०३८

नारायण उवाच ॥
हरिं ध्यात्वा हरिर्ब्रह्मञ्जगाम ब्रह्मणः सभाम्॥
बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ॥ १ ॥
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् ॥
प्रणेमुर्देवताः सर्वा गुरुणा सह नारद ॥२॥
वृत्तान्तं कथयामास सुराचार्यो विधिं विभुम् ॥
प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलोद्भवः ॥ ३ ॥
ब्रह्मोवाच ॥
वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः ॥
बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम् ॥४॥
मातामहस्ते दक्षश्च विष्णुभक्तः प्रतापवान् ॥
कुलत्रयं यच्छुद्धं च कथं सोऽहङ्कृतो भवेत् ॥ ५ ॥
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः ॥
मातामहो मातुलश्च कथं सोऽहङ्कृतो भवेत् ॥ ६ ॥
जनः पैतृकदोषेण दोषान्मातामहस्य च ॥
गुरोर्दाषान्नीतिदोषैर्हरिद्वेषी भवेद्ध्रुवम् ॥ ७ ॥
सर्वान्तरात्मा भगवान्सर्वदेहेष्ववस्थितः॥
यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ॥ ८ ॥
मनोऽहमिन्द्रियेशश्च ज्ञानरूपो हि शङ्करः ॥
अस्रवः प्रकृतिर्विष्णुर्बुद्धिर्भगवती सती ॥ ९ ॥
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः॥
आत्मनः प्रतिबिम्बं च जीवो भोगी शरीरभृत् ॥ 2.38.१० ॥
आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमात् ॥
यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥ ११ ॥
अहं शिवश्च शेषश्च विष्णुर्धर्मो महान्विराट् ॥
वयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ॥ १२ ॥
शिवेन पूजितं पादपद्मं पुष्पेण येन च ॥
तच्च दुर्वाससा दत्तं दैवेनान्यकृतं सुर ॥ १३ ॥
तत्पुष्पं मस्तके यस्य कृष्णपादाब्जतश्च्युतम् ॥
सर्वेषां वै सुराणां च तत्पूजा पुरतो भवेत् ॥१४॥
दैवेन वञ्चितस्त्वं च दैवं च बलवत्तरम् ॥
भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥ १५ ॥
कृष्णं न मन्यते यो हि श्रीनाथं सर्ववन्दितम् ॥
प्रयाति रुष्टा तद्दासी महालक्ष्मीर्विहाय तम् ॥ १६ ॥
शतयज्ञेन या लब्धा दीक्षितेन त्वया पुरा ॥
सा श्रीर्गता ऽधुना कोपात्कृष्णनिर्माल्यवर्जनात् ॥ १७ ॥
अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ॥
निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यसि तद्वरात् ॥ १८ ॥
इत्येवमुक्त्वा स ब्रह्मा सर्वैः सुरगणैः सह ॥
शीघ्रं जगाम वैकुण्ठं यत्र श्रीशस्तया सह ॥ १९ ॥
तत्र गत्वा परं ब्रह्म भगवन्तं सनातनम् ॥
दृष्ट्वा तेजःस्वरूपं च प्रज्वलन्तं स्वतेजसा ॥ 2.38.२० ॥
ग्रीष्ममध्याह्नमार्त्तण्डशतकोटिसमप्रभम् ॥
शान्तं चानादिमध्यान्तं लक्ष्मीकान्तमनन्तकम् ॥ २१ ॥
चतुर्भुजैः पार्षदैश्च सरस्वत्या स्तुतं नतम् ॥
भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिषेवितम् ॥ २२ ॥
तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः ॥
भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः पुरुषोत्तमम् ॥ २३ ॥
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः ॥
रुरुदुर्देवताः सर्वाः स्वाधिकारच्युताश्च ताः॥२४॥
स चापश्यत्सुरगणं विपद्ग्रस्तं भयाकुलम् ॥
वस्त्रभूषणशून्यं च वाहनादिविवर्जितम् ॥२५ ॥
शोभाशून्यं हतश्रीकं परिवारैरनावृतम् ॥
उवाच कातरं दृष्ट्वा विपन्नभयभञ्जनः॥२६॥
नारायण उवाच ॥
मा भैर्ब्रह्मन्हे सुराश्च भयं किं वो मयि स्थिते ॥
दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्द्धिनीम्॥२७॥
किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् ॥
हितं सत्यं सारभूतं परिणामसुखावहम् ॥ २८ ॥
जनाश्चासङ्ख्यविश्वस्था मदधीनाश्च सन्ततम्॥
यथा तथाऽहं मद्भक्तैः पराधीनः स्वतन्त्रकः ॥ २९ ॥
यो यो रुष्टो हि मद्भक्ते मत्परे हि निरङ्कुशः ॥
तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् ॥ 2.38.३० ॥
दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः ॥
तच्छापादागतोऽहं च सश्रीको वो गृहादपि ॥ ३१ ॥
यत्र शङ्खध्वनिर्नास्ति तुलसी च शिलार्चनम् ॥
