृत्य विचक्षणः ॥
तदा ध्यायेन्महादेवीं ध्यानेनानेन भक्तितः ॥ ७ ॥
ध्यानं च सामवेदोक्तं परं कल्पतरुं मुने ॥
ध्यायेन्नित्यं महादेवीं मूलप्रकृतिमीश्वरीम्॥ ॥ ८ ॥
ब्रह्मविष्णुशिवादीनां पूज्यां वन्द्यां सनातनीम् ॥
नारायणीं विष्णुमायां वैष्णवीं विष्णुभक्तिदाम् ॥ ९ ॥
सर्वस्वरूपां सर्वेषां सर्वाधारां परात्पराम् ॥
सर्वविद्यासर्वमन्त्रसर्वशक्तिस्वरूपिणीम्॥2.64.१०॥
सगुणां निर्गुणां सत्त्वां वरां स्वेच्छामयीं सतीम् ॥
महाविष्णोश्च जननीं कृष्णस्यार्द्धाङ्गसम्भवाम्॥११॥
कृष्णप्रियां कृष्णशक्तिं कृष्णबुद्ध्यधिदेवताम् ॥
कृष्णस्तुतां कृष्णपूज्यां कृष्णवन्द्यां कृपामयीम् ॥ १२ ॥
तप्तकाञ्चनवर्णाभां कोटिसूर्य्यसमप्रभाम् ॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥ १३ ॥
दुर्गां शतभुजां देवीं महद्दुर्गतिनाशिनीम् ॥
त्रिलोचनप्रियां साध्वीं त्रिगुणां च त्रिलोचनाम् ॥ १४ ॥
त्रिलोचनप्राणरूपां शुद्धार्द्धचन्द्रशेखराम् ॥
बिभ्रतीं कबरीभारं मालतीमाल्यमण्डितम् ॥ १५ ॥
वर्तुलं वामवक्त्रं च शम्भोर्मानसमोहिनीम् ॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम् ॥ १६ ॥
नासादक्षिणभागेन बिभ्रतीं गजमौक्तिकम् ॥
अमूल्यरत्नं बहुलं बिभ्रतीं श्रवणोपरि ॥ १७ ॥
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिसुशोभिताम् ॥
पक्वबिम्बाधरोष्ठीं च सुप्रसन्नां सुमङ्गलाम् ॥ १८ ॥
चित्रपत्रावलीरम्यकपोलयुगलोज्ज्वलाम् ॥
रत्नकेयूरवलयरत्नमञ्जीररञ्जिताम् ॥ १९ ॥
रत्नकङ्कणभूषाढ्यां रत्नपाशङ्कशोभिताम् ॥
रत्नाङ्गुलीयनिकरैः कराङ्गुलिचयोज्ज्वलाम् ॥ ॥ 2.64.२० ॥
पादाङ्गुलिनखासक्तालक्तरेखासुशोभनाम् ॥
वह्निशुद्धांशुकाधानां गन्धचन्दनचर्चिताम् ॥ २१ ॥
बिभ्रतीं स्तनयुग्मं च कस्तूरीबिन्दुशोभितम् ॥
सर्वरूपगुणवतीं गजेन्द्रमन्दगामिनीम् ॥ २२ ॥
अतीव कान्तां शान्तां च नितान्तां योगसिद्धिषु ॥
विधातुश्च विधात्रीं च सर्वधात्रीं च शङ्करीम् ॥ २३ ॥
शरत्पार्वणचन्द्रास्यामतीव सुमनोहराम् ॥
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ॥ २४ ॥
सिन्दूरबिन्दुना शश्वद्भालमध्यस्थलोज्ज्वलाम् ॥
शरन्मध्याह्नकमलप्रभामोचनलोचनाम् ॥ २५ ॥
चारुकज्जलरेखाभ्यां सर्वतश्च समुज्ज्वलाम् ॥
कोटिकन्दर्पलावण्यलीलानिन्दितविग्रहाम् ॥ २६ ॥
