नारद उवाच ॥
कथं राजा महाज्ञानं सम्प्राप मुनिसत्तमात् ॥
वैश्यो मुक्तिं मेधसश्च तन्मे व्याख्यातुमर्हसि ॥ १ ॥
श्रीनारायण उवाच ॥
ध्रुवस्य पौत्रो बलवान्नन्दिरुत्कलनन्दनः ॥
स्वायम्भुवमनोर्वंश्यः सत्यवादी जितेन्द्रियः ॥ २ ॥
अक्षौहिणीनां शतकं गृहीत्वा सैन्यमेव च ॥
कोलां च वेष्टयामास सुरथस्य महामतेः ॥३॥
युद्धं बभूव नियतं पूर्णमब्दं च नारद ॥
चिरञ्जीवी वैष्णवश्च जिगाय सुरथं नृपः ॥४॥
एकाकी सुरथो भीतो नन्दिना च बहिष्कृतः ॥
निशायां हयमारुह्य जगाम गहनं वनम् ॥ ५ ॥
ददर्श तत्र वैश्यं च पुष्पभद्रानदीतटे ॥
तयोर्बभूव सम्प्रीतिः कृतबान्धवयोर्मुने ॥ ६ ॥
वैश्येन सार्द्धं नृपतिरगच्छन्मेधसाश्रमम् ॥
पुष्करं दुष्करं पुण्यक्षेत्रं वै भारते सताम् ॥ ॥ ७ ॥
ददर्श तत्र नृपतिर्मुनिं तं तीव्रतेजसम् ॥
शिष्येभ्यश्च प्रवोचन्तं ब्रह्मतत्त्वं सुदुर्लभम् ॥८॥
राजा ननाम वैश्यश्च शिरसा मुनिपुङ्गवम् ॥
मुनिस्तौ पूजयामास ददौ ताभ्यां शुभाशिषम् ॥ ९ ॥
प्रश्नं चकार कुशलं जातिनाम पृथक्पृथक् ॥
ददौ प्रत्युत्तरं राजा क्रमेण मुनिपुङ्गवम् ॥ 2.62.१० ॥
सुरथ उवाच ॥
राजाऽहं सुरथो ब्रह्मंश्चैत्रवंशसमुद्भवः ॥
बहिर्भूतः स्वराज्याच्च नन्दिना बलिनाऽधुना ॥ ॥ ११ ॥
किमुपायं करिष्यामि कथं राज्यं भवेन्मम ॥
तन्मां ब्रूहि महाभाग त्वामेव शरणागतम् ॥ १२ ॥
अयं वैश्यः समाधिश्च स्वगृहाच्च बहिष्कृतः ॥
पुत्रैः कलत्रैर्दैवेन धनलोभेन धार्मिकः ॥ १३ ॥
ब्राह्मणाय ददौ नित्यं रत्नकोटिं दिने दिने ॥
निषिद्ध्यमानः पुत्रैश्च कलत्रैर्बान्धवैरयम् ॥ १४ ॥
कोपान्निराकृतस्तैश्च पुनरन्वेषितः शुचा ॥
अयं गृहं च न ययौ विरक्तो ज्ञानवाञ्छुचिः॥ १५ ॥
पुत्राश्च पितृशोकेन गृहं त्यक्त्वा ययुर्वनम् ॥
दत्त्वा दानानि विप्रेभ्यो विरक्ताः सर्वकर्मसु ॥ १६ ॥
सुदुर्लभं हरेर्दास्यं वैश्यस्यास्य च वाञ्छितम् ॥
कथं प्राप्नोति निष्कामस्तन्मे व्याख्यातुमर्हसि ॥ १७ ॥
श्रीमेधा उवाच ॥
करोति मायया च्छन्नं विष्णुमाया दुरत्यया ॥
निर्गुणस्य च कृष्णस्य त्रिगुणा विश्वमाज्ञया ॥ १८ ॥
कृपां करोति येषां सा धर्मिणां च कृपामयी ॥
तेभ्यो ददाति कृपया कृष्णभक्तिं सुदुर्लभाम् ॥ १९ ॥
येषां मायाविनां माया न करोति कृपां नृप ॥
मायया तान्निबध्नाति मोहजालेन दुर्गतान् ॥ 2.62.२० ॥
नश्वरेऽनित्यसंसारे भ्रामयेद्बर्बरा सदा ॥
कुर्वन्ती नित्यबुद्धिं च विहाय परमेश्वरम् ॥ २१ ॥
देवमन्यं निषेवन्ते तन्मन्त्रं च जपन्ति च ॥
मिथ्या किञ्चिन्निमित्तं च कृत्वा मनसि लोभतः ॥ २२ ॥
