2.30
यम उवाच ॥
हरिसेवारतः शुद्धो योगी सिद्धो व्रतो सति ॥
तपस्वी ब्रह्मचारी च न याति नरकं यतिः ॥ १ ॥
कटुवाचा बान्धवांश्च खलत्वेन च यो नरः ॥
दग्धान्करोति बलवान्वह्निकुण्डं प्रयाति सः ॥ २ ॥
गात्रलोमप्रमाणाब्दं तत्र स्थित्वा हुताशने ॥
पशुयोनिमवाप्नोति रौद्रे दग्धस्त्रिजन्मनि ॥ ३ ॥
ब्राह्मणं तृषितं क्षुब्धं प्रतप्तं गृहमागतम् ॥
न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥ ४ ॥
तत्र लोमप्रमाणाब्दं स्थित्वा तत्र च दुःखितः ॥
तप्तस्थले वह्निकुण्डे पक्षी च सप्तजन्मसु ॥ ५ ॥
रविवारार्कसङ्क्रान्त्याममायां श्राद्धवासरे ॥
वस्त्राणां क्षारसंयोगं करोति यो हि मानवः ॥ ६ ॥
स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ॥
स व्रजेद्राजकीं योनिं सप्तजन्मसु भारते ॥ ७ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ॥
षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ॥ ८ ॥
षष्टिवर्षसहस्राणि विड्भोजी तत्र तिष्ठति ॥
षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ॥९॥
परकीयतडागे च तडागं यः करोति च ॥
उत्सृजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ॥ 2.30.१० ॥
तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति ॥
भारते गोधिका चैव स भवेत्सप्तजन्मसु ॥ ११ ॥
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति सः ॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥ १२ ॥
पूर्णमब्दशतं चैव स प्रेतो भारते भवेत् ॥
श्लेष्ममूत्रगरं चैव पूयं भुङ्क्ते ततः शुचिः ॥ १३ ॥
पितरं मातरं चैव गुरुं भार्य्यां सुतं सुताम् ॥
यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ॥ १४ ॥
पूर्णमब्दसहस्रं च तद्भोजी तत्र तिष्ठति ॥
ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ १५ ॥
दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः ॥
पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ॥ १६ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत्॥ १७ ॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥
ततो नरो भवेद्भूमौ दरिद्रः सप्तजन्मसु ॥ १८ ॥
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि॥
स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम्॥१९॥
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ॥
कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ॥
ततो भवेन्मानवश्च दरिद्रोऽल्पायुरेव च ॥2.30.२०॥
पुमांसं कामिनी वाऽपि कामिनीं वा पुमानथ ॥
यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ॥ २१ ॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥
योनिकृमिः शताब्दं च भवेद्भुवि ततः शुचिः ॥ २२ ॥
सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् ॥
स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम्॥२३॥
ततो भवेद्व्याधजन्म सप्तजन्मसु भारते ॥
ततः शुद्धिमवाप्नोति मानवश्च क्रमेण च ॥ २४ ॥
अश्रु स्रवन्तं गायन्तं भक्तं दृष्ट्वा च गद्गदम् ॥
श्रीकृष्णगुणसङ्गीते हसत्येव हि यो नरः ॥ २५ ॥
स वसेदश्रुकुण्डे च तद्भोजी शतवत्सरम् ॥
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ॥ २६ ॥
करोति खलतां शश्वदशुद्धहृदयो नरः ॥
कुण्डं गात्रमलानां च स च याति दशाब्दकम् ॥ २७ ॥
ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि ॥
