राजोवाच ॥
कुत्राधारो महाविष्णोः सर्वाधारस्य तस्य च ॥
कालभीतस्य कति च कालमाया मुनीश्वर ॥ १ ॥
क्षुद्रस्य कतिचित्कालं ब्रह्मणः प्रकृतेस्तथा ॥
मनोरिन्द्रस्य चन्द्रस्य सूर्य्यस्यायुस्तथैव च ॥ २ ॥
अन्येषां वै जनानां च प्राकृतानां परं वयः ॥
वेदोक्तं सुविचार्य्यं च वद वेदविदां वर ॥ ३ ॥
विश्वानामूर्ध्वभागे च कस्स्याद्वा लोक एव सः ॥
कथयस्व महाभाग सन्देहच्छेदनं कुरु ॥ ४ ॥
मुनिरुवाच ॥
गोलोको नृप विश्वानां विस्तृतश्च नभस्समः ॥
तथा नित्यं डिम्बरूपश्श्रीकृष्णेच्छासमुद्भवः ॥ ९ ॥
जलेन परिपूर्णश्च कृष्णस्य मुखबिन्दुना ॥
सृष्ट्युन्मुखस्यादिसर्गे परिश्रान्तस्य खेलतः ॥६॥
प्रकृत्या सह युक्तस्य कलया निजया नृप ॥
तत्राधारो महाविष्णोर्विश्वाधारस्य विस्तृतः ॥७॥
प्रकृतिर्गर्भसंर्युक्तडिम्बोद्भूतस्य भूमिप ॥
सुविस्तृते जलाधारे शयानश्च महाविराट् ॥ ८ ॥
राधेश्वरस्य कृष्णस्य षोडशांशः प्रकीर्तितः ॥
दूर्वादलश्यामरूपः सस्मितश्च चतुर्भुजः ॥ ९ ॥
वनमालाधरः श्रीमाञ्छोभितः पीतवाससा ॥
ऊर्ध्वं नभसि तद्विष्णोर्नित्यवैकुण्ठ एव च ॥2.54.१०॥
आत्माऽऽकाशसमो नित्यो विस्तृतश्चन्द्रबिम्बवत् ॥
ईश्वरेच्छासमुद्भूतो निर्लक्ष्यश्च निराश्रयः ॥ ११ ॥
आकाशवत्सुविस्तारो रत्नौघैश्च विनिर्मितः ॥
तत्र नारायणः श्रीमान्वनमाली चतुर्भुजः ॥ १२ ॥
लक्ष्मीसरस्वतीगङ्गातुलसीपतिरीश्वरः ॥
सुनन्दनन्दकुमुदपार्षदादिभिरावृतः॥१३॥
सर्वेशः सर्वसिद्धेशो भक्तानुग्रहविग्रहः ॥
श्रीकृष्णश्च द्विधाभूतो द्विभुजश्च चतुर्भुजः ॥१४॥
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥
ऊर्ध्वं वैकुण्ठलोकाच्च पञ्चाशत्कोटियोजनात ॥ १५ ॥
गोलोको वर्त्तुलाकारो वरिष्ठस्सर्वलोकतः ॥
अमूल्यरत्नखचितैर्मन्दिरैश्च विभूषितः ॥ १६ ॥
रत्नेन्द्रसारखचितैः स्तम्भसोपानचित्रितैः ॥
मणीन्द्रदर्पणासक्तैः कपाटैः कलशोज्ज्वलैः ॥ १७ ॥
नानाचित्रविचित्रैश्च शिबिरैश्च विराजितः ॥
कोटियोजनविस्तीर्णो दैर्घ्ये शतगुणस्तथा ॥
विरजासरिदाकीर्णैश्शतशृङ्गैस्सुवेष्टितः ॥ १८ ॥
सरिदर्धप्रमाणेन दैर्घ्येण च ततेन च ॥
शैलार्द्धपरिमाणेन युक्तो वृन्दावनेन च ॥ ॥ १९ ॥
तदर्द्धमानविलसद्रासमण्डलमण्डितः ॥
सरिच्छैलवनादीनां मध्ये गोलोक एव च ॥ 2.54.२० ॥
यथा पङ्कजमध्ये च कर्णिका सुमनोहरा ॥
तत्र गोगोपगोपीभिर्गोपीशो रासमण्डले ॥ २१ ॥
रासेश्वर्य्या राधिकया संयुक्तः सन्ततं नृप ॥
द्विभुजो मुरलीहस्तः शिशुर्गोपालरूपधृक् ॥२२॥
वह्निशुद्धांशुकाधानो रत्नभूषणभूषितः ॥
चन्दनोक्षितसर्वाङ्गो रत्नमालाविराजितः ॥२३॥
रत्नसिंहासनस्थश्च रत्नच्छत्रेण शोभितः ॥
