०३३

यम उवाच ॥
पूर्णेन्दुमण्डलाकारं सर्वकुण्डं च वर्तुलम् ॥
अतीव निम्नं पाषाणभेदैश्च खचितं सति ॥ १ ॥
न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया ॥
क्लेशदं वै पातकिनां नानारूपं तदालयम् ॥ २ ॥
ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् ॥
परितः क्रोशमानं च वह्निकुण्डं प्रकीर्त्तितम् ॥ ३ ॥
महच्छब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् ॥
रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ॥ ४ ॥
प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ॥
महाघोरान्धकारं च पापिसङ्घेन सङ्कुलम् ॥ ९ ॥
प्रकुर्वता काकुशब्दं प्रहारैर्वर्णितेन च॥
क्रोशार्द्धमानं मद्दूतस्ताडितेन च रक्षितम् ॥ ६ ॥
तत्तक्षारोदकैः पूर्णं नक्रैश्च परिवेष्टितम् ॥
सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् ॥ ७ ॥
त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ॥
प्रचलद्भिरनाहारैः शुष्ककण्ठौष्ठतालुकैः ॥ ८ ॥
विण्मूत्रैरेव पूर्णं च क्रोशमानं च कुत्सितम् ॥
अतिदुर्गन्धिसंयुक्तं व्याप्तं पापिभिरेव च ॥ ९ ॥
ताडितैर्मम दूतैश्चाप्यनाहारैरुपद्रवैः ॥
रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितम्॥ ॥ 2.33.१० ॥
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्कुलम् ॥
युक्तं महापापिभिश्च तत्कीटैर्दंशितं सदा ॥ ११ ॥
गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम्॥
मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठौष्ठतालुकैः ॥१२॥
श्लैष्मपूर्णं क्रोशमितं वेष्टितं चेष्टितैः सदा ॥
तद्भोजिभिः पापिभिश्च तत्कीटैर्भक्षितैः सदा ॥ १३ ॥
क्रोशार्द्धं गरपूर्णं च गरभोजिभिरन्वितम् ॥
गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च॥ १४॥
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ॥
सर्पाकारैर्वज्रदंष्ट्रैः शुष्ककण्ठैः सुदारुणैः॥१५॥
नेत्रयोर्मलपूर्णं च क्रोशार्द्धं कीटसंयुतम् ॥
पापिभिः सङ्कुलं शश्वद्द्रवद्भिः कीटभक्षितैः ॥ १६ ॥
वसारसेन पूर्णं च क्रोशतुर्य्यं सुदुस्सहम् ॥
तद्भोजिभिः पातकिभिर्व्याप्तं दूतैश्च ताडितैः ॥१७॥
शुक्रपूर्णं क्रोशतुर्य्यं शुक्रकीटैश्च भक्षितैः ॥
क्रन्दद्भिः पापिभिः शश्वत्सङ्कुलं व्याकुलैर्भिया॥ ॥ १८ ॥
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ॥
तद्भोजिभिः पापिभिश्च सङ्कुलं कीटभक्षितैः ॥ १९ ॥
पूर्णं नेत्राश्रुभिर्नृणां वाप्यर्द्धं पापिभिर्युतम् ॥
ताडितैर्मम दूतैश्च तद्भक्ष्यैः कीटभक्षितैः ॥ 2.33.२० ॥
नृणां गात्रमलैः पूर्णं तद्भक्ष्यैः पापिभिर्युतम् ॥
ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः॥२१॥
कर्णविट्परिपूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ॥
वापीतुर्य्यप्रमाणं च रुदद्भिः कीटभक्षितै॥२२॥
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ॥
महापातकिभिर्युक्तं वापीतुर्य्यप्रमाणकम् ॥ २३ ॥
परिपूर्णं स्निग्धमांसैर्मम दूतैश्च ताडितैः॥
पापिभिः सङ्कुलं चैव वापीमानं भयानकम् ॥ २४ ॥
कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ॥
त्राहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकम् ॥ २५ ॥
वापीतुर्य्यप्रमाणं च नखादिकचतुष्टयम् ॥
पापिभिः सङ्कुलं शश्वन्मम दूतैश्च ताडितैः ॥ २६ ।!