त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद्ध्रुवम् ॥ २८ ॥
बधिरं यो हसत्येव निन्दत्येव हि मानवः ॥
स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम् ॥ २९ ॥
ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ॥
सप्तजन्मस्वङ्गहीनस्ततः शुद्धिं लभेद्ध्रुवम् ॥ ॥ 2.30.३० ॥
लोभात्स्वपालनार्थाय जीविनं हन्ति यो नरः ॥
मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवर्षकम् ॥ ३१ ॥
ततो भवेत्स शशको मीनश्च सप्तजन्मसु ॥
एणादयश्च कर्म्मभ्यस्ततः शुद्धिं लभेद्ध्रुवम् ॥३२॥
स्वकन्यापालनं कृत्वा विक्रीणाति हि यो नरः ॥
अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः ॥ ३३ ॥
कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ॥
तं च कुण्डे प्रहारं च करोति यमकिङ्करः ॥ ३४ ॥
मांसभारं मूर्ध्नि कृत्वा रक्तधारां लिहेत्क्षुधा ॥
ततो हि भारते पापी कन्याविट्सु कृमिर्भवेत् ॥ ३५ ॥
षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ॥
त्रिजन्मनि वराहश्च कुक्कुरस्सप्तजन्मसु ॥ ३६ ॥
सप्तजन्मसु मण्डूको जलौकाः सप्तजन्मसु ॥
सप्तजन्मसु काकश्च ततः शुद्धिं लभेद्ध्रुवम् ॥ ३७ ॥
व्रतानामुपवासानां श्राद्धादीनां च संयमे ॥
न करोति क्षौरकर्म सोऽशुचिः सर्वकर्मसु ॥ ३८ ॥
स च तिष्ठति कुण्डेषु नखादीनां च सुन्दरि ॥
तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ॥ ३९ ॥
सकेशं पार्थिवं लिङ्गं यो वाऽर्चयति भारते ॥
स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् ॥ 2.30.४० ॥
तदन्ते यावनीं योनिं प्रयाति हरकोपतः ॥
शताब्दाच्छुद्धिमाप्नोति स्वकुलं लभते ध्रुवम् ॥ ४१ ॥
पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ॥
स तिष्ठत्यस्थिकुण्डे च स्वलोमाब्दं महोल्बणे ॥ ४२ ॥
ततः स्वयोनिं सम्प्राप्य खञ्जः सप्तसु जन्मसु ॥
भवेन्महादरिद्रश्च ततः शुद्धो हि दण्डतः ॥ ४३ ॥
यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ॥
प्रतप्तताम्रकुण्डे च शतवर्षं स तिष्ठति॥ ॥ ४४ ॥
अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च ॥
लौहकुण्डे शताब्दं च स च तिष्ठति तप्तके ॥ ४९ ॥
स व्रजेद्राजकीं योनिं कर्मकारीं च सप्तसु ॥
महाव्रणी दरिद्रश्च ततः शुद्धो भवेन्नरः ॥ ॥ ४६ ॥
यो हि घर्माक्तहस्तेन देवद्रव्यमुपस्पृशेत् ॥
शतवर्षप्रमाणं च घर्मकुण्डे स तिष्ठति ॥ ४७ ॥
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ॥
स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः ॥ ४८॥
ततो भवेच्छ्रद्रयाजी ब्राह्मणः सप्तजन्मसु ॥
शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद् ध्रुवम् ॥ ॥ ४९ ॥
वाग्दुष्टा कटुवाचा या ताडयेत्स्वामिनं सदा ॥
तीक्ष्णकण्टककुण्डे सा तद्भोजी तत्र तिष्ठति ॥ 2.30.५० ॥
ताडिता यमदूतेन दण्डेन च चतुर्युगम् ॥
तत उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचिः ॥५१॥
विषेण जीविनं हन्ति निर्दयो यो हि पामरः ॥
विषकुण्डे च तद्भोजी सहस्राब्दं च तिष्ठति॥ ॥५२॥
ततो भवेन्नृघाती च व्रणी स्यात्सप्तजन्मसु ॥
सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद्ध्रुवम् ॥५३॥
दण्डेन ताडयेद्यो हि वृषं च वृषवाहकः ॥
भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते ॥ ५४ ॥
प्रतप्ततैलकुण्डे च स तिष्ठति चतुर्युगम् ॥
गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् ॥ ५५ ॥