रत्नसिंहासनस्थां च सद्रत्नमुकुटोज्ज्वलाम् ॥
सृष्टौ स्रष्टुः शिल्परूपां दयां पातुश्च पालने ॥ २७ ॥
संहारकाले संहर्त्तुः परां संहाररूपिणीम् ॥
निशुम्भशुम्भमथिनीं महिषासुरमर्दिनीम् ॥ २८ ॥
पुरा त्रिपुरयुद्धे च संस्तुता त्रिपुरारिणा ॥
मधुकैटभयोर्युद्धे विष्णुशक्तिस्वरूपिणीम् ॥ २९ ॥
सर्वदैत्यनिहन्त्रीं च रक्तबीजविनाशिनीम् ॥
नृसिंहशक्तिरूपां च हिरण्यकशिपोर्वधे ॥2.64.३०॥
वराहशक्तिं वाराहे हिरण्याक्षवधे तथा॥
परब्रह्मस्वरूपां च सर्वशक्तिं सदा भजे ॥ ३१ ॥
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ॥
पुनर्ध्यात्वा चैव भक्त्या कुर्य्यादावाहनं ततः ॥ ३२ ॥
प्रकृतेः प्रतिमां धृत्वा मन्त्रमेवं पठेन्नरः ॥
जीवन्यासं ततः कुर्य्यान्मनुनाऽनेन यत्नतः ॥ ३३ ॥
एह्येहि भगवत्यम्ब शिवलोकात्सनातनि ॥
गृहाण मम पूजां च शारदीयां सुरेश्वरि ॥ ३४ ॥
इहागच्छ जगत्पूज्ये तिष्ठ तिष्ठ महेश्वरि ॥
हे मातरस्यामर्चायां सन्निरुद्धा भवाम्बिके ॥ ३५ ॥
इहागच्छन्तु त्वत्प्राणाश्चाधिप्राणैः सहाच्युते ॥
इहागच्छन्तु त्वरितं तवैव सर्व शक्तयः ॥ ३६ ॥
ॐ ह्रीं श्रीं क्लीं च दुर्गायै वह्निजायान्तमेव च ॥
समुच्चार्य्योरसि प्राणाः सन्तिष्ठन्तु सदाशिवे ॥ ३७ ॥
सर्वेन्द्रियाधिदेवास्ते इहागच्छन्तु चण्डिके॥
ते शक्तयोऽत्रागच्छन्तु इहागच्छन्तु ईश्वराः ॥ ३८ ॥
स इहागच्छेत्यावाह्य परिहारं करोति च ॥
मन्त्रेणानेन विप्रेन्द्र तच्छृणुष्व समाहितः ॥ ३९ ॥
स्वागतं भगवत्यम्ब शिवलोकाच्छिवप्रिये ॥
प्रसादं कुरु मां भद्रे भद्रकालि नमोऽस्तु ते ॥ 2.64.४० ॥
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ॥
आगताऽसि यतो दुर्गे माहेश्वरि मदालयम् ॥ ४१ ॥
अद्य मे सफलं जन्म सार्थकं जीवनं मम ॥
पूजयामि यतो दुर्गां पुण्यक्षेत्रे च भारते ॥ ४२ ॥
भारते भवतीं पूज्यां दुर्गां यः पूजयेद् बुधः ॥
सोऽन्ते याति च गोलोकं परमैश्वर्य्यवानिह ॥४३॥
कृत्वा च वैष्णवीपूजां विष्णुलोकं व्रजेत्सुधीः ॥
माहेश्वरीं च सम्पूज्य शिवलोकं च गच्छति ॥ ४४ ॥
सात्त्विकी राजसी चैव त्रिधा पूजा च तामसी ॥
भगवत्याश्च वेदोक्ता चोत्तमा मध्यमा ऽधमा ॥ ४५ ॥
सात्त्विकी वैष्णवानां च शाक्तादीनां च राजसी ॥
अदीक्षितानामसतामन्येषां तामसी स्मृता ॥ ४६ ॥
जीवहत्या विहीना या वरा पूजा तु वैष्णवी ॥
