नारायण उवाच ॥
उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ॥
वक्ष्यामि दक्षिणाख्यानं सावधानं निशामय ॥१॥
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः ॥
राधाप्रधाना सध्रीची धन्या मान्या मनोहरा ॥
अतीव सुन्दरी रामा सुभगा सुदती सती ॥२॥
विद्यावती गुणवती सती रूपवती तथा ॥
कलावती कोमलाङ्गी कान्ता कमललोचना ॥ ३ ॥
सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डला ॥
ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता ॥ ४ ॥
श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ॥
कामशास्त्रसुनिष्णाता कामिनी कलहंसगा ॥ ५ ॥
भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ॥
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका ॥ ६ ॥
उवास दक्षिणे क्रोडे राधायाः पुरतः पुरा ॥
सम्बभूवानम्रमुखो भयेन मधुसूदनः ॥ ७॥
दृष्ट्वा राधां च पुरतो गोपीनां प्रवरां वराम्॥
मानिनीं रक्तवदनां रक्तपङ्कजलोचनाम् ॥ ८ ॥
कोपेन कम्पिताङ्गी च कोपनां कोपदर्शनाम् ॥
कोपेन निष्ठुरं वक्तुमुद्यतां स्फुरिताधराम् ॥९॥
आगच्छन्तीं च वेगेन विज्ञाय तदनन्तरम्॥
विरोधभीतो भगवानन्तर्द्धानं जगाम सः ॥ 2.42.१० ॥
पलायन्तं च तं शान्तं सत्त्वाधारं सुविग्रहम् ॥
विलोक्य कम्पिता गोपी सुशीलाऽन्तर्दधौ भिया ॥ ११ ॥
विलोक्य सङ्कटं तत्र गोपीनां लक्षकोटयः ॥
बद्धाञ्जलिपुटा भीता भक्तिनम्रात्मकन्धराः ॥१२॥
रक्ष रक्षेत्युक्तवत्यो हे देवीति पुनः पुनः ॥
ययुर्भयेन शरणं तस्याश्चरणपङ्कजे ॥ ॥ १३ ॥
त्रिलक्षकोटयो गोपाः सुदामादय एव च ॥
ययुर्भयेन शरणं तत्पादाब्जे च नारद ॥ १४ ॥
पलायन्तं च कान्तं वै विज्ञाय परमेश्वरी ॥
पलायन्तीं सहचरीं सुशीलां च शशाप सा ॥ १५ ॥
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका ॥
सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ॥ १६ ॥
इत्येवमुक्त्वा तत्रैव देवदेवीश्वरी रुषा ॥
रासेश्वरी रासमध्ये रासेशं चाजुहाव ह॥ ॥ १७ ॥
नालोक्य पुरतः कृष्णं राधा विरहकातरा ॥
युगकोटिसमं मेने क्षणभेदेन सुव्रता ॥ १८ ॥
हे कृष्ण हे प्राणनाथागच्छ प्राणाधिकप्रिय ॥
प्राणाधिष्ठातृदेवेह प्राणा यान्ति त्वया विना ॥ १९ ॥
स्त्रीगर्वः पतिसौभाग्याद्वर्द्धते च दिने दिने ॥
सुस्त्री चेद्विभवो यस्मात्ते भजेद्धर्मतः सदा ॥ 2.42.२० ॥
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदा गतिः ॥
परं सम्पत्स्वरूपश्च सुखरूपश्च मूर्त्तिमान्॥ ॥ २१ ॥
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ॥
सम्मानदो मानदश्च मान्यो वै मानखण्डनः ॥ २२ ॥
सारात्सारतमः स्वामी बन्धूनां बन्धुवर्द्धनः ॥
न च भर्त्तुः समो बन्धुः सर्वबन्धुषु दृश्यते ॥२३॥
भरणादेव भर्ताऽयं पालनात्पतिरुच्यते ॥
शरीरेशाच्च स स्वामी कामदः कान्त एव च ॥ २४ ॥
बन्धुश्च सुखबन्धाच्च प्रीतिदानात्प्रियः परः ॥
ऐश्वर्य्यदानादीशश्च प्राणेशात्प्राणनायकः॥२५॥
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः ॥
पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः॥२६॥
शतपुत्रात्परःस्वामी कुलजानां प्रियः सदा॥
असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥२७॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दीक्षणम् ॥
प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि वै॥२८॥
सर्वाण्येव व्रतादीनि महादानानि यानि च॥
उपोषणानि पुण्यानि यान्यन्यानि च विश्वतः॥२९॥
गुरुसेवाविप्रसेवादेवसेवादिकं च यत्।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम्॥2.42.३०॥
गुरुविप्रेष्टदेवेषु सर्वेभ्यश्च पतिर्गुरुः॥
विद्यादाता यथा पुंसां कुलजानां तथा प्रियः॥३१॥
गोपीत्रिलक्षकोटीनां गोपानां च तथैव च॥
ब्रह्माण्डानामसङ्ख्यानां तत्रस्थानां तथैव च ॥३२॥
रमादिगोपकान्तानामीश्वरी तत्प्रसादतः॥
अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः ॥ ३३ ॥
इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ सुभक्तितः ॥
आरात्सम्प्राप तं तेन विजहार च तत्र वै ॥ ३४ ॥
अथ सा दक्षिणादेवी ध्वस्ता गोलोकतो मुने ॥