दन्तेन हन्ति जीवं यो लौहेन बडिशेन वा ॥
दन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति ॥ ५६ ॥
ततः स्वयोनिं सम्प्राप्य चोदरव्याधिसंयुतः॥
क्लिष्टेन जन्मनैकेन ततः शुद्धो भवेन्नरः॥५७॥
यो भुङ्क्ते च वृथा मांसं मत्स्यभोजी च ब्राह्मणः ॥
हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः ॥ ५८ ॥
स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ॥
ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः ॥५९॥
ब्राह्मणः शूद्रयाजी यः शूद्रश्राद्धान्नभोजकः ॥
शूद्राणां शवदाही च पूयकुण्डं व्रजेद्ध्रुवम् ॥2.30.६०॥
यावल्लोमप्रमाणाब्दं यजमानस्य सुव्रते ॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ॥ ६१ ॥
ततो भारतमागत्य स शूद्रः सप्तजन्मसु ॥
महाशूली दरिद्रश्च ततः शुद्धः पुनर्द्विजः ॥ ६२ ॥
लघुं कूरं महान्तं वा सर्पं हन्ति च यो नरः ॥
स्वात्मलोमप्रमाणाब्दं सर्पकुण्डं प्रयाति सः ॥ ६३ ॥
सर्पेण भक्षितः सोऽपि यमदूतेन ताडितः ॥
वसेच्च सर्पविट्जीवी ततः सर्पो भवेद्ध्रुवम् ॥ ६४ ॥
ततो भवेन्मानवश्चाप्यल्पायुर्दद्रुसंयुतः ॥
महाक्लेशेन तन्मृत्युः सर्पेण भक्षणं ध्रुवम् ॥ ६५ ॥
विधिं प्रकल्प्य जीवांश्च क्षुद्रजन्तूंश्च हन्ति यः ॥
सदंशमशके कुण्डे जन्ममानदिनाब्दकम् ॥ ६६ ॥
दिवानिशं भक्षितस्तैरनाहारश्च शब्दकृत् ॥
बद्धहस्तपदादिश्च यमदूतेन ताडितः॥ ६७ ॥
ततो भवेत्क्षुद्रजन्तुर्जातिर्वै यावती स्मृता ॥
ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः ॥ ६८ ॥
यो मूढो मधु गृह्णाति हत्वा च मधुमक्षिकाः ॥
स एव गरले कुण्डे जीवमानदिनाब्दकम् ॥ ६९ ॥
भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ॥
ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः ॥ 2.30.७० ॥
दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च ॥
स कुण्डं वज्रदंष्ट्राणां कीटानां वै प्रयाति च ॥ ७१ ॥
तल्लोममानवर्षं च तत्र तिष्ठत्यहर्निशम् ॥
शब्दकृद्भक्षितस्तैश्च ततः शुद्धो भवेन्नरः ॥ ७२ ॥
अर्थलोभेन यो भूपः प्रजादण्डं करोति च ॥
वृश्चिकानां च कुण्डेषु तल्लोमाब्दं वसेद्ध्रुवम् ॥ ७३ ॥
ततो वृश्चिकजातिश्च सप्तजन्मसु जायते ॥
ततो नरश्चाङ्गहीनो व्याधियुक्तो भवेद्ध्रुवम् ॥ ७४ ॥
ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् ॥
सन्ध्याहीनश्च मूढश्च हरिभक्तिविहीनकः ॥ ७५ ॥
स तिष्ठति स्वलोमाब्दं कुण्डादिषु शरादिषु ॥
विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ॥ ७६ ॥
कारागारे सान्धकारे निबध्नाति प्रजाश्च यः ॥
प्रमत्तः स्वल्पदोषेण गोलकुण्डं प्रयाति सः ॥ ॥ ७७ ॥
तत्कुण्डं तप्ततोयाक्तं सान्धकारं भयङ्करम् ॥
तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ॥ १७८॥
कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च ॥
ततो भवेन्नीचभृत्यस्ततः शुद्धो नरो भुवि ॥ ७९ ॥
सरोवरादुत्थितांश्च नक्रादीन्हन्ति यः सति ॥
नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः १॥ 2.30.८० ॥
ततो नक्रादिजातिश्च भवेन्नद्यादिषु ध्रुवम् ॥
ततः सद्यो विशुद्धो हि दण्डेनैव नरः पुनः ॥ ८१ ॥
वक्षः श्रोणीस्तनास्यं च यः पश्यति परस्त्रियाः ॥
कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ॥८२॥
स वसेत्काककुण्डं च काकैश्च क्षुण्णलोचनः ॥
ततः स्वलोममानाब्दं ततश्चान्धस्त्रिजन्मनि॥८३॥
