०३२

सावित्र्युवाच ॥
धर्मराज महाभाग वेदवेदाङ्गपारग ॥
नानापुराणेतिहासपाञ्चरात्रप्रदर्शकः ॥१॥
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् ॥
कर्मच्छेदे बीजरूपं प्रशंस्यं सुखदं नृणाम् ॥ २ ॥
यशःप्रदं धर्मदं च सर्वमङ्गलमङ्गलम् ॥
येन यामीं न ते यान्ति यातनां भवदुःखदाम् ॥ ३ ॥
कुण्डानि च न पश्यन्ति तत्र नैव पतन्ति च ॥
न भवेद्येन जन्मादि तत्कर्म वद सुव्रत ॥ ४ ॥
किमाकाराणि कुण्डानि कानि तेषां मतानि च ॥
केन रूपेण तत्रैव सदा तिष्ठन्ति पापिनः ॥ ५ ॥
स्वदेहे भस्मसाद्भूते यान्ति लोकान्तरं नराः ॥
केन देहेन वा भोगं भुञ्जते वा शुभाशुभम् ॥ ६ ॥
सुचिरं क्लेशभोगेन कथं देहो न नश्यति ॥
देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ॥७॥
नारायण उवाच ॥ सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् ॥
कथां कथितुमारेभे गुरुं नत्वा च नारद॥ ८ ॥
यम उवाच ॥
वत्से चतुर्षु वेदेषु धर्मो वै संहितासु च ॥
पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च ॥ ९ ॥
अन्येषु सर्वशास्त्रेषु वेदाङ्गेषु च सुव्रते ॥
सर्वेष्टं सारभूतं च मङ्गलं कृष्णसेवनम् ॥ 2.32.१० ॥
जन्ममृत्युजरारोगशोकसन्तापतारणम् ॥
सर्वमङ्गलरूपं च परमानन्दकारणम् ॥ ११ ॥
कारणं सर्वसिद्धीनां नरकार्णवतारणम् ॥
भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम् ॥१२ ॥
गोलोकमार्गसोपानमविनाशिपदप्रदम्॥
सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभे॥१३॥
कुण्डानि यमदूतं च यमं च यमकिङ्करान् ॥
स्वप्नेऽपि नहि पश्यन्ति सति श्रीकृष्णकिङ्कराः ॥ १४ ॥
हरिव्रतं ये कुर्वन्ति गृहिणः कर्मभोगिनः ॥
ये स्नान्ति हरितीर्थे च नाश्नन्ति हरिवासरे ॥ १५ ॥
प्रणमन्ति हरिं नित्यं हर्य्यर्चां पूजयन्ति च ॥
न यान्ति ते च घोरां च मम संयमनीं पुरीम् ॥ १६ ॥
त्रिसन्ध्यपूता विप्राश्च शुद्धाचारसमन्विताः ॥
स्वधर्मनिरताः शान्ता न यान्ति यममन्दिरम् ॥ १७ ॥
ते स्वर्गभोगिनोऽन्ये च शुद्धा देवान्यकिङ्कराः ॥
यान्त्यायान्ति च मर्त्यं च स्वर्गं च नहि निर्वृताः ॥
निवृत्तिं न हि लिप्सन्ति कृष्णसेवां विना नराः ॥ १८ ॥
स्वधर्म्मनिरताश्चापि स्वधर्मविरतास्तथा ॥
गच्छन्तो मर्त्यलोकं च दुर्द्धर्षा यमकिङ्कराः ॥ १९ ॥
भीताः कृष्णोपासकाच्च वैनतेयादिवोरगाः ॥
स्वदूतं पाशहस्तं च गच्छन्तं तं वदाम्यहम् ॥ 2.32.२० ॥
यास्यसीति च सर्वत्र हरिभक्ताश्रमं विना ॥
कृष्णमन्त्रोपासकानां नामानि च निकृन्तनम् ॥ २१ ॥
करोति नखराञ्जल्या चित्रगुप्तश्च भीतवत् ॥
मधुपर्कादिकं ब्रह्मा तेषां च कुरुते पुनः ॥ २२ ॥
विलङ्घ्य ब्रह्मलोकं च गोलोके गच्छतां सताम् ॥
दुरितानि च नश्यन्ति तेषां संस्पर्शमात्रतः ॥ २३ ॥
यथा सुप्रज्वलद्वह्नौ काष्ठानि च तृणानि च ॥
प्राप्नोति मोहः सम्मोहं तांश्च दृष्ट्वाऽतिभीतवत् ॥ २४ ॥
कामश्च कामिनं याति लोभ क्रोधौ ततः सति ॥
मृत्युः पलायते रोगो जरा शोको भयं तथा ॥ २५ ॥
कालः शुभाशुभं कर्म्म हर्षो भोगस्तथैव च ॥
ये ये न यान्ति यामीं च कथितास्ते मया सति ॥ २६ ॥
शृणु देहस्य विवृतिं कथयामि यथागमम् ॥
पृथिवी वायुराकाशं तेजस्तोयमिति स्फुटम् ॥ २७ ॥
देहिनां देहबीजं च स्रष्टुः सृष्टिविधौ परम् ॥
पृथ्व्यादिपञ्चभूतैश्च यो देहो निर्मितो भवेत् ॥ २८ ॥
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥
वृद्धाङ्गुष्ठप्रमाणेन यो जीवः पुरुषाकृतिः ॥ २९ ॥
बिभर्ति सूक्ष्मदेहं च तद्रूपं भोगहेतवे ॥
स देहो न भवेद्भस्म ज्वलदग्नौ ममालये ॥ 2.32.३० ॥
जलेन नष्टो देहो वा प्रहारे सुचिरं कृते ॥
न शस्त्रे च न चास्त्रे च सुतीक्ष्णे कण्टके तथा ॥ ३१ ॥
तप्तद्रवे तप्तलौहे तप्तपाषाण एव च ॥
प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्ध्वनेऽपि च ॥ ॥ ३२ ॥
न च दग्धो न भग्नश्च भुङ्क्ते सन्तापमेव च ॥
कथितं देवि वृत्तान्तं कारणं च यथागमम् ॥
कुण्डानां लक्षणं सर्वं निबोध कथयामि ते ॥ ॥ ३३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