नारद उवाच ॥
सर्वाख्यानं श्रुतं ब्रह्मन्नतीव परमाद्भुतम्॥
अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम्॥१॥
दुर्गा नारायणीशाना विष्णुमाया शिवा सती ॥
नित्या सत्या भगवती शर्वाणी सर्वमङ्गला॥२॥
अम्बिका वैष्णवी गौरी पार्वती च सनातनी॥
नामानि कौथुमोक्तानि सर्वेषां शुभदानि च॥३॥
अर्थं षोडशनाम्नां च सर्वेषामीप्सितं वरम्॥
ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्वसम्मतम् ॥४॥
केन वा पूजिता साऽऽदौ द्वितीये केन वा पुरा ॥
तृतीये वा चतुर्थे वा केन सर्वत्र पूजिता ॥ ५ ॥
नारायण उवाच ॥
अर्थं षोडशनाम्नां च विष्णुर्वेदे चकार सः ॥
ज्ञात्वा पुनः पृच्छसि त्वं कथयामि यथागमम् ॥ ६ ॥
दुर्गो दैत्ये महाविघ्ने भवबन्धे च कर्म्मणि ॥
शोके दुःखे च नरके यमदण्डे च जन्मनि ॥ ७ ॥
महाभयेऽतिरोगे चाप्याशब्दो हन्तृवाचकः ॥
एतान्हन्त्येव या देवी सा दुर्गा परिकीर्त्तिता ॥८॥
यशसा तेजसा रूपैर्नारायणसमा गुणैः ॥
शक्तिर्नारायणस्येयं तेन नारायणी स्मृता ॥ ९ ॥
ईशानः सर्वसिद्ध्यर्थे चाशब्दो दातृवाचकः ॥
सर्वसिद्धिप्रदात्री या साऽपीशाना प्रकीर्त्तिता ॥2.57.१०॥
सृष्टा माया पुरा सृष्टौ विष्णुना परमात्मना ॥
मोहितं मायया विश्वं विष्णुमाया प्रकीर्त्तिता ॥११॥
शिवे कल्याणरूपा च शिवदा च शिवप्रिया ॥
प्रिये दातरि चाशब्दः शिवा तेन प्रकीर्तिता ॥१२॥
सद्बुद्ध्यधिष्ठातृदेवी विद्यमाना युगे युगे॥
पतिव्रता सुशीला च सा सती परिकीर्तिता॥१३॥
यथा नित्यो हि भगवान्नित्या भगवती तथा॥
स्वमायया तिरोभूता तत्रेशे प्राकृते लये॥१४॥
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव कृत्रिमम्॥
दुर्गा सत्यस्वरूपा सा प्रकृतिर्भगवान्यथा॥१५॥
सिद्धैश्वर्यादिकं सर्वं यस्यामस्ति युगे युगे ॥
सिद्धादिके भगो ज्ञेयस्तेन सा भगवती स्मृता ॥१६॥
सर्वान्मोक्षं प्रापयति जन्ममृत्युजरादिकम् ॥
चराचरांश्च विश्वस्थाञ्छर्वाणी तेन कीर्तिता ॥ १७ ॥
मङ्गलं मोक्षवचनं चाशब्दो दातृवाचकः ॥
सर्वान्मोक्षान्या ददाति सैव स्यात्सर्वमङ्गला ॥ १८ ॥
हर्षे सम्पदि कल्याणे मङ्गलं परिकीर्तितम् ॥
तान्ददाति च सर्वेभ्यस्तेन सा सर्वमङ्गला ॥१९॥
अम्बेति मातृवचनो वन्दने पूजने सदा ॥
पूजिता वन्दिता माता जगतां तेन साऽम्बिका ॥ 2.57.२० ॥
विष्णुभक्ता विष्णुरूपा विष्णोः शक्तिस्वरूपिणी ॥
सृष्टौ च विष्णुना सृष्टा वैष्णवी तेन कीर्तिता ॥ २१ ॥
गौरः पीते च निर्लिप्ते परे ब्रह्मणि निर्मले ॥
तस्यात्मनः शक्तिरियं गौरी तेन प्रकीर्तिता ॥ २२ ॥
गुरुः शम्भुश्च सर्वेषां तस्य शक्तिः या सती ॥