वैष्णवा यान्ति गोलोकं वैष्णवीबलिदानतः ॥ ४७ ॥
माहेश्वरी राजसी च बलिदानसमन्विता ॥
शाक्तादयो राजसाश्च कैलासं यान्ति ते तथा ॥ ४८ ॥
किरातास्त्रिदिवं यान्ति तामस्या पूजया तया ॥
त्वमेव जगतां मातश्चतुर्वर्गफलप्रदा ॥ ४९ ॥
सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः ॥
जन्ममृत्युजराव्याधिहरा त्वं च परात्परा ॥ 2.64.५० ॥
सुखदा मोक्षदा भद्रा कृष्णभक्तिप्रदा सदा ॥
नारायणि महामाये दुर्गे दुर्गतिनाशिनि ॥ ५१ ॥
दुर्गेति स्मृतिमात्रेण याति दुर्गं नृणामिह ॥
इति कृत्वा परीहारं देव्या वामे च साधकः ॥ ५२ ॥
त्रिपद्या उपरिष्टात्तु शङ्खं संस्थापयेत्तु सः ॥
तत्र दत्त्वा जलं पूर्णं दूर्वां पुष्पं च चन्दनम् ॥ ५३ ॥
धृत्वा दक्षिणहस्तेन मन्त्रमेवं पठेन्नरः ॥
पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानां च मङ्गलम् ॥
प्रभूतः शङ्खचूडात्त्वं पुरा कल्पे पवित्रकः ॥ ५४ ॥
ततोऽर्घ्यपात्रं संस्थाप्य विधिनाऽनेन पण्डितः ॥
दत्त्वा सम्पूजयेद्देवीमुपचारांश्च षोडश ॥५५॥
त्रिकोणमण्डलं कृत्वा सजलेन कुशेन च ॥
कूर्मं शेषं धरित्रीं च पूजयेत्तत्र धार्मिकः ॥ ५६ ॥
त्रिपदीं स्थापयेत्तत्र त्रिपद्यां शङ्खमेव च ॥
शङ्खे त्रिभागतोयं च दत्त्वा सम्पूजयेत्ततः ॥ ५७ ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥
नर्म्मदे सिन्धुकावेरि चन्द्रभागे च कौशिकि ॥९८॥
स्वर्णरेखे कनखले पारिभद्रे च गण्डकि ॥
श्वेतगङ्गे रुद्ररेखे पम्पे चम्पे च गोमति ॥ ॥५९॥
पद्मावति त्रिपर्णाशे विपाशे विरजे प्रभे ॥
शतह्रदे चेलगङ्गे जलेऽस्मिन्सन्निधिं कुरु ॥2.64.६०॥
वह्निं सूर्य्यं च चन्द्रं च विष्णुं च वरुणं शिवम् ॥
पूजयेत्तत्र तोये च तुलस्या चन्दनेन च ॥
नैवेद्यानि च सर्वाणि प्रोक्षयेत्तज्जलेन च॥६१॥
प्रत्येकं वै ततो दद्यादुपचारांश्च षोडश ॥
आसनं वसनं पाद्यं स्नानीयमनुलेपनम् ॥ ६२ ॥
मधुपर्कं गन्धमर्घ्यं पुष्पं नैवेद्यमीप्सितम् ॥
पुनराचमनीयं च ताम्बूलं रत्नभूषणम् ॥ ६३ ॥
धूपं प्रदीपं तल्पं चेत्युपचारास्तु षोडश ॥ ६४ ॥
अमूल्यरत्नसङ्क्लृप्तं नानाचित्र विराजितम् ॥
वरं सिंहासनं श्रेष्ठं गृह्यतां शङ्करप्रिये ॥ ६५ ॥
अनन्तसूत्रप्रभवमीश्वरेच्छाविनिर्मितम् ॥
ज्वलदग्निविशुद्धं च वसनं गृह्यतां शिवे ॥ ६६ ॥
अमूल्यरत्नपात्रस्थं निर्मलं जाह्नवीजलम् ॥