सप्तजन्मदरिद्रश्च महाक्रूरश्च पातकी ॥
भारते स्वर्णकारश्च स च स्वर्णवणिक्ततः ॥ ८४ ॥
यो भारते ताम्रचौरो लौहचौरश्च सुन्दरि ॥
स स्वलोमप्रमाणाब्दं वज्रकुण्डं प्रयाति वै ॥ ८९ ॥
तत्रैव वज्रविड्भोजी वज्रैश्च क्षुण्णलोचनः ॥
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ ८६ ॥
भारते देवचौरश्च देवद्रव्यादिहारकः ॥
सुदुष्करे वज्रकुण्डे स्वलोमाब्दं वसेद्ध्रुवम् ॥ ८७ ॥
देहदग्धो हि तद्वज्रैरनाहारश्च शब्दकृत् ॥
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ ॥ ८८ ॥
रौप्यगव्यां शुकानां च यश्चौरः सुरविप्रयोः ॥
तप्तपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम् ॥ ८९ ॥
त्रिजन्मनि बकः सोऽपि श्वेतहंसस्त्रिजन्मनि ॥
जन्मैकं शङ्खचिल्लश्च ततोऽन्ये श्वेतपक्षिणः ॥ 2.30.९० ॥
ततो रक्तविकारी च शूली वै मानवो भवेत् ॥
सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ॥ ९१ ॥
रैत्यकांस्यादिपात्रं च यो हरेत्सुरविप्रयोः ॥
तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम् ॥ ९२ ॥
स भवेदश्वजातिश्च भारते सप्तजन्मसु ॥
ततोऽ धिकाङ्गयुक्तश्च पादरोगी ततः शुचिः ॥ ९३ ॥
पुंश्चल्यन्नं च यो भुङ्क्ते पुंश्चलीजीव्यजीवनः ॥
स्वलोममानवर्षं च लालाकुण्डे वसेद्ध्रुवम् ॥ ९४ ॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ॥
ततश्चक्षुश्शूलरोगी ततः शुद्धः क्रमेण सः ॥ ९५ ॥ ।
म्लेच्छसेवी मषीजीवी यो विप्रो भारते भुवि ॥
स च तप्तमषीकुण्डे स्वलोमाब्दं वसेद्ध्रुवम् ॥ ९६ ॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ॥
ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ॥ ९७ ॥
त्रिजन्मनि भवेच्छागः कृष्णसर्पस्त्रिजन्मनि ॥
ततश्च तालवृक्षश्च ततः शुद्धो भवेन्नरः ॥ ९८ ॥
धान्यादि सस्यं ताम्बूलं यो हरेत्सुरविप्रयोः ॥
आसनं च तथा तल्पं चूर्णकुण्डं प्रयाति सः ॥ ९९ ॥
शताब्दं तत्र निवसेद्यमदूतेन ताडितः ॥
ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ॥ 2.30.१०० ॥
ततो भवेन्मानवश्च कासव्याधियुतो भुवि ॥
वंशहीनो दरिद्रश्चाप्यल्पायुश्च ततः शुचिः ॥ १०१ ॥
चक्रं करोति विप्राणां हृत्वा द्रव्यं च यो नरः ॥
स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः ॥ १०२ ॥
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि ॥
व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः ॥ १०३ ॥
बान्धवेषु च विप्रेषु कुरुते वक्रतां नरः॥
प्रयाति वज्रकुण्डं च वसेत्तत्र युगं सति ॥ १०४ ॥
ततो भवेत्स वक्राङ्गो हीनाङ्गः सप्तजन्मसु ॥
दरिद्रो वंशहीनश्च भार्य्याहीनस्ततः शुचिः ॥ १०५ ॥
शयने कूर्ममांसं च ब्राह्मणो यो हि भक्षति ॥
कूर्म्मकुण्डे वसेत्सोऽपि शताब्दं कूर्म्मभक्षितः॥१०६॥
ततो भवेत्कूर्म्मजन्म त्रिजन्मनि च सूकरः॥
त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ॥ १०७ ॥
घृततैलादिकं चैव यो हरेत्सुरविप्रयोः ॥
ज्वालकुण्डं स वै याति भस्मकुण्डं च पातकी ॥ १०८॥
तत्र स्थित्वा शताब्दं च स भवेत्तैलपायिकः ॥
सप्तजन्मसु मत्स्यः स्यान्मूषकश्च ततः शुचिः ॥ १०९ ॥
सुगन्धितैलं धात्रीं च गन्धद्रव्यं तथैव वा ॥
भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ॥ 2.30.११० ॥
वसेद्दुर्गन्धकुण्डे च दुर्गन्धं च लभेत्सदा ॥
स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ॥ १११ ॥
दुर्गन्धिकः सप्तजनौ मृगनाभिस्त्रिजन्मनि ॥
