०६१

नारद उवाच ॥
ततः परं किं रहस्यं बभूवासुरदेवयोः ॥
श्रोतुमिच्छामि भगवन्परं कौतूहलं मम ॥ १ ॥
नारायण उवाच ॥
ब्रह्मा जगाम निलयं शुक्रस्य च महात्मनः ॥
नानादैत्यगणाकीर्णं रत्नमण्डपभूषितम् ॥ २ ॥
पञ्चाशत्कोटिभिः शिष्यैः परीतं ब्रह्मवादिभिः ॥
सप्तभिः परिखाभिश्च वेष्टितं दुर्गमेव च ॥ ३॥
रक्षितं रक्षकगणैर्दैत्यैश्च शतकोटिभिः ॥
पद्मरागैर्विरचितैः प्रावारैः परिशोभितम् ॥ ४ ॥
ददर्श जगतां धाता सभायां भृगुनन्दनम् ॥
स्तुतं मुनिगणैर्दैत्यै रत्नसिंहासनस्थितम् ॥ ५ ॥
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ॥
कोटिसूर्य्यप्रभं शश्वज्ज्वलन्तं ब्रह्मतेजसा ॥ ६ ॥
दृष्ट्वा पौत्रं प्रभायुक्तं विधाता हृष्टमानसः ॥
आत्मानं कृतिनं मेने पुत्रं पौत्रं च नारद ॥ ७ ॥
दृष्ट्वा पितामहं शुक्रो धातारं जगतां प्रभुम् ॥
उत्थाय सहसा भीतः प्रणनाम कृताञ्जलिः ॥ ८ ॥
आदाय पूजयामास चोपचारांस्तु षोडश ॥
तुष्टाव परया भक्त्या सम्भ्रमेण यथागमम् ॥ ९ ॥
विद्या मन्त्रप्रदातारं दातारं सर्वसम्पदाम् ॥
स्वकर्मणां च फलदं सर्वेषां विश्वतो वरम् ।2.61.१०॥
शुक्रस्य स्तवनेनैव सन्तुष्टो जगतां पतिः॥
अवरुह्य रथात्तूर्णमवसत्तत्र संसदि ॥ ११ ॥
शुक्रेण शिरसा दत्तरत्नसिंहासने वरे॥
तेजसा ज्वलिते रम्ये निर्मिते विश्वकर्मणा॥ ॥ १२ ॥
शुक्रः प्रणम्य ब्रह्माणं कुमारं शकुनं क्रतुम् ॥
वसिष्ठं च मरीचिं च सनन्दं च सनातनम् ॥ १३ ॥
कपिलं वै पञ्चशिखं वोढुमङ्गिरसं मुने ॥
धर्मं मां च नरं भक्त्या प्रणनाम कृताञ्जलिः ॥१४॥
प्रत्येकं पूजयामास सादरं च यथोचितम् ॥
सिंहासनेषु रत्नेषु वासयामास धार्मिकः ॥ १५ ॥
प्रहृष्टवदनाः सर्वे प्रणेमुर्दितिनन्दनाः ॥
ऋषिसङ्घाश्च धातारं तुष्टुवुश्च यथागमम् ॥ १६ ॥
सर्वान्संस्तूय स कविरवोचत्सम्पुटाञ्जलिः ॥
साश्रुनेत्रः सपुलकः प्रणतो विनयान्वितः ॥ १७ ॥
शुक्र उवाच ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥
स्वयं विधाता भगवान्साक्षाद्दृष्टः स्वमन्दिरे ॥ १८ ॥
साक्षाद्दृष्टाश्च तत्पुत्रा भगवन्तः सनातनाः ॥
तुष्टः कृष्णोऽथ मामेवं परमात्मा परात्परः ॥ १९ ॥
कृतार्थं कर्तुमीशा मां युष्माकं स्वागतं शिशुम् ॥
स्वात्मारामेषु कुशलप्रश्नमेवं विडम्बनम् ॥ 2.61.२० ॥
पवित्रं कर्तुमीशा मां हेतुरागमनेऽत्र वः ॥
अपरं ब्रूथ किं वाऽपि शास्त नः करवामि किम् ॥ २१ ॥
ब्रह्मोवाच ॥
उद्विग्नश्चिरविच्छेदात्त्वां पौत्रं द्रष्टुमागतः ॥
विच्छेदः पुत्रपौत्राणां मरणादतिरिच्यते ॥ २२ ॥
