०३६

नारद उवाच ॥
नारायणप्रिया सा च वरा वैकुण्ठवासिनी ॥
वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥ १ ॥
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका ॥
किं तद्ध्यानं च कवचं सर्वं पूजाविधिक्रमम् ॥ २ ॥
पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
नारायण उवाच ॥
पुरा दुर्वाससः शापाद्भ्रष्टश्रीकः पुरन्दरः॥
बभूव देवसङ्घश्च मर्त्यलोकश्च नारद ॥४॥
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता॥
गत्वा लीना च वैकुण्ठे महालक्ष्म्यां च नारद॥५॥
तदा शोकाद्ययुर्देवा दुःखिता ब्रह्मणः सभाम् ॥
ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च॥६॥
वैकुण्ठे शरणा पन्ना देवा नारायणे परे ॥
अतीव दैन्ययुक्ताश्च शुष्ककण्ठौष्ठतालुकाः ॥ ७ ॥
तदा लक्ष्मीश्च कलया पुरा नारायणाज्ञया ॥
बभूव सिन्धुकन्या सा शक्रसम्पत्स्वरूपिणी ॥ ८ ॥
तदा मथित्वा क्षीरोदं देवा दैत्यगणैः सह ॥
सम्प्रापुश्च वरं लक्ष्म्या ददृशुस्तां च तत्र हि ॥ ९॥
सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे ॥
ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥ 2.36.१० ॥
देवाश्चाप्यसुराक्रान्तं राज्यं प्रापुश्च तद्वरात् ॥
तां सम्पूज्य च संस्तूय सर्वत्र च निरापदः ॥१ १ ॥
नारद उवाच ॥
कथं शशाप दुर्वासा मुनिश्रेष्ठः पुरन्दरम्॥
केन दोषेण वा ब्रह्मन्ब्रह्मिष्ठं ब्रह्मवित्पुरा॥ १२॥
ममन्थे केन रूपेण जलधिस्तैः सुरादिभिः॥
केन स्तोत्रेण सा देवी शक्रे साक्षाद्बभूव ह॥१ ३॥
को वा तयोश्च संवादो ह्यभवत्तद्वद प्रभो ॥ १४ ॥
नारायण उवाच ॥
मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा ॥
क्रीडां चकार रहसि रम्भया सह कामुकः ॥ १५ ॥
कृत्वा क्रीडां तया सार्द्धं कामुक्या हृतचेतनः ॥
तस्थौ तत्र महारण्ये कामोन्मथित चेतनः ॥ १६ ॥
कैलासशिखरं यान्तं वैकुण्ठादृषिपुङ्गवम् ॥
दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा ॥ १७ ॥
ग्रीष्ममध्याह्नमार्त्तण्डसहस्रप्रभमीश्वरम् ॥
प्रतप्तकाञ्चनाभासं जटाभारमहोज्ज्वलम् ॥ १८ ॥
शुक्लयज्ञोपवीतं च चीरं दण्डं कमण्डलुम् ॥
महोज्ज्वलं च तिलकं बिभ्रतं चन्द्रसन्निभम् ॥ १९ ॥
समन्वितं शिष्यवर्गैर्वेदवेदाङ्गपारगैः ॥
दृष्ट्वा ननाम शिरसा सम्भ्रमात्तं पुरन्दरः ॥2.36.२० ॥
शिष्यवर्गं स भक्त्या वै तुष्टाव च मुदान्वितः ॥
मुनिना च सशिष्येण तस्मै दत्ताश्शुभाशिषः ॥ २१ ॥
विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम् ॥
मृत्युरोगजराशोकहरं मोक्षकरं ददौ ॥ २२ ॥
शक्रः पुष्पं गृहीत्वा च प्रमत्तो राजसम्पदा ॥