तथा स प्रियगोपालैः सेवितः श्वेतचामरैः ॥ २४ ॥
भूषिताभिश्च गोपीभिर्मालाचन्दनचर्चितः॥
सस्मितः सकटाक्षाभिः सुवेषाभिश्च वीक्षितः॥२५॥
कथितो लोकविस्तारो यथाशक्ति यथागमम्॥
यथाश्रुतं शम्भुवक्त्रात्कालमानं निशामय ॥ २६ ॥
पात्रं षट्पलसम्भूतं गभीरं चतुरङ्गुलम् ॥ २७ ॥
स्वर्णमाषकृतच्छिद्रं दण्डैश्च चतुरङ्गुलैः ॥
यावज्जलप्लुतं पात्रं तत्कालं दण्डमेव च ॥ २८ ॥
दण्डद्वयं मुहूर्तं च यामस्तस्य चतुष्टयम् ॥
वासरश्चाष्टभिर्यामैः पक्षस्तैर्दशपञ्चभिः ॥ २९ ॥
मासो द्वाभ्यां च पक्षाभ्यां वर्षं द्वादशमासकैः ॥
मासेन वै नराणां च पितॄणां तदहर्निशम् ॥ 2.54.३० ॥
कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्त्तिता ॥
वत्सरेण नराणां च देवानां च दिवानिशम् ॥ ३१ ॥
अयनं ह्युत्तरमहो रात्रिर्वै दक्षिणायनम् ॥
युगकर्मानुरूपं च नरादीनां वयो नृप ॥ ३२ ॥
प्रकृतेः प्राकृतानां च ब्रह्मादीनां निशामय ॥
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ॥ ३३ ॥
दिव्यैर्द्वादशसाहस्रैः सावधानं निशामय ॥
चत्वारि त्रीणि च द्वयेकं सहस्राणि कृतादिकम् ॥३४॥
तेषां च सन्ध्यासन्ध्यांशौ द्वे सहस्रे प्रकीर्तिते ॥
त्रिचत्वारिंशकैर्लक्षैस्सविंशतिसहस्रकैः ॥ ३५ ॥
चतुर्युगं परिमितं नरमानक्रमेण च ॥
लक्षैश्च सप्तदशभिस्साष्टविंशसहस्रकैः ॥ ३६ ॥
कृतं युगं नृमानेन सङ्ख्याविद्भिः प्रकीर्त्तितम् ॥
सहस्रैष्षण्णवतिभिर्लक्षैर्द्वादशभिस्सह ॥ ३७ ॥
त्रेतायुगं परिमितं कालविद्भिः प्रकीर्त्तितम् ॥
अष्टलक्षैस्सह मितं चतुष्षष्टिसहस्रकम्॥३८॥
परिमाणं द्वापरस्य सङ्ख्याविद्भिरितीरितम्॥
सद्वात्रिंशत्सहस्रैश्च चतुर्लक्षैश्च वत्सरैः॥
नृमानाद्वै कलियुगं विदुः कालविदो बुघाः॥३९॥
तत्र सप्त च वारा वै तिथयः षोडश स्मृताः॥
दिवारात्र्यश्च पक्षौ द्वौ मासो वर्षं च निर्मितम्॥2.54.४०॥
तथा भ्रमति तच्चक्रमेवमेवं चतुर्युगम्॥
तथा युगानि राजेन्द्र तथा मन्वन्तराणि च॥४१॥।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः॥
एवं क्रमाद्भ्रमन्त्येव मनवश्च चतुर्दश॥४२॥
पञ्चविंशतिसाहस्रं षष्ट्यन्तशतपञ्चकम् ॥
नरमानयुगं चैव परं मन्वन्तरं स्मृतम्॥४३॥
आख्यानं च मनूनां च धर्मिष्ठानां नराधिप॥
यच्छ्रुतं शिववक्त्रेण तत्त्वं मत्तो निशामय॥४४॥
आद्यो मनुर्ब्रह्मपुत्रः शतरूपा पतिव्रता ॥
धर्मिष्ठानां वरिष्ठश्च गरिष्ठो मनुषु प्रभुः॥४५॥
स्वायम्भुवः शम्भुशिष्यो विष्णुव्रतपरायणः ॥
जीवन्मुक्तो महाज्ञानी भवतः प्रपितामहः॥४६॥
राजसूयसहस्रं च चक्रे वै नर्मदातटे॥
त्रिलक्षमश्वमेधं च त्रिलक्षं नरमेधकम्॥४७॥