कुशलं ते मुनिश्रेष्ठ पुत्रयोश्चापि योषितः ॥
कुशलं ते स्वधर्माणां काम्यानां तपसामपि ॥ २३ ॥
दिने दिनेऽपरिच्छन्नं श्रीकृष्णार्चनमीप्सितम् ॥
स्व गुरोः सेवनं नित्यमविच्छिन्नं भवेत्तव ॥ २४ ॥
गुर्विष्टयोः पूजनं च सर्वमङ्गलकारणम् ॥
पापाधिरोगशोकघ्नं पुण्यहर्षप्रदं शुभम्॥ ॥ २९ ॥
अभीष्टदेवः सन्तुष्टो गुरौ तुष्टे नृणामिह ॥
इष्टदेवे च सन्तुष्टे सन्तुष्टाः सर्वदेवताः ॥ २६ ॥
गुरुर्विप्रः सुरो रुष्टो येषां पातकिनामिह ॥
तेषां च कुशलं नास्ति विघ्नस्तस्य पदे पदे ॥ २७ ॥
तुष्टश्च सततं वत्स श्रीकृष्णः प्रकृतेः परः ॥
सर्वान्तरात्मा भगवांस्तव भक्त्या च निर्गुणः ॥ २८ ॥
तव तुष्टो गुरुरहं विधाता जगतामपि ॥
मयि तुष्टे हरिस्तुष्टो हरौ तुष्टे तु देवताः ॥२९॥
साम्प्रतं शृणु मे धीमन्नत्रागमनकारणम् ॥
प्रेषितस्य सुराणां च विश्वसंहर्तुरेव च ॥ 2.61.३० ॥
शिवस्य गुरुपुत्रस्य साध्वीं तारां बृहस्पतेः ॥
अपहृत्य निशानाथस्तवैव शरणागतः ॥ ३१ ॥
शम्भुर्धर्मश्च सूर्य्यश्च शक्रोऽनन्तश्च पुत्रक ॥
आदित्या वसवो रुद्रा दिक्पालाश्च दिगीश्वराः ॥ ३२ ॥
युद्धायायान्ति सन्नद्धास्तिस्रः कोट्यश्च देवताः ॥
नागाः किम्पुरुषाश्चैव यक्षराक्षसगुह्यकाः ॥ ३३ ॥
भूताः प्रेताः पिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥
किराताश्चैव गन्धर्वाः समुद्रपुलिनेऽधुना ॥ ३४ ॥
तारकामयसङ्ग्रामे मध्यस्थो ऽहं सुतैः सह ॥
देहि तारां रणं किं वा त्यज चन्द्रं च कामिनम् ॥३५॥
शुक्र उवाच ॥
आगच्छन्तु सुराः सर्वे सन्नद्धा रणदुर्मदाः॥
योत्स्ये विना महेशं च सर्वेषां च गुरुं परम् ॥३६॥
दैत्या ऊचुः ॥ उभयेषां गुरुः शम्भुर्मान्यो वन्द्यश्च सर्वदा ॥
धर्मश्च साक्षी सर्वेषां त्वमेव च पितामहः ॥३७॥
अन्यांश्च तृणतुल्यांश्च नहि मन्यामहे वयम् ॥
आगच्छन्तु च योत्स्यामो व्रज ब्रूहि जगद्गुरो॥ ॥ ३८ ॥
कृपया गुरुपुत्रस्य यद्यायाति महेश्वरः ॥
आग्नेयास्त्रं प्रयोक्ष्यामः पश्चाद्योत्स्यामहे प्रभो ॥ ३९ ॥
ब्रह्मोवाच ॥
कालाग्निरुद्रः संहर्त्ता विश्वस्य बलिनां वरः ॥
हे वत्सास्तेन सार्द्धं च को वा युद्धं करिष्यति ॥ 2.61.४० ॥
भद्रकाली जगन्माता खड्गखर्पर धारिणी ॥
तया दुर्द्धर्षया सार्द्धं को वा युद्धं करिष्यति ॥ ४१ ॥
सा सहस्रभुजा देवी मुण्डमालाविभूषणा ॥
योजनायतवक्त्रा च दशयोजनविस्तृता ॥ ४२ ॥
सप्ततालप्रमाणाश्च यस्या दन्ता भयानकाः ॥
क्रोशप्रमाणजिह्वा च माहालोला भयङ्करी ॥ ॥ ४३ ॥
अतीव रौद्रा सन्नद्धा भीमाः शङ्करकिङ्कराः ॥