भ्रमेण स्थापयामास तत्र वै हस्तिमस्तके ॥ २३ ॥
हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च ॥
तेजसा वयसा कान्त्या विष्णुतुल्यो बभूव सः ॥ २४ ॥
त्यक्त्वा शक्रं गजेन्द्रश्चाप्यगच्छद्घोरकाननम् ॥
न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने ॥ २५ ॥
तत्पुष्पं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः ॥
तं शशाप महातेजाः क्रोधसंरक्तलोचनः ॥ २६ ॥
दुर्वासा उवाच ॥
अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे ॥
मद्दत्तपुष्पं गर्वेण त्यक्तवान्हस्तिमस्तके ॥ २७ ॥
विष्णोर्निवेदितं पुष्पं नैवेद्यं वा फलं जलम् ॥
प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा जनः॥२८॥
भ्रष्टश्रीर्भ्रष्टबुद्धिश्च भ्रष्टज्ञानो भवेन्नरः॥
यस्त्यजेद्विष्णुनेवेद्यं भाग्येनोपस्थितं शुभम्॥२९॥
प्राप्तिमात्रेण यो भुङ्क्ते भक्त्या विष्णुनिवेदितम्॥
पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत्॥2.36.३०॥
विष्णुनैवेद्यभोजी यो नित्यं तु प्रणमेद्धरिम्॥
पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ॥ ३१ ॥
तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति ॥
तत्पादरजसा मूढ सद्यः पूता वसुन्धरा ॥३२॥
पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्नमेव च ॥
यद्धरेरनिवेद्यं च वृथामांसमभक्षकम् ॥३३॥
शिवलिङ्गप्रदत्तान्नं यदन्नं शूद्रयाजिनाम् ॥
चिकित्सकद्विजानां च देवलान्नं तथैव च ॥ ३४ ॥
कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ॥
अनुष्णान्नं पर्युषितं सर्वभक्ष्यावशेषि तम् ॥ ३५ ॥
शूद्रापतिद्विजान्नं च वृषवाहद्विजान्नकम् ॥
अदीक्षितद्विजान्नं च यदन्नं शवदाहिनाम् ॥ ३६ ॥
अगम्यगामिनां चैव द्विजानामन्नमेव च॥
मित्रद्रुहां कृतघ्नानामन्नं विश्वासघातिनाम् ॥ ३७॥
मिथ्यासाक्ष्यप्रदानां च ब्राह्मणानां तथैव च ॥
एतत्सर्वं वि शुध्येत विष्पुनैवेद्यभक्षणात्॥३८॥
श्वपचो विष्णुसेवी च वंशानां कोटिमुद्धरेत् ॥
हरेरभक्तो विप्रश्च स्वं च रक्षितुमक्षमः ॥ ३९ ॥
अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च ॥
सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥2.36.४०॥
ज्ञात्वा भक्त्या च गृह्णाति विष्णोर्नैवेद्यमेव च ॥
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ ४१ ॥
यस्मात्संस्थापितं पुष्पं गर्वाद्वै हस्तिमस्तके ॥
तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम् ॥ ४२ ॥
नारायणस्य भक्तोऽहं न बिभेमीश्वरं विधिम् ॥
कालं मृत्युं जरां चैव कानन्यान्गणयामि च ॥ ४३ ॥
किं करिष्यति ते तातः कश्यपश्च प्रजापतिः ॥
