नारद उवाच ॥
श्रीकृष्णस्यात्मनश्चैव निर्गुणस्य निराकृतेः ॥
सावित्रीयमसंवादे श्रुतं सुविमलं यशः ॥१॥
तद्गुणोत्कीर्त्तनं सत्यं मङ्गलानां च मङ्गलम् ॥
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर॥२॥
केनादौ पूजिता साऽपि किम्भूता केन वा पुरा ॥
तद्गुणोत्कीर्त्तनं सत्यं वद वेदविदां वर॥। ॥ ३ ॥
नारायण उवाच ॥
सृष्टेरादौ पुरा ब्रह्मन्कृष्णस्य परमात्मनः ॥
देवी वामांशसम्भूता चासीत्सा रासमण्डले ॥ ४ ॥
अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डला ॥
यथा द्वादशवर्षीया रम्या सुस्थिरयौवना ॥ ५ ॥
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ॥
शरत्पार्वणकोटीन्दुप्रभासंशोभितानना ॥ ६ ॥
शरन्मध्याह्नपद्मानां शोभाशोभितलोचना ॥
सा च देवी द्विधाभूता सहसैवेश्वरेच्छया ॥ ७ ॥
समा रूपेण वर्णेन तेजसा वयसा त्विषा ॥
यशसा वाससा मूर्त्या भूषूणेन गुणेन च ॥ ८ ॥
स्मितेन वीक्षणेनैव वचसा गमनेन च ॥
मधुरेण स्वरेणैव नयेनानुनयेन च ॥ ९ ॥
तद्वामांशा महालक्ष्मीर्दक्षिणांशा च राधिका ॥
राधाऽऽदौ वरयामास द्विभुजं च परात्परम् ॥ 2.35.१० ॥
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ॥
कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह ॥ ११ ॥
दक्षिणांशो वै द्विभुजो वामांशश्च चतुर्भुजः ॥
चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा ॥ १२ ॥
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययाऽनिशम्॥
देवीषु या च महती महालक्ष्मीश्च सा स्मृता ॥१३॥
द्विभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः॥
गोलोके द्विभुजस्तस्थौ गोपैर्गोपीभिरावृतः॥१४॥
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ॥
सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ॥१५॥
महालक्ष्मीश्च योगेन नानारूपा बभूव सा॥
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा परा॥१६॥
शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता॥
प्रेम्णा सा वै प्रधाना च सर्वासु रमणीषु च॥१७॥
स्वर्गे च स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी॥
पातालेषु च मर्त्येषु राजलक्ष्मीश्च राजसु॥१८॥
गृहलक्ष्मीर्गृहेष्वेव गृहिणी च कलांशया॥
सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमङ्गला॥१९॥
गवां प्रसूः सा सुरभिर्दक्षिणा यज्ञकामिनी॥
क्षीरोदसिन्धु कन्या सा श्रीरूपा पद्मिनीषु च॥2.35.२०॥
शोभारूपा च चन्द्रे सा सूर्य्यमण्डलमण्डिता॥
विभूषणेषु रत्नेषु फलेषु जलजेषु च ॥२१॥
नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च ॥
सर्वसस्येषु वस्त्रेषु स्थाने सा संस्कृते तथा ॥ २२ ॥
प्रतिमासु च देवानां मङ्गलेषु घटेषु च ॥
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ॥२३॥
मणीन्द्रेषु च हारेषु क्षीरं वै चन्दनेषु च ॥
वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु ॥ २४ ॥
वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च ॥
द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च ॥ २५ ॥
विष्णुना पूजिता सा च क्षीरोदे भारते मुने ॥
स्वायम्भुवेन मनुना मानवेन्द्रैश्च सर्वतः ॥ २६ ॥
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवेत् ॥
गन्धर्वाद्यैश्च नागाद्यैः पातालेषु च पूजिता ॥ २७ ॥
शुक्लाष्टम्यां भाद्रपदे पूजा वै ब्रह्मणा कृता ॥
भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद ॥ २८ ॥
चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे ॥
विष्णुना निर्मिता पूजा त्रिषु लोकेषु भक्तितः ॥ २९ ॥
वर्षान्ते पौषसङ्क्रान्त्यां मेध्यामावाह्य चाङ्गणे ॥
मनुस्तां पूजयामास सा भूता भुवनत्रये ॥ 2.35.३० ॥
राज्ञा सम्पूजिता सा वै मङ्गलेनैव मङ्गला॥
केदारेणैव नीलेन नलेन सुबलेन च ॥ ३१ ॥
ध्रुवेणौत्तानपादेन शक्रेण बलिना तथा ॥
कश्यपेन च दक्षेण मनुना च विवस्वता ॥ ३२ ॥
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ॥
यमेन वह्निना चैव वरुणेनैव पूजिता ॥ ३३ ॥
एवं सर्वत्र सर्वैश्च वन्दिता पूजिता सदा ॥
सर्वैश्वर्य्याधिदेवी सा सर्वसम्पत्स्वरूपिणी ॥ ३४ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्म्युपाख्याने लक्ष्मीस्वरूपपूजादिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