प्रतप्तताम्रकुण्डं च ताम्रपर्य्युन्मुखान्वितम् ॥
ताम्राणां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ॥ २७ ॥
प्रत्येकं प्रतिमाश्लिष्टै रुदद्भिः पापिभिर्युतम् ॥
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ॥ २८ ॥
प्रतप्तलोहधारं च ज्वलदङ्गारसंयुतम् ॥
लोहानां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ॥ २९ ॥
प्रत्येकं सर्वसंश्लिष्टैः शश्वद्विचलितैर्भिया ॥
रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः ॥ 2.33.३० ॥
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥
भयानकं ध्वान्तयुक्तं लौहकुण्डं प्रकीर्तितम् ॥ ३१ ॥
धर्मकुण्डं तप्तसुराकुण्डं वाप्यर्द्धमेव च ॥
तद्भोजिभिः पापिभिश्च व्याप्तं मद्दूतताडितैः ॥३२॥
अधः शाल्मलिवृक्षस्य तीक्ष्णकण्टककुण्डकम् ॥
लक्षपौरुषमानं च क्रोशमानं च दुःखदम् ॥ ३३ ॥
धनुर्माने कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ॥ ३४ ॥
प्रत्येकं कण्टकैर्विद्धं महापातकिभिर्युतम् ॥
वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च ताडितैः ॥ ३५ ॥
जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः ॥
महाभयाऽतिव्यग्रैश्च दण्डसम्भिन्नमस्तकैः ॥
प्रचलद्भिर्यथा तप्ततैले जीविभिरेव च ॥३६॥
विषौघैस्तक्षकादीनां पूर्णं च क्रोशमानकम्॥
तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ॥ ३७ ॥
प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ॥
तद्भक्ष्यैः पापिभिर्युक्तं स्निग्धगात्रैश्च वेष्टितैः ॥ ३८ ॥
काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतताडितैः ॥
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥ ३९ ॥
शस्त्रकुण्डं ध्वान्तयुक्तं क्रोशमानं भयानकम् ॥
शूलाकारैः सुतीक्ष्णाग्रैर्लौहशस्त्रैश्च वेष्टितम् ॥ 2.33.४० ॥
शस्त्रतल्पस्वरूपं च क्रोशतुर्य्यप्रमाणकम् ॥
पातकिभिर्वेष्टितं च कुन्तविद्धैश्च वेष्टितम् ॥ ४१ ॥
ताडितैर्मम दूतैश्च शुष्ककण्ठौष्ठतालकैः ॥
कीटैः सम्पीड्यमानैश्च सर्पयानैर्भयङ्करैः ॥४२॥
तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति ॥
महापातकिभिर्युक्तं भीतैर्वा कीटभक्षितैः ॥
रुदद्भिः क्रोशमानं च मम दूतैश्च ताडितैः ॥ ४३ ॥
अतिदुर्गन्धिसंयुक्तं क्रोशार्द्धं पूयसंयुतम् ॥
तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ॥ ४४ ॥
द्विगव्यूति प्रमाणं च हिमतोयप्रपूरितम् ॥
तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् ॥ ४९’ ॥
सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ॥
सङ्कुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः ॥ ४६ ॥
कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ॥
सर्वं कोशार्द्धमानं च महापातकिभिर्युतम् ॥ ४७ ॥
हस्तपादादिभिर्बद्धैः क्षत्रैः क्षतजलौहितैः ॥
हाहेति शब्दं कुर्वद्भिः प्रचलद्भिश्च सन्ततम्॥४८॥
वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ॥