बृहस्पतिर्गुरुश्चैव निश्शङ्कस्य च मे हरेः ॥ ४४ ॥
इदं पुष्पं यस्य मूर्ध्नि तस्य वै पूजनं पुरः॥
मूर्ध्नि च्छिन्ने शिवशिशोश्छित्त्वेदं योजयिष्यति॥४२॥
इति श्रुत्वा महेन्द्रश्च धृत्वा तच्चरणद्वयम्॥
उच्चै रुरोद शोकार्त्तस्तमुवाच भयाकुलः ॥ ४६ ॥
इन्द्र उवाच ॥
दत्तः समुचितः शापो मह्यं मत्ताय हे प्रभो ॥
हृता त्वया चेत्सम्पत्तिः कियज्ज्ञानं च देहि मे ॥ ४७ ॥
ऐश्वर्य्यं विपदां बीजं प्रच्छन्नज्ञानकारणम् ॥
मुक्तिमार्गार्गलं दार्ढ्याद्धरिभक्तिव्यपायकम् ॥ ४८ ॥
जन्ममृत्युजरारोगशोकदुःखाङ्कुरं परम् ॥
सम्पत्तितिमिरान्धश्च मुक्तिमार्गं न पश्यति ॥ ४९ ॥
सम्पन्मत्तः समूढश्च सुरामत्तः सचेतनः ॥
बान्धवैर्वेष्टितः सोऽपि बन्धुद्वेषकरो मुने ॥ 2.36.५० ॥
सम्पन्मदे प्रमत्तश्च विषयान्धश्च विह्वलः ॥
महाकामी साहसिकः सत्त्वमार्गे न पश्यति ॥५१॥
द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः ॥
अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः ॥ ५२ ॥
शास्त्रे च द्विविधं मार्गं निर्दिष्टं मुनिपुङ्गव ॥
प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम् ॥ ५३ ॥
चरन्ति जीविनश्चादौ प्रवृत्तौ दुःखवर्त्मनि ॥
स्वच्छन्दे चाप्रसन्ने च निर्निरोधे च सन्ततम् ॥ ५४ ॥
आपातमधुरे लोभात्क्लेशे च सुखमानिनः ॥
परिणामोत्पत्तिबीजे जन्ममृत्युजराकरे ॥ ५५ ॥
अनेकजन्मपर्य्यन्तं कृत्वा च भ्रमणं मुदा ॥
स्वकर्मविहितायां च नानायोन्यां क्रमेण च ॥५६॥
ततः कृष्णानुग्रहाच्च सत्सङ्गं लभते जनः ॥
सहस्रेषु शतेष्वेको भवाब्धेः पारकारणम् ॥ ५७ ॥
साधुः सत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् ॥
तदा करोति यत्नं च जीवी बन्धनखण्डने ॥ ५८ ॥
अनेकजन्मयोगेन तपसाऽनशनेन च ॥
तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम् ॥ ५९ ॥
इदं श्रुतं गुरोर्वक्त्रात्प्रसङ्गावसरेण च ॥
नहि पृष्टमतोऽन्यच्च भवदुःखौघवेष्टिताः ॥ 2.36.६० ॥
अधुना विधिना दत्तो विपत्तौ ज्ञानसागरः॥
सम्पद्रूपा विपदियं मम निस्तारकारिणी॥६१॥
ज्ञानसिन्धो दीनबन्धो मह्यं दीनाय साम्प्रतम् ॥
देहि किञ्चिज्ज्ञानसारं भवपारं दयानिधे ॥ ६२ ॥
इन्द्रस्य वचनं श्रुत्वा प्रहस्य ज्ञानिनां गुरुः ॥
ज्ञानं कथितुमारेभे ह्यतितुष्टः सनातनः ॥ ६३ ॥
दुर्वासा उवाच ॥
अहो महेन्द्र माङ्गल्यमात्मानं द्रष्टुमिच्छसि ॥
आपाततो दुःखबीजं परिणामसुखावहम् ॥ ६४ ॥
स्वगर्भयातनानाशपीडाखण्डनकारणम् ॥
दुष्पारासारदुर्वारसंसारार्णवतारकम् ॥ ६५ ॥
कर्मवृक्षाङ्कुरच्छेदकारणं सर्वतारकम् ॥
सन्तोषसन्ततिकरं प्रवरं सर्ववर्त्मनाम् ॥ ६६ ॥
