०४४

नारायण उवाच ॥
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथागमम्॥
देवी मङ्गलचण्डी च तदाख्यानं निशामय ॥ १ ॥
तस्याः पूजादिकं सर्वं धर्मवक्त्राच्च यच्छ्रुतम् ॥
श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ॥ २ ॥
चण्डायां वर्त्तते चण्डी जाग्रती शत्रुमण्डले ॥
मङ्गलेषु च या दक्षा मङ्गला सैव चण्डिका ॥ ३ ॥
दुर्गायां विद्यते चण्डी मङ्गलोऽपि महीसुते ॥
मङ्गलाऽभीष्टदेवी या सा स्यान्मङ्गलचण्डिका ॥ ४ ॥
मङ्गलो मनुवंशश्च सप्तद्वीपावनीपतिः ॥
तस्य पूज्याऽभीष्टदेवी तेन मङ्गलचण्डिका ॥ ५ ॥
मूर्त्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ॥
कृपारूपाऽतिप्रत्यक्षा योषितामिष्टदेवता ॥६॥
प्रथमे पूजिता सा च शङ्करेण पुरा परा ॥
त्रिपुरस्य वधे घोरं विष्णुना प्रेरितेन च ॥ ७ ॥
ब्रह्मन्ब्रह्मोपदेशेन दुर्गप्रस्थे च सङ्कटे ॥
आकाशात्पतिते याने रुषा दैत्येन पातिते ॥ ८ ॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ॥
सा च मङ्गलचण्डीयमभवद्रूपभेदतः ॥ ९ ॥
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो ॥
भगवान्वृषरूपश्च सर्वेशश्च बभूव ह ॥ 2.44.१० ॥
युद्धशक्तिस्वरूपाऽहं भविष्यामि तदाज्ञया ॥
मयाऽऽत्मना च हरिणा सहायेन वृषध्वज ॥ ११ ॥
जहि दैत्यं च देवेश सुराणां पदघातकम् ॥
इत्युक्त्वाऽन्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥ १२ ॥
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ॥
मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ॥ १३ ॥
तुष्टुवुः शङ्करं देवा भक्तिनम्रात्मकन्धराः ॥
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह ॥ १४ ॥
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ॥
ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करः शुचिः ॥ १५ ॥
पूजयामास तां शक्तिं देवीं मङ्गलचण्डिकाम् ॥
पाद्यार्घ्याचमनीयैश्च बलिभिर्विविधैरपि ॥ १६ ॥
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ॥
छागैर्मेषैश्च महिषैर्गण्डैर्मायाविभिर्वरैः ॥ १७ ॥
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ॥
मधुभिश्च सुधाभिश्च पक्वैर्नानाविधैः फलैः ॥ १८ ॥
सङ्गीतैर्नर्त्तनैर्वाद्यैरुत्सवैः कृष्णकीर्त्तनैः ॥
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन विधिपूर्वकम् ॥ १९ ॥
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ॥
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ॥
ऐं क्रूं फट्स्वाहेत्येवं चाप्येकविंशाक्षरो मनुः॥ ॥ 2.44.२० ॥
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ॥
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ २१ ॥
मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्वकामदः ॥
ध्यानं च श्रूयतां ब्रह्मन्वेदोक्तं सर्वसम्मतम् ॥ २२ ॥
देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ॥
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् ॥ २३ ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ ॥ २४ ॥
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्॥
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ २५ ॥
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ॥
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ २६ ॥
संसारसागरे घोरे पोतरूपां वरां भजे ॥ २७ ॥
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥
प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥ २८ ॥
शङ्कर उवाच ॥
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ॥
संहर्त्रि विपदां राशेर्हर्षमङ्गलकारिके ॥ २९ ॥
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ॥
शुभे मङ्गलदक्षे च शुभमङ्गल चण्डिके ॥ 2.44.३० ॥
मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले ॥
सतां मङ्गलदे देवि सर्वेषां मङ्गलालये ॥ ३१ ॥
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते ॥
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ ३२ ॥
मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले ॥
संसारे मङ्गलाधारे मोक्षमङ्गलदायिनि ॥ ३३ ॥
सारे च मङ्गलाधारे पारे त्वं सर्वकर्मणाम् ॥
प्रतिमङ्गलवारं च पूज्ये त्वं मङ्गलप्रदे ॥ ३४ ॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मगलचण्डिकाम् ॥
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ॥ ३५ ॥
देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः ॥
तन्मङ्गलं भवेच्छश्वन्न भवेत्तदमङ्गलम् ॥ ३६ ॥
प्रथमे पूजिता देवी शम्भुना सर्वमङ्गला ॥
द्वितीये पूजिता देवी मङ्गलेन ग्रहेण च ॥ ३७ ॥
तृतीये पूजिता भद्रा मङ्गलेन नृपेण च ॥
चतुर्थे मङ्गले वारे सुन्दरीभिश्च पूजिता ॥
पञ्चमे मङ्गलाकाङ्क्षैर्नरैर्मङ्गलचण्डिका॥३८॥
पूजिता प्रतिविश्वेषु विश्वेशैः पूजिता सदा ॥
ततः सर्वत्र सम्पूज्य सा बभूव सुरेश्वरी ॥ ३९ ॥
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ॥
देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः ॥ 2.44.४० ॥
तन्मङ्गलं भवेच्छश्वन्न भवेत्तदमङ्गलम् ॥
वर्द्धन्ते तत्पुत्रपौत्रा मङ्गलं च दिने दिने ॥ ४१ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मङ्गलोपाख्याने तत्स्तोत्रादिकथनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः॥४४॥