सुचिरं च तपस्तप्त्वा विवेश कमलातनौ॥३५॥
अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम् ॥
न लभन्ते फलं तेषां विषण्णाः प्रययुर्विधिम् ॥३६॥
विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिः ॥
दध्यौ सुचिन्तितो भक्त्या तत्प्रत्यादेशमाप सः ॥ ३७ ॥
नारायणश्च भगवान्महालक्ष्मीश्च देहतः ॥
मर्त्यलक्ष्मीं विनिष्कृष्य ब्रह्मणे दक्षिणां ददौ ॥ ३८ ॥
ब्रह्मा ददौ तां यज्ञाय पूर्णार्थं कर्मणां सताम् ॥
यज्ञः सम्पूज्य विधिवत्तां तुष्टाव रमां मुदा ॥ ३९ ॥
तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् ॥
अतीव कमनीयां च सुन्दरीं सुमनोहराम् ॥ 2.42.४० ॥
कमलास्यां कोमलाङ्गीं कमलायतलोचनाम् ॥
कमलासनसम्पूज्यां कमलाङ्गःसमुद्रवाम् ॥ ४१ ॥
वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम् ॥
बिभ्रतीं कबरीभारं मालतीमाल्यभूषितम् ॥ ४२ ॥
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥
सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् ॥ ४३ ॥
कस्तूरीबिन्दुभिः सार्द्धं चन्दनैश्च सुगन्धिभिः ॥
सिन्दूरबिन्दुनाऽत्यन्तं मस्तकाधस्थलोज्ज्वलाम्॥४४॥
सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम् ॥
कामदेवाधाररूपां कामबाणप्रपीडिताम्॥४५॥
तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह ॥
पत्नीं तामेव जग्राह विधिबोधितमार्गतः ॥ ४६ ॥
दिव्यं वर्षशतं चैव तां गृहीत्वाऽथ निर्जने ॥
यज्ञो रेमे मुदा युक्तो रामया रमया सह ॥ ४७ ॥
गर्भं दधार सा देवी दिव्यं द्वादशवत्सरम् ॥
ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् ॥४८॥
कर्मणां फलदाता च दक्षिणा कर्मणां सताम् ॥
परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः॥४९॥
यज्ञो दक्षिणया सार्द्धं पुत्रेण च फलेन च ॥
कर्मणां फलदाता चेत्येवं वेदविदो विदुः ॥ 2.42.५० ॥
यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् ॥
फलं ददौ च सर्वेभ्यः कर्मठेभ्यो यदा मुने ॥ ५१ ॥
तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः ॥
स्वस्थानं प्रययुः सर्वे धर्मवक्त्रादिदं श्रुतम् ॥ ५२ ॥
कृत्वा कर्म च कर्ता तु तूर्णं दद्याच्च दक्षिणाम् ॥
तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने ॥ ५३ ॥
कर्ता कर्मणि पूर्णेऽपि तत्क्षणाद्यदि दक्षिणाम् ॥
न दद्याद्ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ॥ ५४ ॥
मुहूर्त्ते समतीते च द्विगुणा सा भवेद्ध्रुवम् ॥ ५५ ॥
एकरात्रे व्यतीते तु भवेद्रसगुणा च सा ॥
त्रिरात्रे वै दशगुणा सप्ताहे द्विगुणा ततः ॥ ५६ ॥
मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्द्धते ॥
संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् ॥ ५७ ॥
कर्म्म तद्यजमानानां सर्वं वै निष्फलं भवेत् ॥
स च ब्रह्मस्वापहारी न कर्मार्होऽशुचिर्नरः ॥ ५८ ॥
दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ॥
तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ॥ ५९ ॥
पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् ॥
एवं सुराश्च तत्पूजां तद्दत्तां पावकाहुतिम् ॥ 2.42.६० ॥
दाता ददाति नो दानं ग्रहीता तन्न याचते ॥
उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा घटः ॥ ६१ ॥
नार्पयेद्यजमानश्चेद्याचितारं च दक्षिणाम् ॥
भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम् ॥ ६२ ॥
वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ॥
ततो भवेत्स चण्डालो व्याधियुक्तो दरिद्रकः ॥ ६३ ॥
पातयेत्पुरुषान्सप्त पूर्वान्वै पूर्वजन्मनः ॥
इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि ॥ ६४ ॥
नारद उवाच ॥
यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने ॥
पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद ॥ ६५ ॥
नारायण उवाच ॥
कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ॥
सदक्षिणे कर्मणि च फलमेव प्रवर्त्तते ॥ ६६ ॥
या या कर्मणि सामग्री बलिर्भुङ्क्ते च तां मुने ॥
बलये तत्प्रदत्तं च वामनेन पुरा मुने ॥ ६७ ॥
