०४५

नारायण उवाच ॥
उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम्॥
श्रूयतां मनसाख्यानं यच्छ्रुतं धर्मवक्त्रतः॥१॥
कन्या भगवती सा च कश्यपस्य च मानसी॥
तेनेयं मनसादेवी मनसा या च दीव्यति ॥ २ ॥
मनसा ध्यायते या वा परमात्मानमीश्वरम् ॥
तेन सा मनसादेवी योगेनैतेन दीव्यति ॥३॥
आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ॥
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ ४ ॥
जरत्कारुशरीरं च दृष्ट्वा यां क्षणमीश्वरः ॥
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ॥ ५ ॥
वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः ॥
पूजां च कारयामास चकार च पुनः स्वयम् ॥ ६ ॥
स्वर्गे च नागलोके च पृथिव्यां बह्मलोकतः ॥
भृशं जपत्सु गौरी सा सुन्दरी च मनोहरा ॥ ७ ॥
जगद्गौरीति विख्याता तेन सा पूजिता सती ॥
शिवशिष्या च सा देवी तेन शैवीति कीर्त्तिता ॥८॥
विष्णुभक्ताऽतीव रम्या वैष्णवी तेन नारद ॥
नागानां प्राणरक्षित्री जनमेजययज्ञके॥९॥
नागेश्वरीति विख्याता सा नागभगिनी तथा ॥
विषं संहर्त्तुमीशा सा तेन सा विषहारिणी ॥2.45.१ ०॥
सिद्धं योगं हरात्प्राप तेनासौ सिद्धयोगिनी॥
महाज्ञानं च गोप्यं च मृतसञ्जीविनीं पराम् ॥१ १॥
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः ॥
आस्तीकस्य मुनीन्द्रस्य माता सा वै तपस्विनः ॥ १२ ॥
आस्तीकमाता विख्याता जरत्कारुरिति स्म सा ॥
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ॥ १३ ॥
योगिनो विश्वपूज्यस्य जरत्कारोः प्रिया ततः ॥ १४ ॥
ॐ नमो मनसायै ॥
जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ॥
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥ १५ ॥
जरत्कारुप्रियाऽऽस्तीकमाता विषहरीति च ॥
महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ १६ ॥
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ॥
तस्य नागभयं नस्ति तस्य वंशोद्भवस्य च ॥ १७ ॥
नागभीदे च शयने नागग्रस्ते च मन्दिरे ॥
नागक्षते नागदुर्गे नागवेष्टितविग्रहे ॥ १८ ॥
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥
नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते ॥ १९ ॥
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥
स्तोत्रं सिद्धं भवेद्यस्य स विषं भोक्तुमीश्वरः ॥2.45.२०॥
नागौघं भूषणं कृत्वा स भवेन्नागवाहनः ॥
नागासनो नागतल्पो महा सिद्धो भवेन्नरः ॥ २१ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मनसोपाख्याने मनसास्तोत्रादिक थनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