अतिभीमा भैरवाश्च नन्दी च रणकर्कशः ॥ ४४ ॥
शिवस्य पार्षदाः सर्वं महाबलपराक्रमाः ॥
वीरभद्रादयः शूराः कोटिसूर्य्यसमप्रभाः ॥ ४५ ॥
सहस्रमूर्ध्नः शेषस्य फणामण्डलभूषणम् ॥
विश्वं सर्षपतुल्यं च को वा योद्धा च तत्समः॥४६॥
कालाग्निरुद्रः संहर्त्ता यस्य शम्भोश्च किङ्करः॥
शूलिनस्त्रिपुरघ्नस्य ज्वलतो ब्रह्मतेजसा॥४७॥
यस्य पाशुपतास्त्रेण दुर्निवार्येण पुत्रकाः ॥
भस्मीभूतं भवेद्विश्वं दैत्यानां चैव का कथा ॥४८।
यस्य शूलेन भिन्नश्च शङ्खचूडः प्रतापवान् ॥
सुदामा पार्षदवरः कृष्णस्य परमात्मनः॥४९॥
त्रिकोटिसूर्य्यसदृशस्तेजस्वी परमाद्भुतः ॥
राधाकवचकण्ठश्च सर्वदैत्यजनेश्वरः ॥2.61.५०॥
मधुकैटभयोर्हन्ता हिरण्यकशिपोश्च यः ॥
स च विष्णुः समायाति श्वेतद्वीपात्स्वयं प्रभुः ॥ ५१ ॥
इत्युक्त्वा जगतां धाता विरराम च संसदि ॥
प्रहस्योवाच दैतेयो दानवानामधीश्वरः ॥ ५२ ॥
प्रह्राद उवाच ॥
नमस्तुभ्यं जगद्धातः सर्वेषां प्राक्तनेश्वर ॥
सर्वपूज्यः सर्वनाथः किं वक्ष्यामि तवाग्रतः ॥ ५३ ॥
हिरण्यकशिपोर्हन्ता मधुकैटभयोश्च यः ॥
सा कला यस्य कृष्णस्य परिपूर्णतमस्य च ॥ ॥ ५४ ॥
सर्वान्तरात्मनस्तस्य चक्रं नाम सुदर्शनम् ॥
अस्माकं लोकमस्मांश्च तद्द्राग्धक्ष्यति दुस्सहम् ॥ ५५ ॥
ततो न बलवाञ्छम्भुर्न च पाशुपतं विधे ॥
न च काली न शेषश्च न च रुद्रादयः सुराः ॥ ५६ ॥
यस्य लोमसु विश्वानि निखिलानि जगत्पते ॥
सर्वाधारस्य च विभोः स्थूलात्स्थूलतरस्य च ॥ ९७ ॥
षोडशांशो भगवतः स चैव हि महान्विराट् ॥
अनन्तो नहि तत्स्थूलो न काली बृहती ततः ॥ ५८ ॥
आगच्छन्तु सुराः सर्वे युद्धं कुर्वन्तु साम्प्रतम् ॥
न बिभेमि शरेभ्यश्च न च पाशुपताद्धरात् ॥ ५९ ॥
नमस्तस्मै भगवते शिवाय शिवरूपिणे ॥
नमोऽनन्ताय साधुभ्यो वैष्णवेभ्यः प्रजापते ॥ 2.61.६० ॥
श्रीकृष्णस्य प्रसादेन निर्भयोऽहं निरामयः ॥
न मे स्वात्मबलं ब्रह्मंस्तद्बलं यत्प्रभोर्बलम् ॥ ६१ ॥
स्वपापेन मृतस्तातो पुरा वै विष्णुनिन्दया ॥
निर्बन्धाच्छङ्खचूडश्च दर्पाच्च मधुकैटभौ ॥ ६२ ॥
त्रिपुरः किङ्करोऽस्माकं वीरत्वेन न गण्यते ॥
तथाऽपि प्रेरितस्तेन स रथस्थो महेश्वरः ॥ ६३ ॥
इत्युक्त्वा दानवश्रेष्ठो विरराम च संसदि ॥
उवाच जगतां धाता पुनरेव च नारद ॥ ६४ ॥
ब्रह्मोवाच ॥
विनाशकारणं युद्धमुभयोर्दैत्यदेवयोः॥
सुप्रीत्या चरणं वत्स सर्वमङ्गलकारणम् ॥ ६५ ॥
तारां भिक्षां देहि मह्यं भिक्षुकाय च वेधसे ॥
विमुखे भिक्षुके राजन्गृहस्थः सर्वपापभाक् ॥ ६६ ॥
सनत्कुमार उवाच ॥