दानेन तपसा वाऽपि व्रतेनानशनादिना ॥
कर्मणा स्वर्गभोगादि सुखं भवति जीविनाम् ॥ ६७ ॥
काम्यानां कर्मणां चैव मूलं सञ्छिद्य यत्नतः ॥
अधुनेदं मोक्षबीजं सङ्कल्पाभाव एव च ॥ ६८ ॥
यत्कर्म सात्त्विकं कुर्य्यादसङ्कल्पितमेव च ॥
सर्वं कृष्णार्पणं कृत्वा परे ब्रह्मणि लीयते ॥ ६९ ॥
सांसारिकाणामेतत्तु निर्वाणं मोचकं विदुः ॥
नेच्छन्ति वैष्णवास्तत्तु सेवाविरहकातराः ॥ 2.36.७० ॥
सेवां कुर्वन्ति ते नित्यं विधायोत्तमदेहकम् ॥
गोलोके वाऽपि वैकुण्ठे तस्यैव परमात्मनः ॥ ७१ ॥
हरिसेवादिरूपां च मुक्तिमिच्छन्ति वैष्णवाः ॥
जीवन्मुक्ताश्च ते शक्र स्वकुलोद्धारकारिणः ॥ ७२ ॥
स्मरणं कीर्त्तनं विष्णोरर्चनं पादसेवनम् ॥
वन्दनं स्तवनं नित्यं भक्त्या नैवेद्यभक्षणम् ॥ ७३ ॥
चरणोदकपानं च तन्मन्त्रजपनं परम् ॥
इदं निस्तारबीजं च सर्वेषामीप्सितं भवेत् ॥ ७४ ॥
इदं मृत्युञ्जयज्ञानं दत्तं मृत्युञ्जयेन मे ॥
तच्छिष्योऽहं च निश्शङ्कस्तत्प्रसादाच्च सर्वतः ॥ ७५ ॥
स जन्मदाता स गुरुः स च बन्धुः सतां परः ॥
यो ददाति हरेर्भक्तिं त्रैलोक्ये च सुदुर्लभम् ॥ ७६ ॥
दर्शयेदन्यमार्गं च विना श्रीकृष्णसेवनम् ॥
स च तं नाशयत्येव ध्रुवं तद्वधभाग्भवेत् ॥ ७७ ॥
सन्ततं जगतां कृष्णनाम मङ्गलकारणम् ॥
मङ्गलं वर्द्धते नित्यं न भवेदायुषो व्ययः ॥ ७८ ॥
तेभ्योऽप्यपैति कालश्च मृत्युस्स्याद्रोग एव च ॥
सन्तापश्चैव शोकश्च वैनतेयादिवोरगाः ॥ ७९ ॥
कृष्णमन्त्रोपासकश्च ब्राह्मणः श्वपचोऽपि वा ॥
ब्रह्मलोकं समुल्लङ्घ्य याति गोलोकमुत्तमम् ॥ 2.36.८० ॥
ब्रह्मणा पूजितः सोऽपि मधुपर्कादिना च यः ॥
स्तुतः सुरैश्च सिद्धश्च परमानन्दभावनः ॥ ८१ ॥
ज्ञानसारं तपःसारं ब्रह्मसारं परं शिवम् ॥
शिवेनोक्तं योगसारं श्रीकृष्णपदसेवनम् ॥ ८२ ॥
ब्रह्मादिस्तम्बपर्य्यन्तं सर्वं मिथ्यैव केवलम् ॥
भज सत्यं परं ब्रह्म राधेशं प्रकृतेः परम् ॥ ८३ ॥
अतीव सुखदं सारं भुक्तिदं मुक्तिदं परम् ॥
सिद्धियोगप्रदं चैव दातारं सर्वसम्पदाम्॥ ८४ ॥
योगिनामपि सिद्धानां यतीनां च तपस्विनाम् ॥
सर्वेषां कर्मभोगोऽस्ति न नारायणसेविनाम् ॥ ८५ ॥
भस्मसाच्च भवेत्पापं यदुपस्पर्शमात्रतः ॥
ज्वलदग्नौ पातितं च यथा शुष्केन्धनं तथा ॥ ८६ ॥
ततो रोगा हि वेपन्ते पापानि च भयानि च ॥
दूरतश्च पलायन्ते यमदूतास्ततो भयात् ॥ ८७ ॥
तावन्निबद्धः संसारे कारागारे विधेर्जनः ॥
न यावत्कृष्ण मन्त्रं च प्राप्नोति गुरुवक्त्रतः ॥ ८८ ॥
कृतकर्मौघभोगाख्यनिगडच्छेदकारणम् ॥
मायाजालोच्छेदकरं मायापाशनिकृन्तनम् ॥८९॥
गोलोकमार्गसोपानं निस्तारे बीजकारणम् ॥
भक्त्यङ्कुरस्वरूपं च नित्यं वृद्धमनश्वरम् ॥ 2.36.९० ॥