गोमेधं च चतुर्लक्षं विधिवन्महदद्भुतम् ॥
ब्राह्मणानां त्रिकोटीश्च भोजयामास नित्यशः ॥ ४८ ॥
पञ्चलक्षगवां मांसैः सुपक्वैर्घृतसंस्कृतैः ॥
चर्व्यैंश्चोष्यैर्लेह्यपेयैर्मिष्टद्रव्यैः सुदुर्लभैः॥४९॥
अमूल्यरत्नलक्षं च दशकोटिसुवर्णकम् ॥
स्वर्णशृङ्गयुतं दिव्यं गवां लक्षं सुपूजितम् ॥ ॥2.54.५०॥
वह्निशुद्धानि वस्त्राणि मुनीन्द्राणां च लक्षकम् ॥
भूमिं च सर्वसस्याढ्यां गजेन्द्राणां च लक्षकम्॥
त्रिलक्षमश्वरत्नं च शातकुम्भविभूषितम्॥९१॥
सहस्रं रथरत्नं च शिबिकालक्षमेव च॥
त्रिकोटिस्वर्णपात्राणि सान्नं सजलमीप्सितम्॥
त्रिकोटिस्वर्णभूषाश्च कर्पूरादिसुवासितम्॥५२॥
ताम्बूलं सुविचित्रं च त्रिकोटिस्वर्णतल्पकम्॥
रत्नेन्द्रखचितैर्मञ्चैः रचितैर्विश्वकर्मणा ॥५३॥
वह्निशुद्धांशुकैश्चित्रै राजितं माल्यजालकैः॥
नित्यं ददौ ब्राह्मणेभ्यो विष्णुप्रीत्या शिवाज्ञया॥५४॥
सम्प्राप्य शङ्कराज्ज्ञानं कृष्णमन्त्रं सुदुर्लभम्॥
सम्प्राप्य कृष्णदास्यं च गोलोकं वै जगाम सः॥५५॥
दृष्ट्वा मुक्तं स्वपुत्रं च प्रहष्टोऽभूत्प्रजापतिः॥
तुष्टाव शङ्करं तुष्टः ससृजेऽन्यं मनुं विधिः॥५६॥
यतः स्वयम्भुपुत्रोऽयमतः स्वायम्भुवो मनुः॥
स्वारोचिषो मनुश्चैव द्वितीयो वह्निनन्दनः॥५७॥
राजा वदान्यो धर्मिष्ठः स्वायम्भुवसमो महान् ॥
प्रियव्रतसुतावन्यौ द्वौ मनू धर्मिणां वरौ ॥ ५८ ॥
तौ तृतीयौ चतुर्थौ च वैष्णवौ तापसोत्तमौ ॥
तौ च शङ्करशिष्यौ च कृष्णभक्तिपरायणौ ॥ ५९ ॥
धर्मिष्ठानां वरिष्ठश्च रैवतः पञ्चमो मनुः ॥
षष्ठश्च चाक्षुषो ज्ञेयो विष्णुभक्तिपरायणः ॥ 2.54.६० ॥
श्राद्धदेवः सूर्यसुतो वैष्णवः सप्तमो मनुः ॥
सावर्णिः सूर्यतनयो वैष्णवो मनुरष्टमः ॥ ६१ ॥
नवमो दक्षसावर्णिर्विष्णुव्रतपरायणः ॥
दशमो ब्रह्मसावर्णिर्ब्रह्मज्ञानविशारदः ॥ ६२ ॥
ततश्च धर्मसावर्णिर्मनुरेकादशः स्मृतः ॥
धर्मिष्ठश्च वरिष्ठश्च वैष्णवव्रततत्परः ॥ ॥ ६३ ॥
ज्ञानी च रुद्रसावर्णिर्मनुश्च द्वादशः स्मृतः ॥
धर्मात्मा देवसावर्णिर्मनुरेवं त्रयोदशः ॥ ६४ ॥
चतुर्दशो महाज्ञानी चन्द्रसावर्णिरेव च ॥
यावदायुर्मनूनां स्यादिन्द्राणां तावदेव हि ॥ ६५ ॥
चतुर्दशेन्द्रावच्छिन्नं ब्रह्मणो दिनमुच्यते ॥
तावती ब्रह्मणो रात्रिः सा च ब्राह्मी निशा नृप ॥ ६६ ॥
कालरात्रिश्च सा ज्ञेया वेदेषु परिकीर्त्तिता ॥
ब्रह्मणो वासरे राजन्क्षुद्रकल्पः प्रकीर्त्तितः॥ ॥ ६७ ॥
सप्तकल्पे चिरञ्जीवी मार्कण्डेयो महातपाः ॥
ब्रह्मलोकादधः सर्वे लोका दग्धाश्च तत्र वै ॥ ६८ ॥
उत्थितेनैव सहसा सङ्कर्षणमुखाग्निना ॥
चन्द्रार्कब्रह्मपुत्राश्च ब्रह्मलोकं गता ध्रुवम् ॥६९॥