पादप्रक्षालनार्थाय दुर्गे देवि प्रगृह्यताम् ॥ ॥ ६७ ॥
सुगन्धामलकीस्निग्धद्रवमेतत्सुदुर्लभम् ॥
सुपक्वं विष्णुतैलं च गृह्यतां परमेश्वरि ॥ ६८ ॥
कस्तूरीकुङ्कुमाक्तं च सुगन्धि द्रुतचन्दनम् ॥
सुवासितं जगन्मातर्गृह्यतामनुलेपनम् ॥ ६९ ॥
माध्वीकं रत्नपात्रस्थं सुपवित्रं सुमङ्गलम् ॥
मधुपर्कं महादेवि गृह्यतां प्रीतिपूर्वकम् ॥ 2.64.७० ॥
सुगन्धमूलचूर्णं च सुगन्धद्रव्यसंयुतम् ॥
सुपवित्रं मङ्गलार्हं देवि गन्धं गृहाण मे ॥ ७१ ॥
पवित्रं शङ्खपात्रस्थं दूर्वापुष्पाक्षतान्वितम् ॥
स्वर्गमन्दाकिनीतोयमर्घ्यं चण्डि गृहाण मे ॥ ७२ ॥
सुगन्धि पुष्पश्रेष्ठं च पारिजाततरूद्भवम् ॥
नानापुष्पादिमाल्यानि गृह्यन्तां जगदम्बिके ॥७३॥
दिव्यं सिद्धान्नमामान्नं पिष्टकं पायसादिकम् ॥
मिष्टान्नं लड्डुकफलं नैवेद्यं गृह्यतां शिवे ॥ ७४ ॥
सुवासितं शीततोयं कर्पूरादिसुसंस्कृतम्॥
मया निवेदितं भक्त्या गृह्यतां शैलकन्यके ॥ ७५ ॥
गुवाकपर्णचूर्णं च कर्पूरादिसुवासितम् ॥
सर्वभोगकरं रम्यं ताम्बूलं देवि गृह्यताम् ॥ ७६ ॥
अमूल्यरत्नसारैश्च खचितं चेश्वरेच्छया ॥
सर्वाङ्गशोभनकरं भूषणं देवि गृह्यताम् ॥ ७७ ॥
तरुनिर्य्यासचूर्णं च गन्धवस्तुसमन्वितम् ॥
हुताशमशिखाशुद्धं धूपं देवि च गृह्यताम् ॥ ७८ ॥
दिव्यरत्नविशेषं च सान्द्रध्वान्तनिवारकम् ॥
सुपवित्रं प्रदीपं च गृह्यतां परमेश्वरि ॥ ७९ ॥
रत्नसारगणाकीर्णं दिव्यं पर्य्यङ्कमुत्तमम् ॥
सूक्ष्मवस्त्रैश्च संस्यूतं देवि तल्पं प्रगृह्यताम् ॥ 2.64.८० ॥
एवं सम्पूज्य तां दुर्गां दद्यात्पुष्पाञ्जलिं मुने ॥
ततोऽष्टनायका देवीर्यत्नतः परिपूजयेत् ॥ ८१ ॥
उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम् ॥
अतिचण्डां च चण्डां च चण्डां चण्डवतीं तथा ॥८२॥
पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा॥
पञ्चोपचारैः सम्पूज्य भैरवान्मध्यदेशतः॥८३॥
आदौ महाभैरवं च तथा संहारभैरवम् ॥
असिताङ्गभैरवं च रुरुभैरवमेव च ॥ ८४ ॥
कालभैरवमप्येवं क्रोधभैरवमेव च ॥
ताम्रचूडं चन्द्रचूडमन्ते वै भैरवद्वयम् ॥ ८५ ॥
एतान्सम्पूज्य मध्ये वै नव शक्तींश्च पूजयेत् ॥
तत्र पद्मे चाष्टदले मध्ये वै भक्तिपूर्वकम् ॥ ८६ ॥
ब्रह्माणीं वैष्णवीं चैव रौद्रीं माहेश्वरीं तथा ॥
नारसिंही च वाराहीमिन्द्राणीं कार्त्तिकीं तथा ॥ ८७ ॥