गुरुः कृष्णश्च तन्माया गौरी तेन प्रकीर्त्तिता ॥ ॥ २३ ॥
तिथिभेदे पर्वभेदे कल्पभेदेऽन्यभेदके ॥
ख्यातौ तेषु च विख्याता पार्वती तेन कीर्तिता ॥ २४ ॥
महोत्सवविशेषे च पर्वन्निति सुकीर्तिता ॥
तस्याधिदेवी या सा च पार्वती परिकीर्त्तिता॥२५॥
पर्वतस्य सुता देवी साऽऽविर्भूता च पर्वते॥
पर्वताधिष्ठातृदेवी पार्वती तेन कीर्त्तिता ॥ २६ ॥
सर्वकाले सना प्रोक्तो विस्तृते च तनीति च ॥
सर्वत्रसर्वकाले च विद्यमाना सनातनी ॥२७॥
अर्थः षोडशनाम्नां च कीर्त्तितश्च महामुने॥
यथागमं त्वं वेदोक्तोपाख्यानं च निशामय ॥२८॥
प्रथमे पूजिता सा च कृष्णेन परमात्मना॥
वृन्दावने च सृष्ट्यादौ गोलोके रासमण्डले ॥ २९ ॥
मधुकैटभभीतेन ब्रह्मणा सा द्वितीयतः ॥
त्रिपुरप्रेरितेनैव तृतीये त्रिपुरारिणा॥ ॥ 2.57.३० ॥
भ्रष्टश्रिया महेन्द्रेण शापाद्दुर्वाससः पुरा ॥
चतुर्थे पूजिता देवी भक्त्या भगवती सती ॥ ३१ ॥
तदा मुनीन्द्रैः सिद्धेन्द्रैर्देवैश्च मुनिपुङ्गवैः ॥
पूजिता सर्वविश्वेषु समभूत्सर्वतः सदा ॥ ३२ ॥
तेजस्सु सर्वदेवानां साऽऽविर्भूता पुरा मुने ॥
सर्वे देवा ददुस्तस्यै शस्त्राण्याभरणानि च ॥ ३३ ॥
दुर्गादयश्च दैत्याश्च निहता दुर्गया तया ॥
दत्तं स्वराज्यं देवेभ्यो वरं च यदभीप्सितम् ॥ ॥ ३४ ॥
कल्पान्तरे पूजिता सा सुरथेन महात्मना ॥
राज्ञा च मेधशिष्येण मृन्मय्यां च सरित्तटे ॥ ३५ ॥
मेषादिभिश्च महिषैः कृष्णसारैश्च मण्डकैः ॥
छागैरिक्षुसुकूष्माण्डैः पक्षिभिर्बलिभिर्मुने ॥ ३६ ॥
वेदोक्तांश्चैव दत्त्वैवमुपचारांस्तु षोडश ॥
ध्यात्वा च कवचं धृत्वा सम्पूज्य च विधानतः ॥ ३७ ॥
राजा कृत्वा परीहारं वरं प्राप यथेप्सितम् ॥
मुक्तिं सम्प्राप वैश्यश्च सम्पूज्य च सरित्तटे ॥३८॥
तुष्टाव राजा वैश्यश्च साश्रुनेत्रः कृताञ्जलिः ॥
ससर्ज मृन्मयीं तां वै गभीरे निर्मले जले ॥३९॥
मृन्मयीं तामदृष्ट्वा च जलधौतां नराधिपः ॥
रुरोद च तदा वैश्यस्ततः स्थानान्तरं ययौ ॥ 2.57.४० ॥
त्यक्त्वा देहं च वैश्यस्तु पुष्करे दुष्करं तपः ॥ ४१ ॥
कृत्वा जगाम गोलोकं दुर्गादेवीवरेण सः ॥
राजा ययौ स्वराज्यं च पूज्यो निष्कण्टकं बली ॥ ४२ ॥
भोगं च बुभुजे भूपः षष्टिवर्षसहस्रकम् ॥
भार्यां स्वराज्यं सन्न्यस्य पुत्रे वै कालयोगतः ॥४३॥
मनुर्बभूव सावर्णिस्तप्त्वा वै पुष्करे तपः ॥
इत्येवं कथितं वत्स समासेन यथागमम्॥४४॥
दुर्गाख्यानं मुनिश्रेष्ठ किं भूयः श्रोतुमिच्छसि॥९१।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृ० नारदनारायणसंवादे दुर्गोपाख्याने दुर्गादिनामव्युत्पत्त्यादिकथनं नाम सप्तपञ्चाशत्तमोऽध्यायः॥५७॥