०४०

नारद उवाच॥
नारायण महाभाग समश्चैव त्वया प्रभो॥
रूपेण च गुणैश्चैव यशसा तेजसा त्विषा॥१॥
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां तथा॥
तपस्विनां मुनीनां च परो वेदविदां तथा॥
महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् ॥२॥
अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम्॥
अतीव गोपनीयं यदुपयुक्तं च सर्वतः॥
अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम्॥३॥
श्रीनारायण उवाच॥
नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः ॥
श्रुतौ कतिविधं गूढमास्ते ब्रह्मन्सुदुर्लभम्॥ ४ ॥
तेषु यत्सारभूतं च श्रोतुं किंवा त्वमिच्छसि ॥
तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ॥५॥
नारद उवाच ॥
स्वाहा देवहविर्दाने प्रशस्ता सर्वकर्मसु॥
पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ॥६॥
एतासां चरितं जन्म फलं प्राधान्यमेव च ॥
श्रोतुमिच्छामि ते वक्त्राद्वद वेदविदां वर ॥ ७ ॥
सौतिरुवाच ॥
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ॥
कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ ८ ॥
श्रीनारायण उवाच ॥
सृष्टेः प्रथमतो देवाश्चाहारार्थं ययुः पुरा ॥
ब्रह्मलोके ब्रह्मसभामगम्यां सुमनोहराम् ॥ ९ ॥
गत्वा निवेदनं चक्रुर्मुने त्वाहारहेतुकम् ॥
ब्रह्मा श्रुत्वा प्रतिज्ञाय सिषेवे श्रीहरेः पदम् ॥ 2.40.१० ॥
यज्ञरूपो हि भगवान्कलया च बभूव सः ॥
यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च वेधसा ॥ ११ ॥
हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः ॥
सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्गव ॥ १२ ॥
देवा विषण्णास्ते सर्वे तत्सभां च पुनर्ययुः ॥
गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥ १३ ॥
ब्रह्मा श्रुत्वा तु मनसा श्रीकृष्णं शरणं ययौ ॥
प्रकृतिं पूजयामास ध्यायन्नेव तदाज्ञया॥ ॥ १४ ॥
प्रकृतिः कलया चैव सर्वशक्तिस्वरूपिणी ॥
बभूव दाहिका शक्तिरग्नेः स्वाहास्वरूपिणी ॥ १५ ॥
ग्रीष्ममध्याह्नमार्त्तण्ड प्रभान्यक्कारकारिणी ॥
अतीव सुन्दरी रामा रमणीया मनोहरा ॥ १६ ॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकारिणी ॥
उवाचेति विधेरग्रे पद्मयोने वरं वृणु ॥ १७ ॥
विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् ॥ १८ ॥
ब्रह्मोवाच ॥
त्वमग्नेर्दाहिका शक्तिर्भव पत्नी च सुन्दरी ॥
दग्धुं न शक्तस्स्वहुतं हुताशश्च त्वया विना ॥ १९ ॥
त्वन्नामोच्चार्य्य मन्त्रान्ते यद्दास्यति हविर्नरः ॥
सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् ॥2.40.२०॥
अग्नेः सम्पत्स्वरूपा च श्रीरूपा च गृहेश्वरी ॥
देवानां पूजिता शश्वन्नरादीनां भवाम्बिके॥ ॥ २१ ॥
ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ॥
तमुवाच स्वयं देवी स्वाभिप्रायं स्वयम्भुवम् ॥ २२ ॥
स्वाहोवाच ॥
अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ॥
ब्रह्मंस्तदन्यद्यत्किञ्चित्स्वप्नवद्भ्रम एव च ॥२३ ॥
विधाता जगतां त्वं च शम्भुर्मृत्युञ्जयः प्रभुः ॥
बिभर्ति शेषो विश्वं च धर्म्मः साक्षी च देहिनाम् ॥ २४ ॥
सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ॥
प्रकृतिः सर्वसूः सर्वे पूजिता यत्प्रसादतः ॥२५॥
ऋषयो मुनयश्चैव पूजिता यं निषेव्य च ॥
तत्पादपद्मं ब्रह्मैक्यभावाद्वै चिन्तयाम्यहम् ॥२६॥
पद्मास्या पाद्ममित्युक्त्वा पद्मलाभानुसारतः ॥
जगाम तपसे पाद्मे पद्मादीशस्य पद्मजा ॥ २७ ॥
तपस्तेपे लक्षवर्षमेकपादेन पाद्मजा ॥
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् ॥ २८ ॥