सारं च सर्वतपसां योवानां साधनं तथा ॥
सिद्धीनां वेदपाठानां व्रतादीनां च निश्चितम् ॥ ९१ ॥
दानानां तीर्थशौचानां यज्ञादीनां पुरन्दर ॥
पूजानामुपवासानामित्याह कमलोद्भवः ॥ ९२ ॥
पुंसां लक्षं पितॄणां च शतं मातामहस्य च ॥
पूर्वं परं च तत्सङ्ख्यं पितरं मातरं गुरुम् ॥ ९३ ॥
सहोदरं कलत्रं च वक्तुं शिष्यं च किङ्करम् ॥
समुद्धरेच्च श्वशुरं श्वश्रूं कन्यां च तत्सुतम् ॥ ९४ ॥
स्वात्मानं च सतीर्थ्यं च गुरुपत्नीं गुरोः सुतम् ॥
उद्धरेद्बलवान्भक्तो मन्त्रग्रहणमात्रतः ॥ ९५ ॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥
तत्स्पर्शपूतस्तीर्थौघः सद्यः पूता वसुन्धरा ॥ ९६ ॥
अनेकजन्मपर्य्यन्तं दीक्षाहीनो भवेन्नरः ॥
तदन्यदेवमन्त्रं च लभते पुण्यलेशतः ॥ ९७ ॥
सप्तजन्मसु देवानां कृत्वा सेवां स्वकर्मतः ॥
लभते च रवेर्मन्त्रं साक्षिणः सर्वकर्मणाम् ॥ ९८ ॥
जन्मत्रयं भास्करं च सेवित्वा मानवः शुचिः ॥
लभेद्गणेशमन्त्रं च सर्वविघ्नहरं परम् ॥ ९९ ॥
जन्मत्रयं तं निषेव्य निर्विघ्नश्च भवेन्नरः ॥
विघ्नेशस्य प्रसादेन दिव्यज्ञानं लभेन्नरः ॥ 2.36.१०० ॥
तदा ज्ञानप्रदीपेन समालोच्य महामतिः ॥
अज्ञानान्धतमश्छित्त्वा महामायां भजेन्नरः ॥ १०१ ॥
प्रकृतिं विष्णुमायां च दुर्गां दुर्गतिनाशिनीम् ॥
सिद्धिदां सिद्धिरूपां च परमां सिद्धियोगिनीम् ॥ १०२ ॥
वाणीरूपां च पद्मां च भद्रां कृष्णप्रियात्मिकाम् ॥
नानारूपां तां निषेव्य जन्मनां शतकं नरः ॥ १०३ ॥
तत्प्रसादाद्भवेज्ज्ञानी ज्ञानानन्दं तदा भजेत् ॥
कृष्णं ज्ञानाधिदेवं च महादेवं सनातनम् ॥ १०४ ॥
शिवं शिवस्वरूपं च शिवदं शिवकारणम् ॥
परमानन्दरूपं च परमानन्ददायिनम् ॥ १०५ ॥
सुखदं मोक्षदं चैव दातारं सर्वसम्पदाम् ॥
अमरत्वप्रदं चैव दीर्घमायुष्यदं परम् ॥ १०६ ॥
इन्द्रत्वं च मनुत्वं च दातुं शक्तं च लीलया ॥
राजेन्द्रत्वप्रदं चैव ज्ञानदं हरिभक्तिदम् ॥ १०७ ॥
जन्मत्रयं तमाराध्य चाशुतोषप्रसादतः ॥
सर्वदस्य प्रसादेन शङ्करस्य महात्मनः ॥ १०८ ॥
वरदस्य वरेणैव हरिभक्तिं लभेद्ध्रुवम् ॥
तदा तद्भक्तसंसर्गात्कृष्णमन्त्रं लभेद्ध्रुवम् ॥ १०९ ॥
निर्म्मलज्ञानदीपेन प्रदीप्तेन च तत्त्ववित् ॥
ब्रह्मादिस्तम्बपर्य्यन्तं सर्वं मिथ्यैव पश्यति ॥ 2.36.११० ॥
दयानिधेः प्रसादेन निर्मलज्ञानमालभेत् ॥
वरदस्य वरेणैव हरिभक्तिं लभेद्ध्रुवम् ॥ ११! ॥
तदा निर्वृतिमाप्नोति सारात्सारां परात्पराम् ॥
यत्र देहे लभेन्मन्त्रं तद्देहावधि भारते ॥ ११२ ॥
तत्पाञ्चभौतिकं त्यक्त्वा बिभृयाद्दिव्यरूपकम् ॥
करोति दास्यं गोलोके वैकुण्ठे वा हरेः पदे ॥ ११३ ॥
परमानन्दसंयुक्तो मोहादिषु विवर्जितः ॥