सप्तजन्म सुगन्धिश्च ततो वै मानवो भवेत् ॥ ११२ ॥
बलेनैव खलत्वेन हिंसारूपेण वा सति ॥
बली च यो हरेद्भूमिं भारते परपैतृकीम् ॥ ११३ ॥
स वसेत्तप्तशूले च भवेत्ततो दिवानिशम् ॥
तप्ततैले यथा जीवो दग्धो भ्रमति सन्ततम् ॥ ११४ ॥
भस्मसान्न भवत्येव भोगदेहो न नश्यति ॥
सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति ॥ ११५ ॥
शब्दं करोत्यनाहारो यमदूतेन ताडितः ॥
षष्टिवर्षसहस्राणि विट्कृमिर्भारते ततः ॥ ११६ ॥
ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः ॥
ततः स्वयोनिं सम्प्राप्य शुभकर्मा भवेत्पुनः ॥ ११७ ॥
छिनत्ति जीविनः खङ्गैर्दयाहीनः सुदारुणः ॥
नरघाती हन्ति नरमर्थलोभेन भारते ॥ ११८ ॥
असिपत्रे च स वसेद्यावदिन्द्राश्चतुर्दश ॥
तेषु चेद्ब्राह्मणान्हन्ति शतमन्वन्तरं तदा ॥११९ ॥
छिन्नाङ्गश्च भवेत्पापी खङ्गधारेण सन्ततम् ॥
अनाहारः शब्दकृच्च यमदूतेन ताडितः ॥ 2.30.१२० ॥
चण्डालः शतजन्मानि भारते सूकरो भवेत् ॥
कुक्कुरः शतजन्मानि सृगालः सप्तजन्मसु ॥ १२१ ॥
व्याघ्रश्च सप्तजन्मानि वृकश्चैव त्रिजन्मनि ॥
जन्मसप्तसु गण्डो स्यान्महिषश्च त्रिजन्मनि ॥ १२२ ॥
ग्रामं वा नगरं वाऽपि दाहनं यः करोति च ॥
क्षुरधारे वसेत्सोऽपि च्छिन्नाङ्गस्त्रियुगं सति ॥ ॥ १२३ ॥
ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमेन्महीम् ॥
सप्तजन्मामेध्यभोजी खद्योतः सप्तजन्मसु ॥ १२४ ॥
ततो भवेन्महाशूली मानवः सप्तजन्मसु ॥
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः ॥ १२५ ॥
परकर्णोपजापेन परनिन्दां करोति यः ॥
परदोषे महातोषी देवब्राह्मणनिन्दकः ॥१२६॥
सूचीमुखे स च वसेत्सूचीविद्धो युगत्रयम् ॥
ततो भवेद्वृश्चिकश्च सर्पः स्यात्सप्तजन्मसु ॥ १२७ ॥
वज्रकीटः सप्तजनौ भस्मकीटस्ततः परम् ॥
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः ॥ १२८ ॥
गृहिणां च गृहं भित्त्वा वस्तुतेयं करोति यः ॥
गाश्च च्छागांश्च मेषांश्च याति गोधामुखं च सः ॥ १२९ ॥
ततो भवेत्सप्तजनौ गोजातिर्व्याधिसंयुतः ॥
त्रिजन्ममेषजातिश्च च्छागजातिस्त्रिजन्मनि ॥ 2.30.१३० ॥
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ॥
भार्य्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः ॥ १३१ ॥
सामान्यद्रव्यचौरश्च याति नक्रमुखं युगम् ॥
ततो भवेन्मानवश्च महारोगी ततः शुचिः ॥ ॥ १३२ ॥
हन्ति गाश्च गजांश्चैव तुरगांश्च नरांस्तथा ॥
स याति गजदंशं च महापापी युगत्रयम् ॥ १३३ ॥
ताडितो यमदूतेन गजदन्तेन सन्ततम् ॥
स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ॥
गोजातिम्लेच्छजातिश्च ततः शुद्धो भवेन्नरः ॥ १३४ ॥
जलं पिबन्तीं तृषितां गां वारयति यो नरः ॥
तच्छुश्रूशाविहीनश्च गोमुखं याति मानवः ॥ १३५ ॥
नरकं गोमुखाकारं कृमितप्तोदकान्वितम् ॥
तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि ॥ १३६ ॥
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः ॥
सप्त जन्मन्यन्त्यजातिः ततः शुद्धो भवेन्नरः ॥ १३७ ॥
गोहत्यां ब्रह्महत्यां च यः करोत्यतिदेशिकीम् ॥
यो हि गच्छेदगम्यां च सन्ध्याहीनोऽप्यदीक्षितः ॥ १३८ ॥
प्रतिग्राही च तीर्थेषु ग्रामयाजी च देवलः ॥
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः ॥ १३९ ॥
गोहत्यां ब्रह्महत्यां च स्त्रीहत्यां च करोति यः ॥
मित्रहत्यां भ्रूणहत्यां महापापी च भारते ॥ 2.30.१४० ॥
कुम्भीपाके स च वसेद्यावदिन्द्राश्चतुर्दश ॥
ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् ॥ १४१ ॥
क्षणं पतति वह्नौ च क्षणं पतति कण्टके ॥
क्षणं च तप्ततैलेषु तप्ततोयेषु च क्षणम् ॥ १४२ ॥
क्षणं च तप्तपाषाणे तप्तलोहे क्षणं ततः ॥
गृध्रकोटिस्रहस्राणि शतजन्मानि सूकरः ॥ १४३ ॥
काकश्च सप्तजन्मानि सर्पस्स्यात्सप्तजन्मसु ॥
षष्टिवर्षसहस्राणि ततो वै विट्कृमिर्भवेत् ॥ १४४ ॥
ततो भवेत्स वृषणो गलत्कुष्ठी दरिद्रकः ॥
यक्ष्मग्रस्तो वंशहीनो भार्य्याहीनस्ततः शुचिः ॥ १४५ ॥
सावित्र्युवाच ॥
ब्रह्महत्या च गोहत्या किंविधा वाऽऽतिदेशिकी ॥
का वा नृणामगम्या वा को वा सन्ध्याविहीनकः ॥ १४६ ॥
अदीक्षितः पुमान्को वा को वा तीर्थे प्रतिग्रही ॥
द्विजः को वा ग्रामयाजी को वा विप्रश्च देवलः ॥ १४७ ॥
शूद्राणां सूपकारः कः प्रमत्तो वृषलीपतिः ॥
एतेषां लक्षणं सर्वं वद वेदविदां वर ॥ १४८ ॥
यम उवाच ॥
श्रीकृष्णे च तदर्च्चायां मृन्मय्यां प्रकृतौ तथा ॥
शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ तथा ॥ १४९ ॥
गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि ॥
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः॥2.30.१५०॥
स्वगुरौ स्वेष्टदेवे वा जन्मदातरि मातरि॥
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः॥१५१॥
वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च ॥
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥ १५२ ॥
यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा ॥
हरेः पादोदकेष्वन्यदेवपादोदके तथा ॥
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥ १५३ ॥
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ॥
सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ॥ १५४ ॥
माययाऽनेकरूपे वाऽप्येक एव हि निर्गुणे ॥
करोत्यन्येन समतां ब्रह्महत्यां लभेत्तु सः ॥ १५५ ॥
पितृदेवार्चनां पौर्वापरां वेदविनिर्मिताम् ॥
यः करोति निषेधं च ब्रह्महत्यां लभेत्तु सः ॥ १५६ ॥
ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा ॥
पवित्राणां पवित्रं च ब्रह्महत्यां लभन्ति ते ॥ १५७ ॥
शिवं शिवस्वरूपं च कृष्णप्राणाधिकं प्रियम् ॥
पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ॥ १५८॥
प्रधानं वैष्णवानां च देवानां सव्यमीश्वरम्॥
ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते ॥ १५९ ॥
ये विष्णुमायां निन्दन्ति विष्णुभक्तिप्रदां सतीम् ॥
सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम् ॥ 2.30.१६० ॥
सर्वदेवीस्वरूपां च सर्वाद्यां सर्ववन्दिताम् ॥
सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ॥ १६१ ॥
कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् ॥
शिवरात्रिं तथा चैकादशीं वारं रवेस्तथा ॥ १६२ ॥
पञ्चपर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः ॥
लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ १६३ ॥
अम्बुवीच्याम्बुखनने जले शौचादिकं च ये ॥
कुर्वन्ति भारते वत्से ब्रह्महत्यां लभन्ति ते ॥ १६४ ॥
गुरुं च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् ॥
अनाथान्यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥ १६५ ॥
विवाहो यस्य न भवेन्न पश्यति सुतं च यः ॥
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ १६६ ॥
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ॥