न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ॥ ३२ ॥
मद्भक्तानां च मे निन्दा यत्र यत्र भवेत्सुराः ॥
महारुष्टा महालक्ष्मीस्ततो याति पराभवात् ॥ ३३ ॥
मद्भक्तिहीनो यो मूढो यो भुङ्क्ते हरिवासरे ॥
मम जन्मदिने चापि याति श्रीस्तद्गृहादपि ॥ ३४ ॥
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् ॥
यत्रातिथिर्न भुङ्क्ते च मत्प्रिया याति तद्गृहात् ॥ ३५ ॥
पापिनां यो गृहं याति शूद्रश्राद्धान्नभोजिनाम् ॥
महारुष्टा ततो याति मन्दिरात्कमलालया ॥ ३६ ॥
शूद्राणां शवदाही च भाग्यहीनश्च वाडवः ॥
याति रुष्टा तद्गृहाच्च देवी कमलवासिनी ॥ ३७ ॥
शूद्राणां सूपकारो यो ब्राह्मणो वृषवाहकः ॥
तत्तोयपानभीता च कमला याति तद्ग्रहात् ॥ ३८ ॥
विप्रो यवनसेवी च देवलः शूद्रयाजकः ॥
तत्तोयपानभीता च वैष्णवी याति तद्ग्रहात् ॥ ३९ ॥
विश्वासघाती मित्रघ्नो नरघाती कृतघ्नकः ॥
अगम्यां याति यो विप्रो मद्भार्य्या याति तद्गृहात् ॥ 2.38.४० ॥
अशुद्धहृदयः कूरो हिंसको निन्दको द्विजः ॥
ब्राह्मण्यां शूद्रजातश्च याति देवी च तद्ग्रहात् ॥ ४१ ॥
यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः ॥
अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः ॥ ४२ ॥
तृणं छिनत्ति नखरैस्तैर्वा यो हि लिखेन्महीम् ॥
जिह्मो वा मलवासाश्च सा प्रयाति च तद्ग्रहात् ॥ ४३ ॥
सूर्य्योदये च द्विर्भोजी दिवाशायी च वाडवः ॥
दिवामैथुनकारी च तस्माद्याति हरिप्रिया ॥ ॥ ४४ ॥
आचारहीनो यो विप्रो यश्च शूद्रप्रतिग्रही ॥
अदीक्षितो हि यो मूढस्तस्माल्लोला प्रयाति च ॥ ४९ ॥
स्निग्धपादश्च नग्नो वा यः शेते ज्ञानदुर्बलः ॥
शश्वद्धर्मातिवाचालो याति वै तद्गृहात्सती ॥ ४६ ॥
शिरस्नातश्च तैलेन योऽन्यदङ्गमुपस्पृशेत् ॥
स्वाङ्गे च वादयेद्वाद्यं रमा याति च तद्गृहात् ॥ ४७ ॥
व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः ॥
विष्णुभक्तिविहीनो यस्तस्माद्याति हरिप्रिया ॥ ४८ ॥
ब्राह्मणं निन्दयेद्यो हि तान्वै द्वेष्टि च सन्ततम् ॥
हिंसाकारी दयाहीनो याति सर्वप्रसूस्ततः ॥ ४९ ॥
यत्र तत्र हरेरर्चा हरेरुत्कीर्त्तनं शुभम् ॥
तत्र तिष्ठति सा देवी कमला सर्वमङ्गला ॥ 2.38.५० ॥
यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह ॥
सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम्॥५१॥
यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम्॥
तत्सेवा वन्दनं ध्यानं तत्र सा तिष्ठति स्वयम् ॥५२॥
शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्त्तनं शुभम्॥
दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी ॥९३॥
विप्राणां सेवनं यत्र तेषां वै भोजनं शुभम् ॥
अर्चनं सर्वदेवानां तत्र पद्ममुखी सती ॥ ५४ ॥
इत्युक्त्वा च सुरान्सर्वान्रमामाह रमापतिः ॥
क्षीरोदसागरे जन्म लभस्व कलया रमे ॥ ५५ ॥
इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च ॥
मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज ॥ ५६ ॥
इत्युक्त्वा कमलाकान्तो देवश्चान्तरधान्मुने ॥
देवाश्चिरेण कालेन ययुः क्षीरोदसागरम् ॥ ९७ ॥
मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् ॥
रज्जुं कृत्वा वासुकिं च ममन्थुश्चैव सागरम् ॥ ५८ ॥
धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् ॥
नानारत्नं हस्तिरत्नं प्रापुर्लक्ष्म्याश्च दर्शनम् ॥५९॥
वनमालां ददौ सा च क्षीरोदशायिने मुने ॥
सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती ॥2.38.६०॥
देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च ॥
ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचिकाम् ॥ ६१ ॥
प्रापुर्देवाः स्वविषयं दैत्यैर्ग्रस्तं भयङ्करैः॥
महालक्ष्मीप्रसादेन वरदानेन नारद ॥ ६२ ॥
इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् ॥
सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि ॥ ६३ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्म्युपाख्याने समुद्रमथनं नामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