स्वकीर्तिं रक्ष राजेन्द्र सिंहस्त्वं सुरदैत्ययोः ॥
यस्य भिक्षुर्जगद्धाता तस्य कीर्तेश्च का कथा ॥ ६७ ॥
सनातन उवाच ॥
न जितस्त्वं सुरेन्द्रैश्च ब्रह्मेशानपुरोगमैः ॥
रक्षितः कृष्णचक्रेण वैष्णवः पुण्यवाञ्छुचिः ॥ ६८ ॥
सनन्दन उवाच ॥
यस्येष्टदेवः सर्वात्मा श्रीकृष्णः प्रकृतेः परः ॥
गुरुश्च वैष्णवः शुक्रः स च केन जितो महान् ॥ ६९ ॥
सनक उवाच ॥
पुण्यवान्न जितः केन जितः पापी स्वपातकैः ॥
पुण्यदीपो न निर्वाति पाषण्डेनैव वायुना ॥ 2.61.७० ॥
ऋषय ऊचुः ॥
देहि तारां महाभाग चन्द्र प्राणाधिकं गुरोः ॥
स्वकीर्तिं रक्ष सुचिरं प्रार्थयामः पुनः पुनः ॥ ७१ ॥
प्रह्राद उवाच ॥
स्थिते मदीश्वरे साक्षान्नहि भृत्यो विराजते ॥
कर्त्तारं ब्रूहि मन्नाथं गुरुं शुक्रं सतां वरम् ॥ ७२ ॥
शिष्याणामाधिपत्ये च साधूनां गुरुरीश्वरः ॥
गुरौ समर्पितं पूर्वं सर्वैश्वर्य्यं मुनीश्वरं ॥ ७३ ॥
वयं भृत्याश्च पोष्याश्च स्वगुरोः परिचारकाः ॥
ते च शिष्याः कुशलिनो गुर्वाज्ञां पालयन्ति ये ॥ ७४ ॥
प्रह्रादस्य वचः श्रुत्वा चकार प्रार्थनां कविम् ॥
ददौ शुक्रश्च तारां तां चन्द्रं च मलिनं मुने ॥ ७५ ॥
दत्त्वा तारां विधुं शुक्रः प्रणनाम विधेः पदे ॥
नमस्कृत्य मुनिभ्यश्च प्रणतः स्वपुरं ययौ ॥ ७६ ॥
प्रह्लादः सगणो भक्त्या नमस्कृत्य विधेः पदे ॥
प्रत्येकं वै मुनिगणान्प्रणतः स्वगृहं ययौ ॥ ७७ ॥
ब्रह्मा ददर्श तारां च प्रणतां स्वपदे सतीम् ॥
लज्जया नम्रवक्त्रां च रुदतीं गुर्विणीं मुने ॥ ७८ ॥
चन्द्रं च प्रणतं धाता क्रोडे संस्थाप्य मायया ॥
उवाच मलिनां तारां कातरां च कृपामयः ॥७९॥
तारे त्यज भयं मत्तः भयं किं ते मयि स्थिते ॥
सौभाग्ययुक्ता स्वपतौ भविष्यसि वरेण मे ॥2.61.८०॥
दुर्बला बलिना ग्रस्ता निष्कामा न च्युता भवेत् ॥
प्रायश्चित्तेन शुद्धा सा न स्त्री जारेण दुष्यति ॥ ८१ ॥
सकामा कामतो जारं भजते स्वसुखेन च ॥
प्रायश्चित्तान्न शुद्धा सा स्वामिना परिवर्जिता ॥ ८२ ॥
कुम्भीपाके पच्यते सा यावच्चन्द्रदिवाकरम् ॥
अन्नं विष्ठा जलं मूत्रं स्पर्शनं सर्वपापदम् ॥ ८३ ॥
पापी यस्याश्च तस्याश्च साधुभिः परिवर्जितम् ॥
कस्य गर्भं वद शुभे गच्छ वत्से गुरोर्गृहम् ॥ ८४ ॥
त्यज लज्जां महाभागे सर्वं च प्राक्तनाद्भवेत्॥
ब्रह्मणो वचनं श्रुत्वा तमुवाच सती तदा ॥८५॥
चन्द्रस्य गर्भं हे तात बिभर्म्यद्य स्वकर्मणा ॥
सर्वे मे साक्षिणः सन्ति दुर्बलायाः प्रजापते ॥ ८६ ॥
यदा जग्राह चन्द्रो मां दयाहीनश्च दुर्मतिः॥
इत्युक्त्वा तारका देवी सुषाव कनकप्रभम् ॥ ८७ ॥