ब्रह्मरात्रिव्यतीते तु पुनश्च ससृजे विधिः ॥
तस्यां ब्रह्मनिशायां च क्षुद्रः प्रलय उच्यते ॥ 2.54.७० ॥
देवाश्च मनवश्चैव तत्र दग्धा नरादयः ॥
एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव च ॥ ७१ ॥
वर्षं द्वादशमासैश्च ब्रह्मसम्बन्धि चैव हि ॥
एवं पञ्चदशाब्दे तु गते च ब्रह्मणो नृप ॥
दैनन्दिनस्तु प्रलयो वेदेषु परिकीर्त्तितः ॥ ॥ ७२ ॥
मोहरात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः ॥
तत्र सर्वे प्रणष्टास्स्युश्चन्द्रार्कादिदिगीश्वराः ॥ ७३ ॥
आदित्या वसवो रुद्रा मनवो मानवादयः ॥
ऋषयो मुनयश्चैव गन्धर्वा राक्षसादयः ॥ ७४ ॥
मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः ॥
इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः ॥७९॥
नाडीजङ्घो बकश्चैव सर्वे नष्टाश्च तत्र वै ॥
ब्रह्मलोकादधः सर्वे लोका नागालयास्तथा ॥ ॥ ७६ ॥
ब्रह्मलोकं ययुः सर्वे ब्रह्मपुत्रादयस्तथा ॥
गते दैनन्दिने ब्रह्मा लोकांश्च ससृजे पुनः ॥७७॥
एवं शताब्दपर्य्यन्तं परमायुः प्रजापतेः ॥
ब्रह्मणश्च निपाते स्यान्महाकल्पो भवेन्नृप ॥ ७८ ॥
प्रकीर्तिता महारात्रिः सैव चेह पुरातनैः ॥
ब्रह्मणश्च निपाते च ब्रह्माण्डौघो जलप्लुतः ॥ ७९ ॥
देवमाता च सावित्री वेदा धर्म्मादयस्तथा ॥
सर्वे प्रणष्टा मृत्युश्च प्रकृतिं च शिवं विना ॥ 2.54.८० ॥
नारायणे प्रलीनाश्च विश्वस्था वैष्णवास्तथा ॥
कालाग्निरुद्रः संहर्त्ता सर्वरुद्रगणैः सह ॥८१॥
मृत्युञ्जये महादेवे प्रलीनः स तमो गुणः ॥
ब्रह्मणश्च निपातेन निमेषः प्रकृतेर्भवेत् ॥ ८२ ॥
नारायणस्य शम्भोश्च महाविष्णोश्च निश्चितम् ॥
निमेषान्ते पुनः सृष्टिर्भवेत्कृष्णेच्छया नृप ॥ ८३ ॥
कृष्णो निमेषरहितो निर्गुणः प्रकृते परः ॥
सगुणानां निमेषश्च कालसङ्ख्यावयोमितः ॥ ॥ ८४ ॥
निर्गुणस्य च नित्यस्य चाद्यन्तरहितस्य च ॥
निमेषाणां सहस्रेण प्रकृतेर्दण्ड उच्यते ॥ ८९ ॥
षष्टिदण्डात्मिकास्तस्या वासरश्च प्रकीर्त्तितः ॥
त्रिंशद्रात्रिं दिनैर्मासो वर्षं द्वादशमासकैः ॥ ८६ ॥
एवं गते शताब्दे च श्रीकृष्णे प्रकृतेर्लयः ॥
प्रकृत्यां च प्रलीनायां श्रीकृष्णे प्राकृतो लयः ॥ ८७ ॥
सर्वान्संहृत्य सा चैका महाविष्णोः प्रसूश्च या ॥
कृष्णवक्षसि लीना च मूलप्रकृतिरीश्वरी ॥८८ ॥
सन्तो वदन्ति तां दुर्गां विष्णुमायां सनातनीम् ॥
सर्वशक्तिस्वरूपां च परां नारायणीं सतीम् ॥ ८९ ॥
बुद्ध्यधिष्ठातृदेवी च श्रीकृष्णस्यैव निर्गुणाम् ॥
यन्मायामोहिताश्चैव ब्रह्मविष्णुशिवादयः॥2.54.९०॥
वैष्णवास्तां महालक्ष्मीं परां राधां वदन्ति ते ॥