न विद्यते पुनर्जन्म पुनरागमनं हरे ॥ ११४ ॥
पुनश्च न पिबेत्क्षीरं धृत्वा मातृस्तनं परम् ॥
विष्णुमन्त्रोपासकानां गङ्गादेस्तीर्थसेविनाम् ॥ ११५ ॥
स्वधर्मिणां च भिक्षूणां पुनर्जन्म न विद्यते ॥
तीर्थे परित्यजेत्पापं क्रियां कृत्वा हरिं भजेत् ॥ ११६ ॥
अयं निरूपितो धात्रा स्वधर्मस्तीर्थसेविनाम् ॥
तन्नाममन्त्रं प्रजपेत्तत्सेवादिषु तत्परः ॥ ११७ ॥
व्रतोपवासरत इत्युक्तो वै विष्णुसेविनाम् ॥
सदन्ने वा कदन्ने वा लोष्टे वा काञ्चने तथा ॥ ११८ ॥
समा बुद्धिर्यस्य शश्वत्स सन्न्यासीति कीर्तितः ॥
दण्डं कमण्डलुं रक्तवस्त्रमात्रं च धारयेत् ॥ ११९ ॥
नित्यं प्रवासी नैकत्र स्यात्सन्न्यासीति कीर्त्तितः ॥
शुद्धाचारद्विजान्नं च भुङ्क्ते लोभादिवर्जितः ॥ 2.36.१२० ॥
किन्तु किञ्चिन्न याचेत स सन्न्यासीति कीर्त्तितः ॥
न व्यापारी नाश्रमी च सर्वकर्मविवर्जितः ॥ १२१ ॥
ध्यायेन्नारायणं शश्वत्स सन्न्यासीति कीर्त्तितः ॥
शश्वन्मौनी ब्रह्मचारी सम्भाषा परिवर्जितः ॥ १२२ ॥
सर्वं ब्रह्ममयं पश्येत्स सन्न्यासीति कीर्त्तितः ॥
सर्वत्र समबुद्धिश्च हिंसामायाविवर्जितः ॥ १२३ ॥
क्रोधाहङ्काररहितः स सन्न्यासीति कीर्त्तितः ॥
अयाचितोपस्थितं च मिष्टामिष्टं च भुक्तवान् ॥ १२४ ॥
न याचते भक्षणार्थी स सन्न्यासीति कीर्त्तितः ॥
न च पश्येन्मुखं स्त्रीणां न तिष्ठेत्तत्समीपत॥१२५॥
दारवीमपि योषां च न स्पृशेद्यः स भिक्षुकः ॥
अयं सन्न्यासिनां धर्म इत्याह कमलोद्भवः ॥ १२६॥
विपर्य्यये विनाशश्च जन्मयाम्यं भयं भवेत् ॥
जन्मदुःखं याम्यदुःखं जीविनामतिदारुणम् ॥१२७॥
सुरसूकरयोनौ वा गर्भे दुःखं समं सुर ॥
योनौ वा क्षुद्रजन्तूनां पश्वादीनां तथैव च ॥ १२८ ॥
गर्भे स्मरन्ति सर्वे ते कर्म्म जन्म शतोद्भवम्॥
विस्मरेन्निर्गतो जीवो गर्भाद्वै विष्णुमायया॥
स्वदेहं पाति यत्नेन सुरो वा कीट एव वा॥१२९॥
योनेरभ्यन्तरे शुक्रे पतिते पुरुषस्य च॥
शुक्रं शोणितयुक्तं च सहसा तत्क्षणं भवेत्॥2.36.१३०॥
रक्ताधिके मातृसमश्चेतरे पितुराकृतिः॥
युग्माहे च भवेत्पुत्रः कन्यका तद्विपर्य्यये ॥१३१॥
रविभौमगुरूणां च वारे चेत्तद्भवेत्सुतः ॥
अयुग्माहे तदितरे वारे वै कन्यका भवेत् ॥ १३२॥
प्रथमप्रहरे जन्म यस्य सोऽल्पायुरेव च ॥
द्वितीये मध्यमश्चैव तृतीये तत्परो भवेत् ॥ १३३ ॥
चतुर्थे चिरजीवी स्यात्क्षणानामनुरूपकः ॥
दुःखी वाऽथ सुखी वाऽपि पूर्वकर्मानुरूपतः ॥ १३४ ॥
यादृशे च क्षणे जन्म प्रसवस्तादृशे भवेत् ॥
प्रसूतिक्षणचर्चा च कुर्वन्त्येवं विचक्षणाः ॥ १३५ ॥
कललं त्वेकरात्रेण प्रवृद्धः स्याद्दिने दिने ॥
सप्तमे बदराकारो मासे गण्डुसमो भवेत् ॥ १३६ ॥
