०५३

श्रीपार्वत्युवाच ॥
गतेषु मुनिसङ्घेषु श्रुत्वा कर्मफलं नृणाम् ॥
किं चकार नृपश्रेष्ठो ब्रह्मशापेन विह्वलः ॥ १ ॥
अतिथिर्ब्राह्मणो वाऽपि किं चकार तदा प्रभो ॥
जगाम नृपगेहं वा न वा तद्वक्तुमर्हसि ॥ २ ॥
महेश्वर उवाच ॥
गतेषु मुनिसङ्घेषु निन्दाग्रस्तो नराधिपः ॥
प्रेरितश्च वसिष्ठेन धर्मिष्ठेन पुरोधसा ॥॥ ३ ॥
पपात दण्डवद्भूमौ पादयोर्ब्राह्मणस्य च ॥
त्यक्त्वा मन्युं द्विजश्रेष्ठो ददौ तस्मै शुभाशिषम् ॥ ४ ॥
सस्मितं ब्राह्मणं दृष्ट्वा त्यक्तमन्युं कृपामयम् ॥
उवाच नृपतिश्रेष्ठः साश्रुनेत्रः कृताञ्जलिः ॥ ५ ॥
राजोवाच ॥
कुत्र वंशे भवाञ्जातः किं नाम भवतः प्रभो ॥
किन्नामा वाऽपि तद्ब्रूहि क्व वासः कथमागतः ॥६॥
विप्ररूपी स्वयं विष्णुर्गूढः कपटमानुषः ॥
साक्षात्स मूर्तिमानग्निः प्रज्वलन्ब्रह्मतेजसा ॥ ७ ॥
को वा गुरुस्ते भगवन्निष्टदेवश्च भारते ॥
तव वेषः कथमयं ज्ञानपूर्णस्य साम्प्रतम् ॥८॥
गृहाण राज्यं निखिलमैश्वर्य्यं कोशमेव च ॥
स्वभृत्यं कुरु मे पुत्रं मां च दासीं स्त्रियं मुने ॥ ९ ॥
सप्तसागरसंयुक्तां सप्तद्वीपां वसुन्धराम् ॥
अष्टादशोपद्वीपाढ्यां सशैलवनशोभिताम् ॥ 2.53.१० ॥
मया भृत्येन शाधि त्वं राजेन्द्रो भव भारते ॥
रत्नेन्द्रसारखचिते तिष्ठ सिंहासने वरे ॥॥ ११ ॥
नृपस्य वचनं श्रुत्वा जहास मुनिपुङ्गवः ॥
उवाच परमं तत्त्वमज्ञातं सर्वदुर्लभम् ॥ १२ ॥
अतिथिरुवाच ॥
मरीचिर्ब्रह्मणः पुत्रस्तत्पुत्रः कश्यपः स्वयम् ॥
कश्यपस्य सुताः सर्वे प्राप्ता देवत्वमीप्सितम्॥१३॥
तेषु त्वष्टा महाज्ञानी चकार परमं तपः ॥
दिव्यं वर्षसहस्रं च पुष्करे दुष्करं तपः॥१४॥
सिषेवे ब्राह्मणार्थं च देवदेवं हरिं परम्॥
नारायणाद्वरं प्राप विप्रं तेजस्विनं सुतम् ॥ १५॥
ततो बभूव तेजस्वी विश्वरूपस्तपोधनः॥
पुरोधसं चकारेन्द्रो वाक्पतौ तं क्रुधा गते॥१६॥
मातामहेभ्यो दैत्येभ्यो दत्तवन्तं घृताहुतिम् ॥
चिच्छेद तं शुनासीरो ब्राह्मणं मातुराज्ञया॥१७॥
विश्वरूपस्य तनयो विरूपो मत्पिता नृप ॥
अहं च सुतपा नाम विरागी कश्यपो द्विजः ॥ । १८॥
महादेवो मम गुरुर्विद्याज्ञानमनुप्रदः ॥
अभीष्टदेवः सर्वात्मा श्रीकृष्णः प्रकृतेः परः ॥ १९ ॥
तच्चिन्तयामि पादाब्जं न मे वाञ्छा ऽस्ति सम्पदि ॥
सालोक्यसार्ष्टिसारूप्यसामीप्यं राधिकापतेः ॥2.53.२०॥
तेन दत्तं न गृह्णामि विना तत्सेवनं शुभम् ॥
ब्रह्मत्वममरत्वं वा मन्येऽहं जलबिम्बवत् ॥ २१ ॥
भक्तिव्यवहितं मिथ्याभ्रममेव तु नश्वरम् ॥
इन्द्रत्वं वा मनुत्वं वा सौरत्वं वा नराधिप॥२२॥
न मन्ये जलरेखेति नृपत्वं केन गण्यते ॥
श्रुत्वा सुयज्ञयज्ञे ते मुनीनां गमनं नृप ॥ २३ ॥
लालसां विष्णुभक्तिं ते सम्प्रापयितुमागतः ॥
केवलानुगृहीतस्त्वं नहि शप्तो मयाऽधुना॥२४॥
समुद्धृतश्च पतितो घोरे निम्ने भवार्णवे ॥