अर्द्धाङ्गां च महालक्ष्मीः प्रिया नारायणस्य च ॥ ९१ ॥
प्राणाधिष्ठातृदेवीं च प्रेम्णा प्राणाधिकां वराम् ॥
स्थिरप्रेममयीं शक्तीं निर्गुणां निर्गुणस्य च ॥९२॥
नारायणश्च शम्भुश्च संहृत्य स्वगणान्बहून् ॥
शुद्धसत्त्वस्वरूपी श्रीकृष्णे लीनश्च निर्गुणे॥ ॥९३॥
गोपा गोप्यश्च गावश्च सवत्साश्च नराधिप ॥
सर्वे लीनाः प्रकृत्यां च प्रकृतिः परमेश्वरे॥।
महाविष्णौ विलीनाश्च ते सर्वे क्षुद्रविष्णवः ॥
महाविष्णुः प्रकृत्यां च सा चैवं परमात्मनि॥९५॥
प्रकृतिर्योगनिद्रा च श्रीकृष्णनयनद्वये ॥
अधिष्ठानं चकारैवं मायया चेश्वरेच्छया॥९६॥
प्रकृतेर्वासरो यावन्मितः कालः प्रकीर्त्तितः ॥
तावद्वृन्दावने निद्रा कृष्णस्य परमात्मनः॥९७॥
अमूल्य रत्नतल्पे च वह्निशुद्धांशुकार्चिते ॥
गन्धचन्दनमाल्यौघवाय्वादिसुरभीकृते ॥ ९८ ॥
पुनः प्रजागरे तस्य सर्वसृष्टिर्भवेत्पुनः ॥
एवं सर्वे प्राकृताश्च श्रीकृष्णं निर्गुणं विना ॥ ९९ ॥
तद्वन्दनं तत्स्मरणं तस्य ध्यानं तदर्चनम् ॥
कीर्त्तनं तद्गुणानां च महापातकनाशनम् ॥ 2.54.१०० ॥
एतत्ते कथितं सर्वं यद्यन्मृत्युञ्जयाच्छ्रुतम् ॥
यथागमं महाराज किं भूयः श्रोतुमिच्छसि ॥ १०१ ॥
सुयज्ञ उवाच॥
कालाग्निरुद्रो विश्वानां संहर्त्ता च तमोगुणः ॥
ब्रह्मणोऽन्ते विलीनश्च सत्त्वं मृत्युञ्जये शिवे ॥१०२॥
शिवो लीनो निर्गुणे च श्रीकृष्णे प्राकृते लये ॥
कथं तव गुरोर्नाम मृत्युञ्जय इति श्रुतम् ॥१०३॥
कथं प्रसूर्महाविष्णोर्मूलप्रकृतिरीश्वरी॥
असङ्ख्यानि च विश्वानि सन्ति वै यस्य लोमसु ॥ १०४ ॥
सुतपा उवाच ॥
ब्रह्मणोऽन्ते मृत्युकन्या प्रणष्टा जलबिम्बवत् ॥
संहर्त्री सर्वलोकानां ब्रह्मादीनां नराधिप ॥ १०५ ॥
कतिधा मृत्युकन्यानां ब्रह्मणां कोटिशो लये ॥
कालेन लीनः शम्भुश्च सत्त्वरूपे च निर्गुणे । १०६ ॥
मृत्युकन्या जिता शश्वच्छिवेन गुरुणा मम ॥
न मृत्युना जितः शम्भुः कल्पे कल्पे श्रुतौ श्रुतम् ॥ १०७ ॥
शम्भुर्नारायणस्यैव प्रकृतेश्च नराधिप ॥
नित्यानां लीनता नित्ये तन्माया न तु वास्तवी ॥ १०८ ॥
स्वयं पुमान्निर्गुणश्च कालेन सगुणः स्वयम् ॥
स्वयं नारायणः शम्भुर्मायया प्रकृतिः स्वयम् ॥ १०९ ॥
तदंशस्तत्समः शश्वद्यथा वह्नेः स्फुलिङ्गवत् ॥
ये ये च ब्रह्मणा सृष्टा रुद्रादित्यादयस्तथा ॥ 2.54.११० ॥
कल्पे कल्पे जितास्ते ते नश्वरा मृत्युकन्यया ॥
न शिवो ब्रह्मणा सृष्टः सत्यो नित्यः सनातनः ॥ १११ ॥
कतिधा ब्रह्मणां पातो यन्निमेषण भूमिप ॥
अथादिसर्गे श्रीकृष्णः प्रकृत्यां च जगद्गुरुः ॥ ११२ ॥
चकार वीर्याधानं च पुण्ये वृन्दावने वने ॥
तद्वामांशसमुद्भूता रासे रासेश्वरी परा ॥ ११३ ॥