अतीव कमनीयं च रूपं दृष्ट्वा च सुन्दरी ॥
मूर्छां सम्प्राप कामेन कामेशस्य च कामुकी ॥ २९ ॥
विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच सः ॥
स्वक्रोडे च समुत्थाप्य क्षीणाङ्गीं तपसा चिरम् ॥ 2.40.३० ॥
श्रीकृष्ण उवाच ॥
वाराहे च त्वमंशेन मम पत्नी भविष्यसि ॥
नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च ॥ ३१ ॥
अधुनाऽग्नेर्दाहिका त्वं भव पत्नी च भाविनि ॥
मन्त्राङ्गरूपा पूता च मत्प्रसादाद्भविष्यसि ॥ ३२ ॥
वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम्॥
रमिष्यते त्वया सार्द्धं रामया रमणीयया ॥ ३३ ॥
इत्युक्त्वाऽन्तर्दधे देवो देवीमाश्वास्य नारद ॥
तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः ॥ ३४ ॥
ध्यानैश्च सामवेदोक्तैर्ध्यात्वा तां जगदम्बिकाम् ॥
सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः ॥ ३५ ॥
तदा दिव्यं वर्षशतं स रेमे रामया सह ॥
अतीव निर्जने रम्ये सम्भोगसुखदे सदा ॥३६॥
बभूव गर्भं तस्याश्च हुताशस्यैव तेजसा ॥
तद्दधार च सा देवी दिव्यं द्वादशवत्सरम् ॥ ३७ ॥
ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान् ॥
दक्षिणाग्निर्गार्हपत्याहवनीयान्क्रमेण च ॥ ॥ ३८ ॥
ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः ॥
स्वाहान्तं मन्त्रमुच्चार्य्य हविर्ददति नित्यशः ॥ ३९ ॥
स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् ॥
सर्वसिद्धिर्भवेत्तस्य ब्रह्मन्ग्रहणमात्रतः ॥ 2.40.४० ॥
विषहीनो यथा सर्पो वेदहीनो यथा द्विजः ॥
पतिसेवाविहीना स्त्री विद्याहीनो यथा नरः ॥ ४१ ॥
फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः ॥
स्वाहाहीनस्तथा मन्त्रो न द्रुतं फलदायकः ॥ ४२ ॥
परितुष्टा द्विजाः सर्वे देवाः सम्प्रापुराहुतिम् ॥
स्वाहान्तेनैव मन्त्रेण सफलं सर्वकर्म च ॥ ४३ ॥
इत्येवं वर्णितं सर्वं स्वाहोपाख्यानमुत्तमम् ॥
सुखदं मोक्षदं सारं कि भूयः श्रोतुमिच्छसि ॥ ४४ ॥
नारद उवाच ॥
स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर ॥
सम्पूज्य वह्निस्तुष्टाव येन तां वद मे प्रभो ॥ ४५ ॥
नारायण उवाच ॥
ध्यानं च सामवेदोक्तं स्तोत्रं पूजाविधानकम् ॥
वदामि श्रूयतां ब्रह्मन्सावधानं निशामय ॥ ४६ ॥
सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा ॥
स्वाहां सम्पूज्य यत्नेन यज्ञं कुर्य्यात्फलाप्तये ॥ ४७ ॥
स्वाहां मन्त्राङ्गभूतां च मन्त्रसिद्धिस्वरूपिणीम् ॥
सिद्धां च सिद्धिदां नृणां कर्मणां फलदां भजे ॥ ४८॥
इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ॥
सर्वसिद्धिं लभेत्स्तुत्वा मूलं स्तोत्रं मुने शृणु ॥ ४९ ॥
ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च ॥
यः पूजयेच्च तां देवीं सर्वेष्टं लभते ध्रुवम् ॥ 2.40.५० ॥
वह्निरुवाच ॥
स्वाहा ऽऽद्या प्रकृतेरंशा मन्त्रतन्त्राङ्गरूपिणी॥
मन्त्राणां फलदात्री च धात्री च जगतां सती ॥५१॥
सिद्धिस्वरूपा सिद्धा च सिद्धिदा सर्वदा नृणाम् ॥
हुताशदाहिकाशक्तिस्तत्प्राणाधिकरूपिणी ॥ ५२ ॥
संसारसाररूपा च घोरसंसारतारिणी ॥
देवजीवनरूपा च देवपोषणकारिणी ॥ ५३ ॥
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ॥
सर्वसिद्धिर्भवेत्तस्य चेह लोके परत्र च ॥ ५४ ॥
नाङ्गहीनो भवेत्तस्य सर्वकर्मसु शोभनम् ॥
अपुत्रो लभते पुत्रमभार्य्यो लभते प्रियाम् ॥ ५५ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे स्वाहोपाख्याने स्वाहाजन्मादिकथनं नाम चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥
इति स्वाहोपाख्यानं समाप्तम्॥