कुमारं सुन्दरं तत्र ज्वलन्तं ब्रह्मतेजसा ॥
गृहीत्वा तनयं चन्द्रो नत्वा ब्रह्माणमीश्वरम् ॥ ८८ ॥
जगाम स स्वभवनं ब्रह्मा सिन्धुतटं ययौ ॥
साध्वीं तारां च गुरवे देवेभ्योऽप्यभयं ददौ ॥८९॥
आशिषं शम्भुधर्माभ्यां दत्त्वा लोकं ययौ विधिः ॥
देवा ययुः स्वभवनं स्वगृहं च बृहस्पतिः ॥ 2.61.९० ॥
भावानुरक्तवनितां प्राप्य संहृष्टमानसः ॥
तारकागर्भसम्भूतः स एव च बुधः स्वयम् ॥ ९१ ॥
तेजस्वी सद्ग्रहो ब्रह्मश्चन्द्रस्य तनयो महान् ॥
स एव नन्दनवने चित्रां सम्प्राप्य निर्जने ॥ ९२ ॥
घृताच्या गर्भसम्भूतां कुबेरस्य च रेतसा ॥
दृष्ट्वा च निर्जने रम्यां कन्यां कमललोचनाम् ॥ ९३ ॥
अतीव यौवनस्थां च बालां षोडशवार्षिकीम् ॥
गान्धर्वेण विवाहेन तां जग्राह विधोः सुतः ॥ ९४ ॥
तस्यामथायं रहसि वीर्य्याधानं चकार सः ॥
बभूव राजा चित्रायां चैत्रो वै मण्डलेश्वरः ॥९५॥
सप्तद्वीपवतीं पृथ्वीं शास्ति वै धार्मिको बली ॥
शतं नद्यो घृतानां च दध्नां नद्यः शतानि च ॥ ९६ ॥
शतानि नद्यो दुग्धानां मधुनद्यश्च षोडश ॥
दश नद्यश्च तैलानां शर्करालक्षराशयः ॥ ९७ ॥
मिष्टान्नानां स्वस्तिकानां लक्षराशिश्च नित्यशः ॥
पञ्चकोटिगवां मांसं सापूपं स्वन्नमेव च ॥ ९८ ।
एतेषां च नदीराशीर्भुञ्जते ब्राह्मणा मुने ॥
गवां लक्षं च रत्नानां मणीनां लक्षमेव च ॥ ९९ ॥
शतलक्षं सुवर्णानां लक्षं वै सूक्ष्मवाससाम् ॥
रत्नानां भूषणं पात्रमतीव सुमनोहरम् ॥ 2.61.१०० ॥
ददौ द्विजातये राजा नित्यं वै जीवितावधि ॥
तस्य चैत्रस्य पुत्रश्च राजाऽधिरथ एव च ॥ १०१ ॥
तस्य पुत्रश्च सुरथश्चक्रवर्त्ती बृहच्छ्रवाः ॥
महाज्ञानं च सम्प्राप्य मेधसो मुनिसत्तमात् ॥ १०२ ॥
भेजे पुरा विष्णुमायां पुण्यक्षेत्रे च भारते ॥
शरत्काले महापूजां चकार स सरित्तटे॥१०३॥
वैश्येन सार्धं स महाञ्ज्ञानिनां मुनिसत्तम॥
राजा कलिङ्गदेशस्य विराधश्च विशां वरः ॥ १०४ ॥
तस्य पुत्रो महायोगी द्रुमिणो ज्ञानिनां वरः ॥
द्रुमिणो वैष्णवः प्राज्ञः पुष्करे दुष्करं तपः ॥ १०५ ॥
कृत्वा समाधिं सम्प्राप ज्ञानिनां वैष्णवाग्रणीः ॥
पुत्रैर्दारैर्निरस्तश्च धनलोभाद्दुरात्मभिः ॥१०६॥
स च कोटिसुवर्णं च नित्यं दत्त्वा जलं पपौ ॥
मुक्तिं सम्प्राप संसेव्य विष्णुमायां सनातनीम्॥१०७॥
राजा लेभे मनुत्वं च राज्यं निष्कण्टकं मुने ॥
उवाच मधुरं वाक्यं धाता त्रिजगतां पतिः ॥ १०८ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने गुरोस्ताराप्राप्तिबुधोत्पत्त्यादिवर्णनं नामैकषष्टितमोऽध्यायः ॥ ६१ ॥