गर्भं दधार सा राधा यावद्वै ब्रह्मणो वयः॥
ततः सुषाव सा डिम्भं गोलोके रासमण्डले ॥ ११४ ॥
चुकोप डिम्भं सा दृष्ट्वा हृदयेन विदूयता ॥
तड्डिम्भं प्रेरयामास तदधो विश्व गोलके ॥ ११५ ॥
त्यक्त्वाऽपत्य महादेवी रुरोद च मुहुर्मुहुः ॥
कृष्णस्तां बोधयामास महायोगेन योगवित् ॥ ११६ ॥
बभूव तस्माडिम्भाच्च सर्वाधारो महाविराट् ॥ ११७ ॥
सुयज्ञ उवाच ॥
अद्य मे सफलं जन्म जीवनं सार्थकं मम ॥
शापो मे वररूपश्चाप्यभवद्भक्तिकारणम् ॥ ११८ ॥
सुदुर्लभा हरेर्भक्तिः सर्वमङ्गलमङ्गला ॥
न तस्याश्च समं विप्र वेदोक्तं भक्तिपञ्चकम् ॥११९॥
यथा भक्तिर्मम भवेच्छ्रीकृष्णे परमात्मनि ॥
सुदुर्लभा च सर्वेषां तत्कुरुष्व महामुने ॥ 2.54.१२० ॥
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥
ते पुनन्त्युरुकालेन कृष्णभक्ताश्च दर्शनात् ॥ १२१ ॥
सर्वेषामाश्रमाणां च द्विजातेर्जातिरुत्तमा ॥
स्वधर्मनिरताश्चैव तेषु श्रेष्ठश्च भारते ॥ १२२ ॥
कृष्णमन्त्रोपासकश्च कृष्णभक्तिपरायणः ॥
नित्यं नैवेद्येभोजी च ततः श्रेष्ठो महाञ्छुचिः ॥१२३॥
त्वां वैष्णवं द्विजश्रेष्ठं महाज्ञानार्णवं परम् ॥
सम्प्राप्य शिवशिष्यं च कं यामि शरणं मुने ॥ १२४ ॥
अधुनाऽहं गलत्कुष्ठी तव शापान्महामुने ॥
कथं तपस्यामशुचिर्नाधिकारी करोमि च ॥ १२५ ॥
सुतपा उवाच ॥
हरिभक्तिप्रदात्री सा विष्णुमाया सनातनी ॥
सा च याननुगृह्णाति तेभ्यो भक्तिं ददाति च ॥ १२६ ॥
यांश्च माया मोहयति तेभ्यस्तां न ददाति च ॥
करोति वञ्चनां तेषां नश्वरेण धनेन च ॥ १२७ ॥
कृष्णप्रेममयीं शक्तिं प्राणाधिष्ठातृदेवताम् ॥
भज राधां निर्गुणां तां प्रदात्रीं सर्वसम्पदाम् ॥ १२८ ॥
शीघ्रं यास्यासि गोलोकं तदनुग्रहसेवया ॥
सा सेविता श्रीकृष्णेन सर्वाराध्येन पूजिता ॥ १२९ ॥
ध्यानसाध्यं दुराराध्यं भक्ताः संसेव्य निर्गुणम् ॥
सुचिरेण च गोलोकं प्रयान्ति बहुजन्मतः ॥ 2.54.१३० ॥
कृपामयीं च संसेव्य भक्ता यान्त्यचिरेण वै ॥
सा प्रसूश्च महाविष्णोः सर्वसम्पत्स्वरूपिणी ॥ १३१ ॥
सहस्रवर्षपर्य्यन्तं विप्रपादोदकं पिब ॥
कामदेवस्वरूपश्च रोगहीनो भविष्यसि ॥१३२॥
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ॥
तावत्पुष्करपत्रेषु पिबन्ति पितरो जलम् ॥ १३३ ॥
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ॥
सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥ १३४ ॥
विप्रपादोदकं चैव पापव्याधिविनाशनम् ॥
सर्वतीर्थोदकसमं भुक्तिमुक्तिप्रदं शुभम् ॥ १३५ ॥
विप्रो मानवरूपी च देवदेवो जनार्दनः ॥
विप्रेण दत्तं द्रव्यं च भुञ्जते सर्वदेवताः ॥ १३६ ॥
