नारद उवाच ॥
हरेर्गुणं समाकर्ण्य ज्ञानं प्राप्य पुरन्दरः ॥
किं चकार गृहं गत्वा तन्मे व्याख्यातुमर्हसि ॥१॥
नारायण उवाच ॥
श्रीकृष्णस्य गुणं श्रुत्वा वीतरागो बभूव स ॥
वैराग्यं वर्द्धयामास तदा ब्रह्मन्दिने दिने ॥ २ ॥
मुनिस्थानाद्गृहं गत्वा स ददर्शामरावतीम् ॥
दैत्यैरसुरसङ्घैश्च समाकीर्णां भयाकुलाम् ॥३॥
विषण्णबान्धवां चैव बन्धुहीनां च कुत्रचित् ॥
पितृमातृकलत्रादिविहीनामतिचञ्चलाम् ॥ ४ ॥
शत्रुग्रस्तां च दृष्ट्वा तामगमद्वाक्पतिं प्रति ॥
शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् ॥ ५ ॥
ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम् ॥
सूर्य्याभिसम्मुखं पूर्वमुखं वै विश्वतो मुखम् ॥ ६ ॥
साश्रुनेत्रं पुलकितं परमानन्दसंयुतम् ॥
वरिष्ठं च गरिष्ठं च धर्मिष्ठं चेष्टसेविनम् ॥ ७ ॥
श्रेष्ठं च वन्धुवर्गाणामतिश्रेष्ठं च मानिनाम् ॥
ज्येष्ठं च बन्धुवर्गाणां नेष्टं च सुरवैरिणाम् ॥ ८ ॥
दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः ॥
प्रहरान्ते गुरुं दृष्ट्वा चोत्थितं प्रणनाम सः ॥ ९ ॥
प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुर्हुः ॥
वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा ॥2.37.१०॥
पुनर्वरो मया लब्धो ज्ञानिनामपि दुर्लभाम् ॥
वैरिग्रस्तां स्वीयपुरीं क्रमेणैव सुरेश्वरः ॥ ११ ॥
शिष्यस्य वचनं श्रुत्वा सतां बुद्धिमतां वरः ॥
बृहस्पतिरुवाचेदं कोपरक्तान्तलोचनः ॥ १२ ॥
बृहस्पतिरुवाच ॥
श्रुतं सर्वं सुरश्रेष्ठ मा रोदीर्वचनं शृणु ॥
न कातरो हि नीतिज्ञो विपत्तौ स्यात्कदाचन ॥ १३ ॥
सम्पत्तिर्वा विपत्तिर्वा नश्वरा स्वप्नरूपिणी ॥
पूर्वस्वकर्मायत्ता च स्वयं कर्त्ता तयोरपि ॥ ॥ १४ ॥
सर्वेषां च भ्रमत्येव शश्वज्जन्मनि जन्मनि ॥
चक्रनेमिक्रमेणैव तत्र का परिदेवना ॥ १५ ॥
भुङ्क्ते हि स्वकृतं कर्म सर्वत्रापि च भारते ॥
शुभाशुभं च यत्किञ्चित्स्वकर्मफलभुक्पुमान् ॥ १६ ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १७ ॥
इत्येवमुक्तं वेदे च कृष्णेन परमात्मना ॥
साम्नि कौथुमशाखायां सम्बोध्य स्वकुलोद्भवम् ॥ ॥१८॥
जन्म भोगावशेषे च सर्वेषां कृतकर्मणाम् ॥
अनुरूपं च तेषां वै भारतेऽन्यत्र चैव हि ॥१९॥
कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् ॥
कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा ॥ 2.37.२० ॥
कोटिजन्मार्जितं कर्म जीविनामनुगच्छति ॥
नहि त्यजेद्विना भोगात्तं छायेव पुरन्दर ॥ २१ ॥
कालभेदे देशभेदे पात्रभेदे च कर्मणाम् ॥
न्यूनताऽधिकता वाऽपि भवेदेव हि कर्मणाम् ॥ ॥ २२ ॥
वस्तुदाने च वस्तूनां समं पुण्यं समे दिने ॥
दिनभेदे कोटिगुणमसङ्ख्यं वाऽधिकं ततः ॥ २३ ॥
समदेशे च वस्तूनां दाने पुण्यं समं वृषन् ॥
देशभेदे कोटिगुणमसङ्ख्यं वाऽधिकं ततः ॥ २४ ॥
समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च ॥
पात्रभेदे शतगुणमसङ्ख्यं वा ततोऽधिकम् ॥ २५ ॥
यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च ॥
कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा ॥ २६ ॥
सामान्यदिवसे विप्रे दानं समफलं भवेत् ॥
अमायां रविसङ्क्रान्त्यां फलं शतगुणं भवेत् ॥
चातुर्मास्यां पौर्णमास्यामनन्तफलमेव च ॥ २७ ॥
ग्रहणे शशिनः कोटिगुणं च फलमेव च ॥
सूर्य्यस्य ग्रहणे चापि ततो दशगुणं फलम् ॥ २८ ॥
अक्षयायामक्षयं चाप्यसङ्ख्यफलमुच्यते ॥
एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिह ॥ २९ ॥
यथा दाने तथा स्नाने जपे वै पुण्यकर्मसु ॥
एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम् ॥ 2.37.३० ॥
सामान्यदेशे दानं च विप्रे समफलं भवेत् ॥
तीर्थे देवगृहे चैव फलं शतगुणं स्मृतम् ॥ ३१ ॥
गङ्गायां वै कोटिगुणं क्षेत्रे नारायणेऽव्ययम् ॥
कुरुक्षेत्रे बदर्य्यां च काश्यां कोटिगुणं तथा ॥ ३२ ॥
यथा च वै कोटिगुणं तथा वै विष्णुमन्दिरे ॥
केदारे वै लक्षगुणं हरिद्वारे तथा फलम् ॥ ३३ ॥
पुष्करे भास्करक्षेत्रे दशलक्षगुणं फलम् ॥
एवं सर्वत्र बोद्धव्यं फलाधिक्यं क्रमेण च ॥३४॥
सामान्यब्राह्मणे दानं सममेव फलं लभेत् ॥
लक्षं त्रिसन्ध्यं पूते च पण्डिते च जितेन्द्रिये ॥३५॥
विष्णुमन्त्रोपासके च बुधे कोटिगुणं फलम्॥
एवं सर्वत्र बोद्धव्यं फलाधिक्यं गुणाधिकं ॥३६॥
यथा दण्डेन सूत्रेण शरावेण जलेन च ॥
कुम्भं निर्माति चक्रेण कुम्भकारो मृदा भुवि॥३७॥
तथैव कर्मसूत्रेण फलं धाता ददाति च ॥
यस्याज्ञया सृष्टिविधौ तं च नारायणं भज ॥ ३८ ॥
स विधाता विधातुश्च पातुः पाता जगत्त्रये ॥
स्रष्टुः स्रष्टा च संहर्त्तुः संहर्त्ता कालकालकः ॥ ३९ ॥
महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् ॥
विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः ॥ 2.37.४० ॥
इत्येवमुक्त्वा जीवश्च समालिङ्ग्य सुरेश्वरम् ॥
दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद ॥ ४१ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे बृहस्पतिमहेन्द्रसंवादे महालक्ष्म्युपाख्याने कर्मफलनिरूपणं नाम सप्तत्रिंशत्तमोऽध्यायः ॥३७॥