वाप्यर्द्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः ॥ ४९ ॥
कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ॥
तैर्विद्धैः पापिभिर्युक्तं वाप्यर्द्धं रक्तलोहितैः ॥2.33.५०॥
तप्तपङ्कोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ॥
कीटैः सम्पीड्यमानैश्च भक्षितैः पापिभिर्युतम् ॥ ५१ ॥
वाप्यर्द्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ॥
दारुणैर्विकृताकारैर्भक्षितैः पापिभिर्युतम् ॥ ५२ ॥
विण्मूत्रश्लेष्मभक्ष्यैश्च संयुक्तं शतकोटिभिः ॥
काकैश्च विकृताकारैर्धनुर्लक्षं च पापिभिः ॥ ५३ ॥
सञ्चालवाजयोः कुण्डं ताभ्यां च परिपूरितम् ॥
भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम् ॥ ५४ ॥
धनुःशतं वज्रयुक्तं पापिभिः सङ्कुलं सदा ॥
शब्दकृद्भिर्वज्रदग्धैरन्तर्ध्वान्तमयं सदा॥ ॥ ५५ ॥
वापीद्विगुणयानं च तप्तप्रस्तरनिर्मितम् ॥
ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ॥ ५६ ॥
क्षुरधारोपमैस्तीक्ष्णैः पाषाणे र्निर्मितं परम् ॥
महापातकिभिर्युक्तं क्षतं क्षतजलोहितैः ॥ ५७ ॥
दुर्गन्धिलालापूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ॥
क्रोशमानं गभीरं च मम दूतैश्च ताडितैः ॥५८॥
तप्ततोयेऽञ्जनाकारैः परिपूर्णं धनुश्शतम् ॥
चलद्भिः पापिभिर्युक्तं मम दूतेन ताडितैः॥५९॥
पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ॥
तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः ॥ 2.33.६० ॥
कुण्डं कुलालचक्राभं घूर्ण्यमानं च सन्ततम् ॥
सुतीक्ष्णषोडशारं च घूर्णितैः पापिभिर्युतम् ॥ ६१ ॥
अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ॥
कन्दराकारनिर्माणं तप्तोदकसमन्वितम् ॥६२॥
महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ॥
प्रचलद्भिः शब्दकृद्भिर्ध्वान्तयुक्तं भयानकम् ॥ ६३ ॥
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ॥
जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम्॥६४॥
ज्वालाकलापैस्तेजोभिनिर्मितं क्रोशमानकम् ॥
शब्दकृद्भिः पापिभिश्च चलद्भिः संयुतं सदा ॥ ६५ ॥
क्रोशमानं गभीरं च तप्तभस्मभिरन्वितम् ॥
शश्वच्चलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः ॥ ६६ ॥
तप्तपाषाणलोष्टानां समूहैः परिपूरितम् ॥
प्राणिभिर्दग्धगात्रैश्च युक्तं वै शुष्कतालुकैः ॥ ६७ ॥
क्रोशमानं ध्वान्तमयं गभीरमतिदारुणैः ॥
ताडितैर्मम दूतैश्च दग्धकुण्डं प्रकीर्तितम् ॥ ६८ ॥
अप्यूर्मियुक्ततोयं च प्रतप्तक्षारसंयुतम् ॥
नानाप्रकार विकृतं जलजन्तुसमन्वितम् ॥ ६९ ॥
द्विगव्यूतिप्रमाणं च गभीरं ध्वान्तसंयुतम् ॥
तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः॥2.33.७०॥
चलद्भिः क्रन्दमानैश्च न पश्यद्भिः परस्परम् ॥
उत्तप्तसूर्मिकुण्डं च कीर्तितं च भयानकम् ॥ ७१ ॥
असिपत्रवनस्यैवाप्युच्चैस्ताल तरोरधः ॥
क्रोशार्द्धमानकुण्डं च पतत्पत्रसमन्वितम् ॥ ७२ ॥
पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां परम् ॥
परित्राहीति शब्दं च कुर्वतामसतामपि ॥ ७३ ॥
गभीरं ध्वान्तसंयुक्तं रक्तकीटसमन्वितम् ॥
तदसीपत्रकुण्डं च कीर्तितं च भयानकम् ॥ ७४ ॥
धनुश्शतप्रमाणं च क्षुराकारास्त्रसङ्कुलम्॥
पापिनां रक्तपूर्णं च क्षुरधारं भयानकम्॥७५॥
सूचीवाश्यास्त्रसंयुक्तं पापिरक्तौघपूरितम्॥
पञ्चाशद्धनुरायामं क्लेशदं सूचीकामुखम् ॥ ७६ ॥
गोधाह्वजन्तुभेदस्य मुखाकृति भयानकम् ॥
कूपरूपं गभीरं च धनुर्विंशतिमानकम् ॥ ७७ ॥
महापातकिना चैव महाक्लेशकरं परम् ॥
तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् ॥ ७८ ॥
कुण्डं नरमुखाकारं धनुष्षोडशमानकम् ॥
गभीरं कूपरूपं च पापिष्ठैः सङ्कुलं सदा ॥ ७९ ॥
गजेन्द्राणां समूहेन व्याप्तं कुण्डाकृति स्थलम्॥
गजदन्तहतानां च पापिनां रक्तपूरितम् ॥ 2.33.८० ॥
तत्कीटभक्षितानां च दीनशब्दकृतां सदा ॥
धनुश्शतप्रमाणं च कीर्त्तितं गजदंशनम् ॥ ८१ ॥
धनुस्त्रिंशत्प्रमाणं च कुण्डं वै गोमुखाकृति ॥
पापिनां दुःखदं चैव गोमुखं परिकीर्त्तितम् ॥ ८२ ॥
भ्रमितं कालचक्रेण सन्ततं च भयानकम् ॥
कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ॥ ८३ ॥
लक्षमानवमानं च गभीरमतिविस्तृतम् ॥
कुत्रचित्तप्ततैलं च कुण्डाभ्यन्तरमन्तिके ॥८४॥
कुत्रचित्तप्तलौहादिकुण्डं ताम्रादिकं तथा ॥
कुत्रचित्तप्तपाषाणकुण्डाभ्यन्तरमन्तिके ॥ ८५ ॥
पापिनां च प्रधानैश्च महापातकिभिर्युतम् ॥
परस्परं न पश्यद्भिः शब्दकृद्भिश्च सन्ततम् ॥ ८६ ॥
ताडितैर्मम दूतैश्च दण्डैश्च मुसलैस्तथा ॥ ८७ ॥
घूर्णमानं पतद्भिश्च मूर्च्छितैश्च मुहुर्मुहुः ॥
पातितैर्मम दूतैश्चाप्यत्यूर्ध्वात्पतितैः क्षणम् ॥ ८८ ॥
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ॥
चतुर्गुणाः सन्ति तत्र कुम्भीपाके च दुस्तरे ॥ ८९ ॥
सुचिरं पतिताश्चैव भोगदेहविवर्जिताः ॥
सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् ॥ 2.33.९० ॥
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ॥
उत्थापिताश्च मद्दूतैः क्षणमेव निमज्जिताः ॥ ९१ ॥
निश्वासबन्धाः सुचिरं कुण्डानामन्तरे तथा ॥
अतीवक्लेशयुक्ताश्च भोगदेहा अनश्वराः ॥ ९२ ॥
दण्डेन मुसलेनैव मम दूतैश्च ताडिताः ॥
प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ॥ ९३ ॥
अवटः कूपभेदश्च यत्रोदं च तदाकृति ॥
प्रतप्ततोयपूर्णं च धनुर्विंशत्प्रमाणकम् ॥ ९४ ॥
व्याप्तं महापापिभिश्च दग्धगात्रैश्च सन्ततम् ॥
मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ॥ ९५ ॥
यत्तोयस्पर्शमात्रेण सर्व व्याधिश्च पापिनाम् ॥
भवेदकस्मात्पततां यत्र कुण्डे धनुश्शते ॥ ९६ ॥
सर्वे रुद्धाः पापिनश्च व्यथन्ते यत्र सन्ततम् ॥
हाहेति शब्दं कुर्वन्तस्तदेवारुन्तुदं विदुः ॥।९७॥
तप्तपांसुभिराकीर्णं ज्वलद्भिस्तु सुदग्धकैः ॥
तद्भक्ष्यैः पापिभिर्युक्तं पांसुभोजं धनुश्शतम् ॥९८॥
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ॥