सर्वशक्तिस्वरूपां च प्रधानां सर्वमङ्गलाम् ॥
नव शक्तीश्च सम्पूज्य घटे देवांश्च पूजयेत् ॥ ८८ ॥
शङ्करं कार्त्तिकेयं च सूर्य्यं सोमं हुताशनम् ॥
वायुं च वरुणं चैव देव्याश्चेटीं बटुं तथा ॥ ८९ ॥
चतुष्षष्टिं योगिनीनां सम्पूज्य विधिपूर्वकम् ॥
यथाशक्ति बलिं दत्त्वा करोति स्तवनं बुधः ॥ 2.64.९० ॥
कवचं च गले बद्ध्वा पठित्वा भक्तिपूर्वकम् ॥
ततः कृत्वा परीहारं नमस्कुर्य्याद्विचक्षणः ॥ ९१ ॥
बलिदानविधानं च श्रूयतां मुनिसत्तम ॥
मायार्तिं महिषं छागं दद्यान्मेषादिकं शुभम् ॥ ९२ ॥
सहस्रवर्षं सुप्रीता दुर्गा मायातिदानतः ॥
महिषाच्छतवर्षं च दशवर्षं च छागलात् ॥ ९३ ॥
वर्षं मेषेण कूष्माण्डैः पक्षिभिर्हरिणैस्तथा ॥
दशवर्षं कृष्णसारैः सहस्राब्दं च गण्डकैः ॥९४॥
कृत्रिमैः पिष्टकलितैः षण्मासं पशुभिस्तथा ॥
मासं सुपक्वादिफलैरक्षतैरिति नारद ॥ ९५ ॥
युवकं व्याधिहीनं च सशृङ्गं लक्षणान्वितम् ॥
विशुद्धमविकाराङ्गं सुवर्णं पुष्टमेव च ॥ ९६ ॥
शिशुना बलिना दातुर्हन्ति पुत्रं च चण्डिका ॥
वृद्धेन वै गुरुजनं कृशेनापीष्टबान्धवान् ॥ ९७ ॥
धनं चैवाधिकाङ्गेन हीनाङ्गेन प्रजास्तथा ॥
कामिनीं शृङ्गभङ्गेन काणेन भ्रातरं तथा ॥ ९८ ॥
घुटिकेन भवेन्मृत्युर्विघ्नं स्याच्चित्रमस्तकैः ॥
हन्ति मित्रं ताम्रपृष्ठैर्भ्रष्टश्रीः पुच्छहीनतः ॥ ९९ ॥
मायातीनां स्वरूपं च श्रूयतां मुनिसत्तम ॥
वक्ष्याम्यथर्ववेदोक्तं फलहानिर्व्यतिक्रमे ॥ 2.64.१०० ॥
पितृमातृविहीनं च युवकं व्याधिवर्जितम् ॥
विवाहितं दीक्षितं च परदारविहीनकम् ॥ १०१ ॥
अजारजं विशुद्धं च सच्छूद्रपरिपोषितम् ॥
तद्बन्धुभ्यो धनं दत्त्वा क्रीतमूल्यातिरेकतः ॥ १०२ ॥
स्नापयित्वा च तं कर्त्ता पूजयेद्वस्त्रचन्दनैः ॥
माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः ॥ १०३ ॥
तं च वर्षं भ्रामयित्वा भृत्यद्वारेण यत्नतः ॥
वर्षान्ते च समुत्सृज्य दुर्गायै तं निवेदयेत् ॥ १०४ ॥
अष्टमीनवमीसन्धौ दद्यान्मायातिमेव च ॥
इत्येवं कथितं सर्वं बलिदानं प्रसङ्गतः ॥ १०५ ॥
बलिं स्तुत्वा च दत्त्वा च धृत्वा च कवचं बुधः ॥
प्रणम्य दण्डवद्भूमौ दद्याद्विप्राय दक्षिणाम् ॥ १०६ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने पूजाविधिबलिपशुलक्षणविशेषो नाम चतुष्षष्टितमोऽध्यायः ॥६४॥