इत्येवमुक्त्वा विप्रश्च गृहीत्वा तस्य पूजनम् ॥
जगाम गृहमित्युक्त्वा त्वायास्ये वत्सरान्तरे ॥ १३७ ॥
भक्त्या च बुभुजे राजा विप्रपादोदकं शिवे ॥
विप्रांश्च पूजयामास भोजयामास वत्सरम् ॥ १३८ ॥
संवत्सरे व्यतीते तु निर्मुक्तो व्याधितो नृपः ॥
आजगाम मुनिश्रेष्ठः सुतपाः कश्यपाग्रणीः ॥ १३९ ॥
राधापूजाविधानं च स्तोत्रं च कवचं मनुम् ॥
ध्यानं च सामवेदोक्तं ददौ तस्मै नृपाय सः ॥ 2.54.१४० ॥
राजन्निर्गम्यतां शीघ्रमित्युक्त्वा तपसे मुनिः ॥
जगाम स्वालयाद्दुर्गं निर्जगाम त्वरन्नृपः ॥ १४१ ॥
रुरुदुर्बान्धवाः सर्वे त्रिरात्रं शोकमूर्च्छिताः ॥
भार्य्याश्च तत्यजुः प्राणान्पुत्रो राजा बभूव ह ॥ १४२ ॥
सुयज्ञः पुष्करं गत्वा चक्रे वै दुष्करं तपः ॥
दिव्यं वर्षशतं राजा जजाप परमं मनुम् ॥ १४३ ॥
तदा ददर्श गगने रथस्थां परमेश्वरीम् ॥
स तद्दर्शनमात्रेण निष्पापश्च बभूव ह ॥१४४॥
तत्याज मानुषं देहं दिव्यां मूर्त्तिं दधार ह ॥
सा देवी तेन यानेन रत्नेन्द्रैर्निर्मितेन च॥१४५॥
नृपं नीत्वा च गोलोकं तत्र चैषा ययौ तदा ॥
राजा ददर्श गोलोकं नद्या विरजया वृतम्॥१४६॥
वेष्टितं पर्वतेनैव शतशृङ्गेण चारुणा॥
श्रीवृन्दावनसंयुक्तं रासमण्डलमण्डितम् ॥१४७॥
गोगोपगोपीनिकरैः शोभितं परिसेवतैः॥
रत्नेन्द्रसारखचितैर्मन्दिरैः सुमनोहरैः ॥१४८॥
नानाचित्रविचित्रैश्च राजितं परिशोभितम्॥
सप्तत्रिंशद्भिराक्रीडैः कल्पवृक्षसमन्वितैः ॥ १४९॥
पारिजातद्रुमाकीर्णैर्वेष्टितं कामधेनुभिः ॥
आकाशवत्सुविस्तीर्णं वर्तुलं चन्द्रबिम्बवत् ॥ 2.54.१५० ॥
अत्यूर्ध्वमपि वैकुण्ठात्पञ्चाशत्कोटियोजनम् ॥
शून्ये स्थितं निराधारं धुवमेवेश्वरेच्छया ॥१५१॥
आत्माकाशसमं नित्यमस्माकं च सुदुर्लभम् ॥
अहं नारायणोऽनन्तो ब्रह्मा विष्णुर्महान्विराट् ॥ १५२ ॥
धर्मक्षुद्रविराट्सङ्घो गङ्गा लक्ष्मीः सरस्वती ॥
त्वं विष्णुमाया सावित्री तुलसी च गणेश्वरः ॥ १५३ ॥
सनत्कुमारः स्कन्दश्च नरनारायणावृषी ॥
कपिलो दक्षिणा यज्ञो ब्रह्मपुत्राश्च योगिनः ॥ १५४ ॥
पवनो वरुणश्चन्द्रः सूर्य्यो रुद्रो हुताशनः ॥
कृष्णमन्त्रोपासकश्च भारतस्थाश्च वैष्णवाः ॥ १५५ ॥
एभिर्दृष्टश्च गोलोको नान्यैर्दृष्टः कदाचन॥
निरामये च तत्रैव रत्नसिंहासने स्थितम्॥१५६॥
रत्नमालाकिरीटैश्च भूषितं रत्नभूषणैः॥
सुनिर्मलैः पीतवस्त्रैः वह्निशुद्धैर्विराजितम् ॥ १५७ ॥
चन्दनोक्षितसर्वाङ्गं किशोरं गोपरूपिणम् ॥
नवीननीरदश्यामश्वेतपङ्कजलोचनम् ॥१५८॥
शरत्पार्वणचन्द्रास्यमीषद्धास्यं मनोहरम् ॥
द्विभुजं मुरलीहस्तं भक्तानुग्रहविग्रहम्॥१५९॥
स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम्॥