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥ २९ ॥
ते पुनन्त्युरुकालेन कृष्णभक्ताश्च दर्शनात् ॥
राजन्निर्गम्यतां गेहाद्देहि राज्यं सुताय च ॥ २६ ॥
पुत्रे न्यस्य प्रियां साध्वीं गच्छ वत्स वनं द्रुतम् ॥
ब्रह्मादिस्तम्बपर्यन्तं सर्वं मिथ्यैव भूमिप ॥ २७ ॥
श्रीकृष्णं भज राधेशं परमात्मा नमीश्वरम् ॥
ध्यानसाध्यं दुराराध्यं ब्रह्मविष्णुशिवादिभिः ॥ २८ ॥
आविर्भूतैस्तिरोभूतैः प्राकृतैः प्रकृतेः परम् ॥
ब्रह्मा स्रष्टा हरिः पाता हरः संहारकारकः ॥ २९ ॥
दिक्पालाश्च दिगीशाश्च भ्रमन्त्येवास्य मायया ॥
यदाज्ञया वाति वायुः सूर्य्यो दिनपतिः सदा॥ ॥ 2.53.३० ॥
निशापतिः शशी शश्वत्सस्यसुस्निग्धताकरः ॥
कालेन मृत्युः सर्वेषां सर्वविश्वेषु वै भवेत् ॥ ३१ ॥
काले वर्षति शक्रश्च दहत्यग्निश्च कालतः॥
भीतवद्विश्वशास्ता च प्रजासंयमनो यमः॥३२॥
कालः संहरते काले काले सृजति पाति च॥
स्वदेशे वै समुद्रश्च स्वदेशे वै वसुन्धरा॥३३॥
स्वदेशे पर्वताश्चैव स्वाः पातालाः स्वदेशतः॥
स्वर्लोकाः सप्त राजेन्द्र सप्तद्वीपा वसुन्धरा॥३४॥
शैलसागरसंयुक्ताः पातालाः सप्त चैव हि ॥
ब्रह्माण्डमेभिर्लोकैश्च डिम्बाकारं जलप्लुतम् ॥३५॥
सन्त्येव प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः ॥
सुरा नराश्च नागाश्च गन्धर्वा राक्षसादयः ॥३६॥
आपातालाद्ब्रह्मलोकपर्य्यन्तं डिम्बरूपकम् ॥
इदमेव तु विध्यण्डमुत्तमं कृत्रिमं नृप ॥ ३७ ॥
नाभिपद्मे विराड्विष्णोः क्षुद्रस्य जलशायिनः ॥
स्थितं यथा पद्मबीजं कर्णिकायां च पङ्कजे ॥३८॥
एवं सोऽपि शयानस्स्याज्जलतल्पे सुविप्लुते ॥
ध्यायत्येव महायोगी प्राकृतः प्रकृतेः परम् ॥ ३९ ॥
कालभीतश्च कालेशं कृष्णमात्मानमीश्वरम् ॥ ।
महाविष्णोर्लोमकूपसाधारः सोऽस्ति विस्तृते ॥
कूपेषु लोम्नां प्रत्येकमेवं विश्वानि सन्ति वै ॥ 2.53.४० ॥
महाविष्णोर्गात्रलोम्नां ब्रह्माण्डानां च भूमिप ॥
सङ्ख्यां कर्त्तुं न शक्नोति कृष्णोऽप्यन्यस्य का कथा ॥४१॥
महाविष्णुः प्राकृतिकः सोऽपि डिम्बोद्भवः सदा॥
भवेत्कृष्णेच्छया डिम्बः प्रकृतेर्गर्भसम्भवः ॥ ४२ ॥
सर्वाधारो महान्विष्णुः कालभीतः स शङ्कितः ॥
कालेशं ध्यायति स्वैरं कृष्णमात्मानमीश्वरम् ॥ ४३ ॥
एवं च सर्वविश्वस्था ब्रह्मविष्णुशिवादयः ॥
महान्विराट् क्षुद्रविराट् सर्वे प्राकृतिकाः सदा ॥४४॥ ।
सा सर्वबीजरूपा च मूलप्रकृतिरीश्वरी ॥
काले लीना च कालेशे कृष्णे तं ध्यायति स्म सा ॥४५॥
एवं सर्वे कालभीताः प्रकृतिः प्राकृतास्तथा ॥
आविर्भूतास्तिरोभूताः कालेन परमात्मनि ॥४६॥
इत्येवं कथितं सर्वं महाज्ञानं सुदुर्लभम् ॥
शिवेन गुरुणा दत्तं किं भूयः श्रोतुमिच्छसि ॥४७॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञं प्रत्यतिथ्युपदेशो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