मासत्रये मांसपिण्डो हस्तपादादिवर्जितः ॥
सर्वावयवसम्पन्नो देही मासे च पञ्चमे ॥ १३७ ॥
भवेत्तु जीवसञ्चारः षण्मासे सर्वतत्त्ववित् ॥
दुःखी स्वल्पस्थलस्थायी शकुन्त इव पञ्जरे ॥ १३८ ॥
मातृजग्धान्नपानं च भुङ्क्तेऽमेध्यस्थले स्थितः ॥
हाहेति शब्दं कृत्वा च चिन्तयेदीश्वरं परम् ॥ १३९ ॥
एवं च चतुरो मासान्भुक्त्वा परमयातनाम् ॥
प्रेरितो वायुना काले गर्भाद्वै निर्गतो भवेत् ॥ 2.36.१४० ॥
दिग्देशकालाव्युत्पन्नो विस्मृतो विष्णुमायया ॥
शश्वद्विण्मूत्रसंयुक्तः शिशुः स्याच्छैशवावधि ॥ १४१ ॥
परायत्तोऽप्यक्षमश्च मशकादिनि वारणे ॥
कीटादिभुक्तो दुःखी च रौति तत्र पुनः पुनः ॥ १४२ ॥
स्तनान्धोऽप्यसमर्थश्च याञ्चां कर्तुमभीप्सिताम् ॥
न वाणी निस्सरेत्तस्य पौगण्डावधि सुस्फुटा॥१४३॥
पौगण्डे यातनां भुक्त्वा प्राप्नुते यौवनं पुनः ॥
न स्मरेन्मायया देही गर्भादेर्यातनां पुनः॥ ॥ १४४ ॥
आहारमैथुनार्त्तश्च नानामोहादिवेष्टितः ॥
पुत्रं कलत्रमनुगं यत्नेन परिपालयेत् ॥ १४५॥
एवं यावत्समर्थश्च तावदेव हि पूजितः ॥
असमर्थं च मन्यन्ते बान्धवा गोजरं यथा ॥ १४६ ॥
यदाऽतीव जरायुक्तो जडोऽतिबधिरो भवेत्॥
कासश्वासादियुक्तश्च परायत्तोऽतिमूढवत् ॥ १४७ ॥
तदन्तरेऽनुतापं च कुरुते सन्ततं पुनः ॥
न सेवितं हरेस्तीर्थं सत्सङ्गश्चापि कामतः ॥ १४८ ॥
पुनश्च मानवीं योनिं लभामि भारते यदि ॥
तदा तीर्थं गमिष्यामि भजे वै कृष्णमित्यहो ॥ १४९ ॥
इत्येवमादि मनसि कुर्वन्तं तं जडं सुर ॥
गृह्णाति यमदूतश्च काले प्राप्तेऽतिदारुणः ॥ 2.36.१५० ॥
स पश्येद्यमदूतं च पाशहस्तं च दण्डिनम् ॥
अतीव कोपरक्ताक्षं विकृताकारमुल्बणम् ॥ १५१ ॥
दुर्निवार्य्यमुपायैश्च बलिष्ठं च भयङ्करम् ॥
दुर्दृश्यं सर्वसिद्धिज्ञं सर्वादृष्टं पुरः स्थितम्॥ १५२ ॥
दृष्टमात्रान्महाभीतो विण्मूत्रं च समुत्सृजेत् ॥
तदा प्राणांस्त्यजेत्सद्यो देहं वै पाञ्चभौतिकम् ॥१५३॥
अङ्गुष्ठमात्रं पुरुषं गृहीत्वा यमकिङ्करः॥
विन्यस्य भोगदेहे च स्वस्थानं प्रापयेद् द्रुतम् ॥ १५४ ॥
जीवो गत्वा यमं पश्येत्सर्वधर्मज्ञमेव च ॥
रत्नसिंहासनस्थे च सस्मितं सुस्थिरं परम् ॥१५५॥
धर्माधर्मविचारज्ञं सर्वज्ञं सर्वतोमुखम् ॥
विश्वेष्वेकाधिकारं च विधात्रा निर्मितं पुरा ॥१५६॥
वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम् ॥
वेष्टितं पार्षदगणैर्दूतैश्चापि त्रिकोटिभिः ॥१५७॥
जपन्तं श्रीकृष्णनाम शुद्धस्फाटिकमालया॥
ध्यायमानं तत्पदाब्जं पुलकाङ्कितविग्रहम् ॥ १५८ ॥
सगद्गदं साश्रुनेत्रं सर्वत्र समदर्शिनम्॥
अतीव कमनीयं च शश्वत्सुस्थिरयौवनम् ॥१५९॥
स्वतेजसा प्रज्वलन्तं सुखदृश्यं विचक्षणम् ॥