अश्रोत्रियं श्राद्धवस्तु चाश्राद्धं दानमेव च ॥
वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् ॥६८॥
ऋत्विजा न कृतं यज्ञमशुचेः पूजनं च यत् ॥
गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः ॥ ६९ ॥
दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् ॥
तत्सर्वं काण्वशाखोक्तं प्रवक्ष्यामि निशामय ॥ 2.42.७० ॥
पुरा सम्प्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम्॥
मुमोह तस्या रूपेण तुष्टुवे कामकातरः ॥ ७१ ॥
यज्ञ उवाच ॥
पुरा गोलोकगोपी त्वं गोपीनां प्रवरा परा ॥
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये ॥ ७२ ॥
कार्त्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ॥
आविर्भूता दक्षिणांशात्कृष्णस्यातो हि दक्षिणा ॥ ७३ ॥
पुरा त्वं च सुशीलाख्या शीलेन सुशुभेन च ॥
कृष्णदक्षांशवासाच्च राधाशापाच्च दक्षिणा ॥ ७४ ॥
गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता ॥
कृपां कुरु त्वमेवाद्य स्वामिनं कुरु मां प्रिये ॥ ७५ ॥
कर्तॄणां कर्मणां देवी त्वमेव फलदा सदा ॥
त्वया विना च सर्वेषां सर्व कर्म च निष्फलम् ॥ ७६ ॥
फलशाखाविहीनश्च यथा वृक्षो महीतले ॥
त्वया विना तथा कर्म कर्तॄणां च न शोभते ॥ ७७ ॥
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ॥
कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ ७८ ॥
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ॥
यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ ७९ ॥
फलदाता परं ब्रह्म निर्गुणः प्रकृतेः परः ॥
स्वयं कृष्णश्च भगवान्न च शक्तस्त्वया विना ॥ 2.42.८० ॥
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ॥
सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ ८१ ॥
इत्युक्त्वा तत्पुरस्तस्थौ यज्ञाधिष्ठातृदेवकः ॥
तुष्टा बभूव सा देवी भेजे तं कमलाकला ॥ ८२ ॥
इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ॥
फलं च सर्वयज्ञानां लभते नात्र संशयः ॥ ८३ ॥
राजसूये वाजपेये गोमेधे नरमेधके ॥
अश्वमेधे लाङ्गले च विष्णुयज्ञे यशस्करे ॥ ८४ ॥
धनदे भूमिदे फल्गौ पुत्रेष्टौ गजमेधके ॥
लोहयज्ञे स्वर्णयज्ञे पटलव्याधिखण्डने ॥ ८५ ॥
शिवयजे रुद्रयज्ञे शक्रयज्ञे च बन्धके ॥
इष्टौ वरुणयागे च कन्दुके वैरिमर्दने ॥ ८६ ॥
शुचियागे धर्मयागे रेचने पापमोचने ॥
बन्धने कर्मयागे च मणियागे सुभद्रके ॥ ८७ ॥
एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् ॥
निर्विघ्नेन च तत्कर्म साङ्गं भवति निश्चितम् ॥ ८८ ॥
इदं स्तोत्रं च कथितं ध्यानं पूजाविधानकम् ॥
शालग्रामे घटे वाऽपि दक्षिणां पूजयेत्सुधीः ॥ ८९ ॥
लक्ष्मीदक्षांशसम्भूतां दक्षिणां कमलाकलाम् ॥
सर्वकर्मसु दक्षां च फलदां सर्वकर्मणाम् ॥ 2.42.९० ॥
विष्णोःशक्तिस्वरूपां च सुशीलां शुभदां भजे ॥
ध्यात्वाऽनेनैव वरदां सुधीर्मूलेन पूजयेत् ॥ ९१ ॥
दत्त्वा पाद्यादिकं देव्यै वेदोक्तेन च नारद॥
ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः ॥ ९२ ॥
पूजयेद्विधिवद्भक्त्या दक्षिणां सर्वपूजिताम् ॥
इत्येवं कथितं सर्वं दक्षिणाख्यानमुत्तमम् ॥ ९३ ॥
सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम् ॥
इदं च दक्षिणाख्यानं यः शृणोति समाहितः ॥ ९४ ॥
अङ्गहीनं च तत्कर्म न भवेद्भारते भुवि ॥
अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् ॥ ९५ ॥
भार्य्याहीनो लभेद्भार्य्यां सुशीलां सुन्दरीं पराम् ॥
वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् ॥ ९६ ॥
पतिव्रतां सुव्रतां च शुद्धां च कुलजां वराम् ॥
विद्याहीनो लभेद्विद्यां धनहीनो धनं लभेत् ॥ ९७ ॥
भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाः ॥
सङ्कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा ॥ ९८ ॥
मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः॥ ९९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दक्षिणोपाख्याने दक्षिणोत्पत्तितत्पूजादिविधानं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