०५५

श्रीपार्वत्युवाच ॥
श्रीकृष्णस्य स्थिते मन्त्रे चान्येषामीश्वरस्य वः ॥
कथं जग्राह राधाया मन्त्रं वै वैष्णवो नृपः ॥ १ ॥
किं विधानं च किं ध्यानं किं स्तोत्रं कवचं च किम् ॥
कं मन्त्रं च ददौ राज्ञे तां पूजापद्धतिं वद ॥ ॥ २ ॥
श्रीमहेश्वर उवाच ॥
हे विप्र कं भजामीति प्रश्नं कुर्वति राजनि ॥
शीघ्रं प्राप्नोमि गोलोकं कस्याराधनतो मुने ॥ ३ ॥
इत्युक्तवन्तं राजेन्द्रमुवाच ब्राह्मणोत्तमः ॥
तत्सेवया च तल्लोकं प्राप्स्यसे बहुजन्मतः ॥ ४ ॥
तत्प्राणाधिष्ठातृदेवीं भज राधां परात्पराम् ॥
कृपामयीप्रसादेन शीघ्रं प्राप्नोति तत्पदम् ॥ ५ ॥
इत्युक्त्वा राधिकामन्त्रं ददौ तस्मै षडक्षरम् ॥
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ६ ॥
प्राणायामं भूतशुद्धिं मन्त्रन्यासं तथैव च ॥
कराङ्गन्यासमेवं च ध्यानं सर्वसुदुर्लभम् ॥ ७ ॥
स्तोत्रं च कवचं तं च शिक्षयामास भक्तितः ॥
राजा तेन क्रमेणैव जजाप परमं मनुम् ॥ ८ ॥
ध्यानं च सामवेदोक्तं मङ्गलानां च मङ्गलम् ॥
कृष्णस्तां पूजयामास पुरा ध्यानेन येन च ॥ ९ ॥
श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ॥
सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम्॥2.55.१०॥
मुक्तापङ्क्तिप्रतिनिधिदन्तपङ्क्तिमनोहराम्॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥
वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम् ॥ ११ ॥
रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् ॥
रत्नकुण्डलयुग्मेन विचित्रेण विराजिताम् ॥
सूर्य्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम् ॥ १२ ॥
अमूल्यरत्नखचितग्रैवेयकविभूषिताम् ॥
सद्रत्नसारखचितकिरीटमुकुटोज्ज्वलाम् ॥
रत्नाङ्गुलीयसंयुक्तां रत्नपाशकशोभिताम् ॥ १३॥
बिभ्रतीं कबरीभारं मालतीमाल्यशोभिताम्॥
रूपाधिष्ठातृदेवीं च मत्तवारणगामिनीम् ॥ १४ ॥
गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ॥
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ॥ १५ ॥
सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम् ॥
नित्यं सुपूजितां भक्त्या कृष्णेन परमात्मना ॥ १६ ॥
कृष्णसौभाग्यसंयुक्तां कृष्णप्राणाधिकां वराम्॥
कृष्णप्राणाधिदेवीं च निर्गुणां च परात्पराम्॥१७॥
महाविष्णुविधात्रीं च प्रदात्रीं सर्वसम्पदाम् ॥
कृष्णभक्तिप्रदां शान्तां मूलप्रकृतिमीश्वरीम् ॥ १८ ॥
वैष्णवीं विष्णुमायां च कृष्णप्रेममयीं शुभाम् ॥
रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ॥
रासे रासेश्वरयुतां राधां रासेश्वरीं भजे ॥ १९ ॥
ध्यात्वा पुष्पं मूर्ध्नि दत्त्वा पुनर्ध्यायेज्जगत्प्रभुम् ॥
दद्यात्पुष्पं पुनर्ध्यात्वा चोपचाराणि षोडश ॥ 2.55.२० ॥
आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम् ॥
धूपं दीपं सुपुष्पं च स्नानीयं रत्नभूषणम् ॥ २१ ॥
नानाप्रकारनैवेद्यं ताम्बूलं वासितं जलम् ॥
मधुपर्कं रत्नतल्पमुपचाराणि षोडश ॥ २२ ॥
प्रत्येकं वेदमन्त्रेण दत्तं भक्त्या च भूभृता ॥
मन्त्रांश्च श्रूयतां दुर्गे वेदोक्तान्सर्वसम्मतान् ॥ २३ ॥
रत्नसारविकारं च निर्मितं विश्वकर्मणा ॥