पुण्यं पार्थिवलिङ्गं वा ब्रह्महत्यां लभेत्तु सः ॥ १६७ ॥
आहारं कुर्वतीं गां च पिबन्तीं यो निवारयेत् ॥
याति गोविप्रयोर्म्मध्ये गोहत्यां च लभेत्तु सः ॥ १६८ ॥
दण्डैर्गास्ताडयेन्मूढो यो विप्रो वृषवाहकः ॥
दिने दिने गवां हत्यां लभते नात्र संशयः ॥ १६९ ॥
ददाति गोभ्य उच्छिष्टं योजयेद्वृषवाहकम् ॥
भोजयेद्वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम्॥ ॥ 2.30.१७०॥
वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः ॥
गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ १७१ ॥
पादं ददाति वह्नौ च गाश्च पादेन ताडयेत् ॥
गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात् ॥ १७२ ॥
यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च ॥
सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेद्ध्रुवम् ॥ १७३ ॥
अवीरान्नं च यो भुङ्क्ते योनिजीवी च वै द्विजः ॥
यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद् ध्रुवम् ॥१७४॥
पितॄंश्च पर्वकाले च तिथिकाले च देवताम् ॥
न सेवतेऽतिथिं यो हि गोहत्यां स लभेद्ध्रुवम् ॥ १७५ ॥
स्वभर्तरि च कृष्णे च भेदबुद्धिं करोति या ॥
कटूक्त्या ताडयेत्कान्तं सा गोहत्यां लभेद्ध्रुवम् ॥१७६॥
गोमार्गखननं कृत्वा वपते सस्यमेव च ॥
तडागे वा तदूर्ध्वं वा स गोहत्यां लभेद्ध्रुवम् ॥ १७७ ॥
प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ॥
अर्थलोभादथाज्ञानात्स गोहत्यां लभेद्ध्रुवम् ॥ १७८ ॥
राजके दैवके यत्नाद्गोस्वामी गां न पातयेत् ॥
दुःखं ददाति यो मूढो गोहत्यां स लभेद्ध्रुवम् ॥१७९॥
प्राणिनं लङ्घयेद्यो हि देवार्चायां रतं जलम् ॥
नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद्ध्रुवम् ॥ ॥2.30.१८०॥
शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ॥
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥ १८१ ॥
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ॥
सम्भ्रमान्न नमेद्यो हि स गोहत्यां लभेद्ध्रुवम् ॥१८२॥
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः ॥
विद्यार्थिने च विद्यां वै स गोहत्यां लभेद्ध्रुवम् ॥१८३॥
गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी ॥
यथा श्रुतं सूर्य्यवक्त्रात्किं भूयः श्रोतुमिच्छसि ॥ १८४ ॥
सावित्र्युवाच ॥
वास्तवे चातिदेशे च सम्बन्धे पापपुण्ययोः ॥
न्यूनाधिके च को भेदस्तन्मां व्याख्यातुमर्हसि ॥ १८५ ॥
यम उवाच ॥
कुत्रापि वास्तवः श्रेष्ठो न्यूनोऽतिदेशिकस्सदा ॥
कुत्रातिदेशिकः श्रेष्ठो वास्तवो न्यून एव च ॥ १८६ ॥
कुत्र वा समता साध्वि तयोर्वेदप्रमाणतः ॥
करोति तत्र नास्थां यो गुरुहत्यां लभेत्तु सः ॥ १८७ ॥
पुरा परिचिते विप्रे विद्यामन्त्रप्रदातरि ॥
गुरौ पितृत्वमारोपाद्वस्तुतश्श्रेष्ठ उच्यते॥१८८॥
पितुः शतगुणा माता मातुः शतगुणस्तथा॥
विद्या मन्त्रप्रदाता च गुरुः पूज्यः श्रुतेर्मतः ॥ १८९ ॥
गुरुतो गुरुपत्नी च गौरवे च गरीयसी ॥
यथेष्टं देवपत्नी च पूज्या चाभीष्टदेवता॥ ॥ 2.30.१९० ॥
विप्रः शिवसमो यश्च विष्णुतुल्यपराक्रमः ॥
राजाऽऽतिदेशिकाच्छ्रेष्ठो वास्तवो गुणलक्षतः ॥ १९१ ॥
सर्वं गङ्गासमं तोयं सर्वे व्याससमा द्विजाः ॥
ग्रहणे सृर्य्यशशिनोश्चात्रैव समता तयोः ॥ १९२ ॥
आतिदेशिकहत्याया वास्तवश्च चतुर्गुणः ॥
सम्मतः सर्ववेदानामित्याह कमलोद्भवः ॥ १९३ ॥
आतिदेशिकहत्याया भेदश्च कथितः सति ॥