सप्तजन्मसु संसेव्य देवताश्च हरेः कलाः ॥
तदा प्रकृत्या कृपया सेवन्ते प्रकृतिं तदा ॥ २३ ॥
सप्तजन्मसु संसेव्य विष्णुमायां कृपामयीम् ॥
शिवे भक्तिं लभन्ते ते ज्ञानानन्दे सनातने ॥ २४ ॥
ज्ञानाधिष्ठातृदेवं च हरेस्संसेव्य शङ्करम् ॥
अचिराद्विष्णुभक्तिं च प्राप्नुवन्ति महेश्वरात् ॥ २५ ॥
सेवन्ते सगुणं सत्त्वं विष्णुं विषयिणं तदा ॥
सत्त्वज्ञानाच्च पश्यन्ति ज्ञानं वै निर्मलं नराः ॥ ॥ २६ ॥
निषेव्य सगुणं विष्णुं सात्त्विका वैष्णवा नराः ॥
लभन्ते निर्गुणे भक्तिं श्रीकृष्णे प्रकृतेः परे ॥ २७ ॥
गृह्णन्ति सन्तस्तद्भक्ता मन्त्रं तस्य निरामयम् ॥
निषेव्य निर्गुणं देवं ते भवन्ति च निर्गुणाः ॥ २८ ॥
असङ्ख्यब्रह्मणां पातं ते च पश्यन्ति वैष्णवाः ॥
दास्यं कुर्वन्ति सततं गोलोके च निरामये ॥ २९ ॥
कृष्णभक्तात्कृष्णमन्त्रं यो गृह्णाति नरोत्तमः ॥
पुरुषाणां सहस्रं च स्वपितॄणां समुद्धरेत् ॥ 2.62.३० ॥
मातामहानां साहस्रमुद्धरेन्मातरं तथा ॥
दासादिकं समुद्धृत्य गोलोकं स प्रयाति च ॥ ३१ ॥
भवार्णवे महाघोरे कर्णधारस्वरूपिणी ॥
दीनान्पारयते नित्यं कृष्णभक्त्या च नौकया ॥ ३२ ॥
स्वकर्मबन्धनं छेत्तुं वैष्णवानां च वैष्णवी ॥
तीक्ष्णशस्त्रस्वरूपा सा कृष्णस्य परमात्मनः ॥ ३३ ॥
विवेचिका चावरणी शक्तेः शक्तिर्द्विधा नृप ॥
पूर्वं ददाति भक्ताय चेतराय परात्परा ॥ ३४ ॥
सत्यस्वरूपः श्रीकृष्णस्तस्मात्सर्वं च नश्वरम् ॥
बुद्धिर्विवेचिकेत्येवं वैष्णवानां सनातनी ॥ ३५ ॥
नित्यरूपा ममेयं श्रीरिति चावरणी च धीः ॥
अवैष्णवानामसतां कर्म्मभोगभुजामहो ॥ ३६ ॥
अहं प्रचेतसः पुत्रः पौत्रश्च ब्रह्मणो नृप ॥
भजामि कृष्णमात्मानं ज्ञानं सम्प्राप्य शङ्करात् ॥ ३७ ॥
गच्छ राजन्नदीतीरं भज दुर्गां सनातनीम् ॥
बुद्धिमावरणीं तुभ्यं देवो दास्यति कामिने ॥ ३८ ॥
निष्कामाय च वैश्याय वैष्णवाय च वैष्णवी ॥
बुद्धिं विवेचिकां शुद्धां दास्यत्येव कृपामयी॥ ३९॥
इत्युक्त्वा च मुनिश्रेष्ठो ददौ ताभ्यां कृपानिधिः ॥
पूजाविधानं दुर्गायाः स्तोत्रं च कवचं मनुम् ॥ ॥ 2.62.४० ॥
वैश्यो मुक्तिं च सम्प्राप तां निषेव्य कृपामयीम् ॥
राजा राज्यं मनुत्वं च परमैश्वर्य्यमीप्सितम् ॥ ४१ ॥
इत्येवं कथितं सर्वं दुर्गोपाख्यानमुत्तमम् ॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ ४२ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृति
खण्डे नारदनारायणसंवादे दुर्गोपाख्याने सुरथमेधस्संवादे सुरथवैश्ययोरभिलषितसिद्धिर्नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