शरत्पार्वणचन्द्राभं चित्रगुप्तपुरःस्थितम् ॥ 2.36.१६० ॥
पुण्यात्मनां शान्तरूपं पापिनां च भयङ्करम् ॥
तं दृष्ट्वा प्रणमेद्देही महाभीतश्च तिष्ठति ॥ १६१ ॥
चित्रगुप्तविचारेण येषां यदुचितं फलम् ॥
शुभाशुभं च कुरुते तदेव रविनन्दनः ॥ १६२ ॥
एवं तेषां गतायाते निवृत्तिर्नास्ति जीविनाम् ॥
निवृत्तिहेतुरूपं च श्रीकृष्णपदसेवनम् ॥ ॥ १६३ ॥
इत्येवं कथितं सर्वं वरं प्रार्थय वाञ्छितम् ॥
सर्वं दास्यामि ते वत्स न मेऽसाध्यं च किञ्चन ॥ १६४ ॥
महेन्द्र उवाच ॥
इन्द्रत्वं च गतं भद्रं किमैश्वर्य्ये प्रयोजनम् ॥
कल्पवृक्ष मुनिश्रेष्ठ देहि मे परमं पदम् ॥ १६५ ॥
महेन्द्रस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ॥
तमुवाच वचः सत्यं वेदोक्तं सारमेव च ॥१६६॥
दुर्वासा उवाच ॥
परं पदं विषयिणां महेन्द्रातिसुदुर्लभम् ॥
मुक्तिर्युष्मद्विधानां च न लये प्राकृतेऽपि च ॥ १६७ ॥
आविर्भावः सृष्टिविधौ तिरोभावो लयेऽपि च ॥
यथा जागरणं सुप्तिर्भवत्येव क्रमेण च ॥ १६८ ॥
यथा भ्रमति कालश्च तथा विषयिणो धुवम् ॥
चक्रनेमिक्रमेणैव नित्यमेवेश्वरेच्छया ॥१६९॥
पलमेकं भवेदेव यथा विपलषष्टिभिः ॥
षष्टिभिश्च पलैर्दण्डो मुहूर्त्तो द्विगुणात्ततः॥2.36.१७०॥
त्रिंशद्भिश्च मुहूर्त्तैश्च भवेदेव दिवानिशम्॥
दशपञ्च दिवारात्रिः पक्षमेकं विदुर्बुधाः ॥ १७१ ॥
पक्षाभ्यां शुक्लकृष्णाभ्यां मास एव विधीयते ॥
ऋतुर्द्वाभ्यां च मासाभ्यां सङ्ख्याविद्भि प्रकीर्त्तितः ॥ १७२ ॥
ऋतुत्रयेणायनं च ताभ्यां द्वाभ्यां च वत्सरः ॥
त्रिंशत्सहस्राधिकैश्च त्रिचत्वारिंशलक्षकैः ॥ १७३ ॥
वत्सरैर्नरमानैश्च युगानां च चतुष्टयम् ॥
षष्ट्याऽधिके पञ्चशते सहस्रे पञ्चविंशतौ ॥१७४॥
युगे नराणां शक्रायुर्मनोरायुः प्रकीर्त्तितम् ॥
दिग्लक्षेन्द्रनिपातेऽष्टसहस्राधिक एव च॥१७५॥
निपातो ब्रह्मणस्तत्र भवेत्प्राकृतिको लयः ॥
लये प्राकृतिके वत्स कृष्णस्य परमात्मनः ॥ १७६ ॥
चक्षुर्निमेषः सृष्टिश्च पुनरुन्मीलने तथा ॥
ब्रह्मसृष्टिलयानां च सङ्ख्या नास्ति श्रुतौ श्रुतम् ॥१७७॥
यथा पृथिव्या रेणूनामित्यूचे चन्द्रशेखरः ॥
एतेषां मोक्षणं नास्ति कथितानि च यानि तु ॥ १७८॥
सृष्टिसूत्रस्वरूपं हि चान्यद्वृणु वरं सुर ॥
मुनीन्द्रस्य वचः श्रुत्वा देवेन्द्रो विस्मितो मुने ॥ १७९ ॥
आत्मनः पूर्वमैश्वर्य्यं वरयामास तत्र वै ॥
तत्प्राप्स्यस्यचिरेणैवेत्युक्त्वा स प्रययौ गृहम् ॥ 2.36.१८० ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्वासोमुनिसुरेन्द्रसंवादे इन्द्रं प्रति दुर्वासःशापादिकथनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