वरं सिंहासनं रम्यं राधे पूजासु गृह्यताम् ॥२४ ॥
अमूल्यरत्नखचितममूल्यं सूक्ष्ममेव च ॥
वह्निशुद्धं निर्मलं च वसनं देवि गृह्य ताम्॥२५॥
सद्रत्नसारपा?स्थं सर्वतीर्थोदकं शुभम् ॥
पादप्रक्षालनार्थं च राधे पाद्यं च गृह्यताम् ॥२६॥
दक्षिणावर्त्तशङ्खस्थं सदूर्वापुष्पचन्दनम् ॥
पूतं युक्तं तीर्थतोयै राधेऽर्घ्यं प्रतिगृह्यताम् ॥ ॥ २७ ॥
पार्थिवद्रव्यसम्भूतमतीव सुरभीकृतम् ॥
मङ्गलार्हं पवित्रं च राधे गन्धं गृहाण मे ॥ २८ ॥
श्रीखण्डचूर्णं सुस्निग्धं कस्तूरीकुङ्कुमान्वितम् ॥
सुगन्धयुक्तं देवेशि गृह्यतामनुलेपनम् ॥ २९ ॥
वृक्ष निर्याससंयुक्तं पार्थिवद्रव्यसंयुतम् ॥
अग्निखण्डशिखाजातं धूपं देवि गृहाण मे ॥ 2.55.३० ॥
अन्धकारे भयहरममूल्यमणिशोभितम् ॥
रत्नप्रदीपं शोभाढयं गृहाण परमेश्वरि।३१॥
पारिजातप्रसूनं च गन्धचन्दनचर्चितम् ॥
अतीव शोभनं रम्यं गृह्यतां परमेश्वरि ॥३२॥
सुगन्धामलकीचूर्णं सुस्निग्धं सुमनोहरम् ॥
विष्णुतैलसमायुक्तं स्नानीयं देवि गृह्यताम्॥३३॥
अमूल्यरत्नखचितं केयूरवलयादिकम्॥
शश्वत्सु शोभनं राधे गृह्यतां भूषणं मम॥३४॥
कालदेशोद्भवं पक्वफलं वै लड्डुकादिकम्॥
परमान्नं च मिष्टान्नं नैवेद्यं देवि गृह्यताम्॥३५॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥
सर्वभोगाधिकं स्वादु ताम्बूलं देवि गृह्यताम् ॥ ३६ ॥
अशनं रत्नपात्रस्थं सुस्वादु सुमनोहरम् ॥
मया निवेदितं भक्त्या गृह्यतां परमेश्वरि॥३७।
रत्नेन्द्रसारखचितं वह्निशुद्धांशुकान्वितम् ॥
पुष्पचन्दनचर्चाढ्यं पर्य्यङ्कं देवि गृह्यताम् ३८ ॥
एवं सम्पूज्य देवीं तां दद्यात्पुष्पाञ्जलित्रयम् ॥
यत्नेन पूजयेद्देवीं नायिकाश्च व्रते व्रती ॥ ३९ ॥
प्रागादिक्रमयोगेन दक्षिणावर्ततः प्रिये ॥
भक्त्या पञ्चोपचारेण सुप्रियाः परिचारिकाः ॥ 2.55.४० ॥
मालावतीं पूर्वकोणे वह्निकोणे च माधवीम् ॥
दक्षिणे रत्नमालां च सुशीलां नैर्ऋते सतीम् ॥ ४१ ॥
पश्चिमे वै शशिकलां पारिजातां च मारुते ॥
पद्मावतीमुत्तरे चाथैशान्यां सुन्दरीं तथा ॥ ४२ ॥
यूथिकामालतीपद्ममाला दद्याद् व्रते व्रती ॥
परिहारं च कुरुते सामवेदोक्तमेव च ॥ ४३ ॥
त्वं देवी जगतां माता विष्णुमाया सनातनी ॥
कृष्णप्राणाधिदेवी च कृष्णप्राणाधिका शुभा ॥ ४४ ॥
कृष्णप्रेममयी शक्तिः कृष्णे सौभाग्यरूपिणी ॥
कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ॥ ४५ ॥
अद्य मे सफलं जन्म जीवनं सार्थकं मम ॥
पूजिताऽसि मया सा च या श्रीकृष्णेन पूजिता ॥ ४६ ॥
कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ॥
रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ॥ ४७ ॥
कृष्णप्रिया च गोलोके तुलसीकानने तु या ॥
चम्पावती कृष्णसङ्गे क्रीडा चम्पककानने ॥ ४८ ॥
चन्द्रावली चन्द्रवने शतशृङ्गे सतीति च॥
विरजा दर्पहन्त्री च विरजातटकानने॥४९॥
पद्मावती पद्मवने कृष्णा कृष्णसरोवरे॥
भद्रा कुञ्जकुटीरे च काम्या वै कम्यके वने॥2.55.५०॥
वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि॥
क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया॥५१॥
सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी॥