या याऽगम्या नृणामेव निबोध कथयामि ते ॥ १९४ ॥
स्वस्त्री गम्या च सर्वेषामिति वेदे निरूपिता ॥
अगम्या च तदन्या या चेति वेदवेदो विदुः ॥ १९५ ॥
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ॥
अत्यगम्याश्च या या वै निबोध कथयामि ते ॥ १९६ ॥
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ॥
अत्यगम्याऽतिनिन्द्या च लोके वेदे पतिव्रते ॥ १९७ ॥
शूद्रश्चेद्ब्राह्मणीं गच्छेद्ब्रह्महत्याशतं लभेत् ॥
तत्समं ब्राह्मणी चापि कुम्भीपाकं व्रजेद्ध्रुवम् ॥ १९८ ॥
यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः ॥
स भ्रष्टो विप्रजातेश्च चण्डालात्सो ऽधमः स्मृतः ॥ १९९ ॥
विष्ठासमश्च तत्पिण्डो मूत्रतुल्यं च तर्पणम् ॥
तत्पितॄणां सुराणां च पूजने तत्समं सति ॥ 2.30.२०० ॥
कोटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम् ॥
द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः ॥ २०१ ॥
ब्राह्मणश्च सुरापीती विड्भोजी वृषलीपतिः ॥
हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवम् ॥ २०२ ॥
गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम् ॥
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सति ॥ २०३ ॥
सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम् ॥
मातुः प्रसूं तत्त्वसारं भगिनीं भ्रातृकन्यकाम् ॥ ॥ २०४ ॥
शिष्यां च शिष्यपत्नीं च भगिनेयस्य कामिनीम् ॥
भ्रातुः पुत्रप्रियां चैवाप्यगम्यामाह पद्मजः ॥ २०५ ॥
एतास्वेकामनेकां वा यो व्रजेन्मानवोऽधमः ॥
स्वमातृगामी वेदेषु ब्रह्महत्याशतं लभेत् ॥ २०६ ॥
अकर्म्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽति निन्दितः ॥
स याति कुम्भीपाकं च महापापी सुदुस्तरम्॥२०७॥
करोत्यशुद्धां सन्ध्यां च सन्ध्यां वा न करोति यः॥
त्रिसन्ध्यां वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ॥२०८॥
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ॥
योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ॥२०९॥
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ॥
तत्र नारायणः स्वामी गङ्गागर्भान्तरे वरे ॥ 2.30.२१० ॥
तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे॥
वाराणस्यां बदर्य्यां च गङ्गासागरसङ्गमे ॥ २११ ॥
पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले ॥
हरिद्वारे च केदारे सोमे बदरपावने ॥ २१२ ॥
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ॥
गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमालये ॥ २१३ ॥
एष्वन्यत्र च यो दानं प्रतिगृह्णाति कामतः ॥
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च ॥ २१४ ॥
शूद्रातिरिक्तयाजी यो ग्रामयाजी च कीर्त्तितः ॥
तथा देवोपजीवी यो देवलः परिकीर्त्तितः ॥ २१५ ॥
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ॥
सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ॥ २१६ ॥
उक्तं पूर्वप्रकरणे लक्षणं वृषलीपतेः ॥
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ॥ २१७ ॥
कुण्डान्यन्यानि ते यान्ति निबोध कथयामि ते ॥ २१८ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने यमसावित्रीसंवादे कर्मविपाके पापिनरकनिरूपणं शिवप्राशस्त्यं ब्रह्महत्यादिपदार्थपरिभाषानिरूपणं नाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