पातमात्रेण पापी वै भवेत्पाशेन वेष्टितः ॥ ९९ ॥
क्रोशमाने च कुण्डे वै विदुस्तत्पाशवेष्टनम् ॥
धनुर्विंशतिमानं च शूलप्रोतं प्रकीर्तितम् ॥ 2.33.१०० ॥
पातमात्रेण पापी च शूलेन ग्रथितो भवेत् ॥
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ॥ १०१ ॥
अतीव हिमतोये च क्रोशार्द्धं च प्रकम्पनम् ॥
ददत्येव हि मद्दूता यत्रोल्काः पापिनां मुखे ॥ १०२ ॥
धनुर्विंशतिमानं च तदुल्काभिश्च सङ्कुलम् ॥
लक्षमानवमानं च गभीरं च धनुश्शतम् ॥ १०३ ॥
नानाप्रकारक्रिमिभिः संयुक्तं च भयानकैः ॥
अत्यन्धकारख्याप्तं यत्कूपाकारं च वर्त्तुलम् ॥ १०४ ॥
तद्भक्ष्यैः पापिभिर्युक्तं न पश्यद्भिः परस्परम्॥
तप्ततोयप्रदग्धैश्च चलद्भिः कीटभक्षितैः ॥
ध्वान्तेन चक्षुषा चान्धैरन्धकूपं प्रकीर्तितम् ॥ १०५ ॥
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः ॥
धनुर्विंशतिमानं च वेधनं तत्प्रकीर्तितम् ॥ १०६ ॥
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः ॥
धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ॥ १०७ ॥
निबद्धाश्च महाजालैर्यथा मीनाश्च पापिनः ॥
धनुस्त्रिंशत्प्रमाणं च जालबद्धप्रकीर्तितम् ॥ १०८ ॥
पततां पापिनां कुण्डे देहाश्चूर्णीभवन्ति च ॥
लौहवेदिनिबद्धान्तः कोटिमानवमानकम् ॥१०९॥
गभीरं ध्वान्तयुक्तं च धनुर्विंशतिमानकम् ॥
मूर्च्छितानां जडानां तद्देहचूर्णं प्रकीर्तितम् ॥ 2.33.११० ॥
दलिताः पापिनो यत्र मद्दूतैर्मुसलैः सदा ॥
धनुष्षोडशमानं च तत्कुण्डं दलनं स्मृत म् ॥ १११ ॥
पातमात्रे यत्र पापी शुष्ककण्ठौष्ठतालुकः ॥
वालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ॥ ११२ ॥
शतमानवमानं च गभीरं ध्वान्तसंयुतम्॥
जलाहारैर्विरहितं शोषणं तत्प्रकीर्तितम्॥११३॥
नानाचर्मकषायोदैः परिपूर्णं धनुःशतम्॥
दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः सङ्कुलं महत् ॥११४॥
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम्॥
तप्तलौहीवालुकाभिः पूर्णं पातकिभिर्युतम्॥११५॥
अन्तरा ऽग्निशिखानां च ज्वालाव्यात्तमुखं सदा ॥
धनुर्विंशतिमानं च यस्य कुण्डस्य सुन्दरि ॥ ११६ ॥
ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव यत् ॥
तन्महत्क्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् ॥ ११७ ॥
पातमात्राद्यत्र पापी मूर्छितो व्यथितो भवेत्॥
तप्तेष्टकाभ्यन्तरितं वाप्यर्द्धं जिह्मकुण्डकम् ॥ ११८ ॥
धूमान्धकारयुक्तं च धूमान्धैः पापिभिर्युतम् ॥
धनुःशतं श्वासबद्धैर्धूमान्धं परिकीर्तितम् ॥ ११९ ॥
पातमात्राद्यत्र पापी नागैस्संवेष्टितो भवेत् ॥
धनुःशतं नागपूर्णं नागवेष्टनकुण्डकम् ॥ 2.33.१२० ॥
षडशीतिश्च कुण्डानि मयोक्तानि निशामय ॥
लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ॥ १२१ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने यमलोकस्थनरककुण्डलक्षणप्रकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