सनातनी विष्णुमाया दुर्गा शङ्करवक्षसि॥५२॥
सावित्री वेदमाता च कलया ब्रह्मवक्षसि ॥
कलया धर्मपत्नी त्वं नरनारायणप्रभोः ॥ ५३ ॥
कलया तुलसी त्वं च गङ्गा भुवनपावनी ॥
लोमकूपोद्भवा गोप्यः कलांशा रोहिणी रतिः ॥ ५४ ॥
कला कलांशरूपा च शतरूपा शची दितिः ॥
अदितिर्देवमाता च त्वत्कलांशा हरिप्रिया ॥९५॥
देव्यश्च मुनिपत्न्यश्च त्वत्कलाकलया शुभे ॥
कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते ॥ ५६ ॥
एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् ॥
पुरा कृतं स्तोत्रमेतद्भक्तिदास्यप्रदं शुभम् ॥५७॥
एवं नित्यं पूजयेद्यो विष्णुतुल्यः स भारते ॥
जीवन्मुक्तश्च पूतश्च गोलोकं याति निश्चितम् ॥ ५८ ॥
कार्त्तिकीपूर्णिमायां च राधां यः पूजयेच्छिवे ॥
एवं क्रमेण प्रत्यब्दं राजसूयफलं लभेत् ॥ ५९ ॥
परमैश्वर्य्ययुक्तः स्यादिह लोके स पुण्यवान् ॥
सर्वपापाद्विनिर्मुक्तो यात्यन्ते विष्णुमन्दिरम् ॥ 2.55.६० ॥
आदावेवं क्रमेणैव रासे वृन्दावने वने ॥
स्तुता सा पूजिता राधा श्रीकृष्णेन पुरा सती ॥६१॥
सम्पूजिता द्वितीये च धात्रा त्वेवं क्रमेण च ॥
त्वद्वरेण च सम्प्राप्य विधाता वेदमातरम् ॥ ६२ ॥
नारायणो महालक्ष्मीं प्राप सम्पूज्य भारतीम् ॥
गङ्गां च तुलसीं चैव परां भुवनपावनीम् ॥ ॥६३।
विष्णुः क्षीरोदशायी च प्राप सिन्धुसुतां तथा ॥
मृतायां दक्षकन्यायां मया कृष्णाज्ञया पुरा ॥ ६४ ॥
त्वमेव दुर्गा सम्प्राप्ता पूजिता पुष्करे च सा ॥
अदितिं कश्यपः प्राप चन्द्रः सम्प्राप रोहिणीम् ॥ ६५ ॥
कामो रतिं च सम्प्राप धर्मो मूर्तिं पतिव्रताम्।
देवाश्च मुनयश्चैव यां सम्पूज्य प्रतिव्रताम् ॥ ६६ ॥
सम्प्रापुर्यद्वरेणैव धर्मकामार्थमोक्षकम् ॥
एवं पूजाविधानं च कथितं च स्तवं शृणु ॥ ६७ ॥
श्रीमहेश्वर उवाच ॥
एकदा मानिनी राधा बभूवागोचरा प्रभोः ॥
संसक्तस्य तुलस्यां च गोप्यां च तुलसीवने॥६८॥
सा संहृत्य स्वमूर्त्तीश्च कलाः सर्वाश्च लीलया ॥
सर्वे बभूवुर्देवाश्च ब्रह्मविष्णुशिवादयः ॥ ६९ ॥
भ्रष्टैश्वर्य्याश्च निश्श्रीका भार्य्याहीना ह्युपद्रुताः ॥
ते च सर्वे समालोच्य श्रीकृष्णं शरणं ययुः ॥ 2.55.७० ॥
तेषां स्तोत्रेण सन्तुष्टः स्नात्वा सम्पूज्य तां शुचिः ॥
तुष्टाव परमात्मा स सर्वेषां राधिकां सतीम् ॥ ७१ ॥
श्रीकृष्ण उवाच ॥
एवमेव प्रियोऽहं ते प्रमोदश्चैव ते मयि ॥
सुव्यक्तमद्य कापट्यवचनं ते वरानने ॥७२॥
हे कृष्ण त्वं मम प्राणा जीवात्मेति च सन्ततम् ॥
यद्ब्रूहि नित्यं प्रेम्णा त्वं साम्प्रतं तद्गतं द्रुतम् ॥ ॥ ७३ ॥
तस्मात्सर्वमलीकं ते वचनं जगदम्बिके ॥
क्षुरधारं च हृदयं स्त्रीजातीनां च सर्वतः ॥ ७४ ॥
अस्माकं वचनं सत्यं यद्ब्रवीमि च तच्छ्रुतम् ॥
पञ्चप्राणाधिदेवी त्वं राधा प्राणाधिकेति मे ॥ ७५ ॥
शक्तो न रक्षितुं त्वां च यान्ति प्राणास्त्वया विना ॥
विनाऽधिष्ठातृदेवीं च को वा कुत्र च जीवति ॥९३॥।
महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी ॥
सगुणा त्वं च कलया निर्गुणा स्वयमेव तु ॥७७॥
ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा ॥
भक्तानां रुचिवैचित्र्यान्नानामूर्त्तीश्च बिभ्रती ॥ ७८ ॥