ध्यानसाध्यं दुराराध्यमस्माकं च सुदुर्लभम्॥2.54.१६०॥
प्रियैर्द्वादशगोपालैः सेवितं श्वेतचामरैः॥
वीक्षितं गोपिकावृन्दैः सस्मितैः सुमनोहरैः॥१६१॥
पीडितैः कामबाणैश्च शश्वत्सुस्थिरयौवनैः॥
वह्निशुद्धांशुकाधानै रत्नभूषणभूषितैः॥१६२॥
रासमण्डलमध्यस्थं श्रीकृष्णं च परात्परम् ॥
ददर्श राजा तत्रैव राधया दर्शितं तदा ॥ १६३ ॥
स्तुतं चतुर्भिवेदैश्च मूर्तिमद्भिर्मनोहरैः ॥
रागिणीनां च रागाणामतीव सुमनोहरम् ॥ १६४ ॥
श्रुतवन्तं च सङ्गीतं यन्त्रवक्त्रोत्थितं शिवे ॥
नित्यया च सनातन्या प्रकृत्या च सह त्वया ॥ १६५ ॥
शश्वत्पूजितपादाब्जमखण्डतुलसीदलैः ॥
कस्तूरीकुङ्कुमाक्तैश्च गन्धचन्दनचर्चितैः ॥ १६६ ॥
दूर्वाभिरक्षताभिश्च पारिजातप्रसूनकैः ॥
निर्मलैर्विरजातोयैर्दत्तार्घ्यैरतिशोभितम् ॥ १६७ ॥
सुप्रसन्नं स्वतन्त्रं च सर्वकारणकारणम् ॥
सर्वेषां चान्तरात्मानं सर्वेशं सर्वजीवनम् ॥ १६८ ॥
सर्वाधारं परं पूज्यं ब्रह्म ज्योतिः सनातनम् ॥
सर्वसम्पत्स्वरूपं च दातारं सर्वसम्पदाम् ॥ १५९ ॥
सर्वमङ्गलरूपं च सर्वमङ्गलकारणम् ॥
सर्वमङ्गलदं सर्वमङ्गलनां च मङ्गलम्॥ 2.54.१७० ॥
तं दृष्ट्वा नृपतिस्त्रस्तो ह्यवरुह्य रथात्त्वरन् ॥
साश्रुनेत्रः पुलकितो मूर्ध्ना स प्रणनाम च ॥ १७१ ॥
परमात्मा ददौ तस्मै स्वदास्यं च शुभाशिषम् ॥
स्वभक्तिं निश्चलां सत्यामस्माकं च सुदुर्लभाम् ॥ १७२ ॥
राधाऽवरुह्य स्वरथात्कृष्णवक्षस्युवास सा ॥
गोपीभिः सुप्रियाभिश्च सेविता श्वेतचामरैः ॥ ॥ १७३ ॥
सम्भाषिता श्रीकृष्णेन सस्मितेन च पूजिता ॥
समुत्थितेन सहसा भक्त्या वै सम्भ्रमेण च ॥ १७४ ॥
आदौ राधां समुच्चार्य्य पश्चात्कृष्णं च माधवम् ॥
प्रवदन्ति च वेदेषु वेदविद्भिः पुरातनैः ॥१७५॥
विपर्य्ययं ये वदन्ति ये निन्दन्ति जगत्प्रसूम् ॥
कृष्णप्राणाधिकां प्रेममयीं शक्तिं च राधिकाम् ॥ १७६ ॥
ते पच्यन्ते कालसूत्रे यावच्चन्द्रदिवाकरम् ॥
भवन्ति स्त्रीपुत्रहीना रोगिणः शतजन्मसु ॥।१७७।
इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम् ॥
सा त्वं सती भगवती वैष्णवी च सनातनी॥१७८॥
नारायणी विष्णुमाया मूलप्रकृतिरीश्वरी ॥
मायया मां पृच्छसि त्वं सर्वज्ञा सर्वरूपिणी॥१७९।
स्त्रीजातिष्वधिदेवी च परा जातिस्मरा वरा ॥
कथितं राधिकाख्यानं किं भूयः श्रोतुमिच्छसि ॥ 2.54.१८० ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसं वादान्तर्गतहरगौरीसंवादे राधाख्याने सुयज्ञाख्याने सुतपःसुयज्ञसंवादे सुयज्ञस्य गोलोकप्राप्तिर्नाम चतुष्पञ्चाशत्तमोऽध्यायः॥५४॥
इति सुयज्ञोपाख्यानं समाप्तम् ॥