महालक्ष्मीश्च वैकुण्ठे भारती च सतां प्रसूः ॥
पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा ॥ ७९ ॥
तुलसी पुण्यरूपा च गङ्गा भुवनपावनी ॥
ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा ॥2.55.८०॥
गोलोके राधिका त्वं च सर्वगोपालकेश्वरी ॥
त्वया विनाऽहं निर्जीवो ह्यशक्तः सर्व कर्म्मसु ॥ ८१ ॥
शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना ॥
वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह ॥ ८२ ॥
नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः ॥
फलं ददाति यज्ञश्च त्वया दक्षिणया सह ॥८३॥
बिभर्त्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् ॥
बिभर्त्ति गङ्गारूपां त्वां मूर्ध्नि गङ्गाधरः शिवः ॥८४॥
शक्तिमच्च जगत्सर्वं शवरूपं त्वया विना ॥
वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना ॥८९॥
यथा मृदा घटं कर्त्तुं कुलालः शक्तिमान्सदा ॥
सृष्टिं स्रष्टुं तथाऽहं च प्रकृत्या च त्वया सह ॥८६॥
त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् ॥
सर्वशक्तिस्वरूपा त्वं त्वमागच्छ ममान्तिकम् ॥ ८७ ॥
वह्नौ त्वं दाहिकाशक्तिर्नाग्निश्शक्तस्त्वया विना ॥
शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः ॥ ८८ ॥
प्रभारूपा हि सूर्य्ये त्वं त्वां विना न स भानुमान् ॥
न कामः कामिनीबन्धुस्त्वया रत्या विना प्रिये ॥८९॥
इत्येवं स्तवनं कृत्वा तां सम्प्राप जगत्प्रभुः ॥
देवा बभूवुः सश्रीकाः सभार्य्याः शक्तिसंयुताः ॥ 2.55.९० ॥
सस्त्रीकं च जगत्सर्वं समभूच्छैलकन्यके ॥
गोपीपूर्णश्च गोलोको ह्यभवत्तत्प्रसादतः ॥ ९१ ॥
राजा जगाम गोलोकमिति स्तुत्वा हरिप्रियाम् ॥
श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः ॥ ९२ ॥
कृष्णभक्तिं च तद्दास्यं सं प्राप्नोति न संशयः ॥
स्त्रीविच्छेदे यः शृणोति मासमेकमिदं शुचिः ॥ ९३ ॥
अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् ॥
भार्याहीनो भाग्यहीनो वर्षमेकं शृणोति यः॥ ९४ ॥
अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् ॥
पुरा मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति ॥ ९५ ॥
मृतायां दक्षकन्यायामाज्ञया परमात्मनः ॥
स्तोत्रेणानेन सम्प्राप्ता सावित्री ब्रह्मणा पुरा ॥ ९६ ॥
पुरा दुर्वाससः शापान्निश्श्रीके देवतागणे ॥
स्तोत्रेणानेन देवैस्तैः सम्प्राप्ता श्रीः सुदुर्लभा ॥ ९७ ॥
शृणोति वर्षमेकं च पुत्रार्थी लभते सुतम् ॥
महाव्याधी रोगमुक्तो भवेत्स्तोत्रप्रसादतः ॥ ९८ ॥
कार्त्तिकीपूर्णिमायां तु तां सम्पूज्य पठेत्तु यः ॥
अचलां श्रियमाप्नोति राजसूयफलं लभेत् ॥ ९९ ॥
नारी शृणोति चेत्स्तोत्रं स्वामिसौभाग्यसंयुता ॥
भक्त्या शृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम्॥ ॥ 2.55.१०० ॥
नित्यं पठति यो भक्त्या राधां सम्पूज्य भक्तितः ॥
स प्रयाति च गोलोकं निर्मुक्तो भवबन्धनात् ॥ १०१ ॥
इति श्री ब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे श्रीराधिकोपाख्याने राधापूजास्तोत्रादिकथनन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