०२९

श्रीनारायण उवाच ॥
यमस्तस्यै विष्णुमन्त्रं दत्त्वा च विधिपूर्वकम् ॥
कर्म्माशुभविपाकं च तामुवाच रवेः सुतः ॥ १ ॥
यम उवाच ॥
शुभकर्मविपाकं च श्रुतं नानाविधं सति ॥
कर्माशुभविपाकं च कथयामि निशामय ॥ २ ॥
नानाप्रकारं स्वर्गं च याति जीवः सुकर्मणा ॥
कुकर्मणा च नरकं याति नानाविधं नरः ॥ ३ ॥
नरकाणां च कुण्डानि सन्ति नानाविधानि च ॥
नानापुराणभेदेन नामभेदानि तानि च ॥४॥
विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् ॥
भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ॥ ५ ॥
षडशीतिश्च कुण्डानि संयमन्यां च सन्ति च ॥
निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥६॥
वह्निकुण्डं तप्तकुण्डं क्षमकुण्डं भयानकम् ॥
विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ ७ ॥
गरकुण्डं दूषिकाकुण्डं वसाकुण्डं तथैव च ॥
शुक्रकुण्डमसृक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ ८ ॥
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ॥
मज्जाकुण्डं मांसकुण्डं नखकुण्डं च दुस्तरम् ॥ ९ ॥
लोम्नां कुण्डं केशकुण्डमस्थिकुण्डं च दुःखदम् ॥
ताम्रकुण्डं लौहकुण्डं प्रतप्तं क्लेशदं महत् ॥2.29.१०॥
तीक्ष्णकण्टककुण्डं च विषकुण्डं च विघ्नदम् ॥
धर्म्मकुण्डं तप्तसुराकुण्डं चापि प्रकीर्त्तितम् ॥ ११ ॥
प्रतप्ततैलकुण्डं च दन्तकुण्डं च दुर्वहम् ॥
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ १२ ॥
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ॥
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ १३ ॥
शरकुण्डं शूलकुण्ड खड्गकुण्डं च भीषणम्॥
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ १४ ॥
सञ्चालकुण्डं वाजकुण्डं बन्धकुण्डं सुदुस्तरम् ॥
तप्तपाषाणकुण्डं च तीक्ष्ण पाषाणकुण्डकम् ॥ १५ ॥
लालाकुण्डमसिकुण्डं चूर्णकुण्डं सुदारुणम् ॥
चक्रकुण्डं वज्रकुण्डं कूर्म्मकुण्डं महोल्बणम् ॥ १६ ॥
ज्वालकुण्डं भस्मकुण्डं पूतिकुण्डं च सुन्दरि ॥
तप्तसूर्यमसीपत्रं क्षुरधारं सुचीमुखम् ॥ १७ ॥
गोधामुखं नक्रमुखं गजदंशं च गोमुखम् ॥
कुम्भीपाकं कालसूत्रमवटोदमरुन्तुदम्॥ १८ ॥
पांशुभोजं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ॥
उल्कामुखमन्धकूपं वेधनं दण्डताडनम् ॥ ॥ १९ ॥
जालबन्धं देहचूर्णं दलनं शोषणङ्करम् ॥
सर्पज्वालामुखं जिह्मधूमान्धं नागवेष्टनम् ॥2.29.२०॥
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ॥
नियुक्तैः किङ्करगणै रक्षितानि च सन्ततम् ॥ २१ ॥
दण्डहस्तैः शूलहस्तैः पाशहस्तैर्भयङ्करैः ॥
शक्तिहस्तैर्गदाहस्तैर्मदमत्तैश्च दारुणैः ॥ २२ ॥
तमोयुक्तैर्दयाहीनैर्दुर्निवार्य्यं च सर्वतः ॥
तेजस्विभिश्च निःशङ्कैस्ताम्रपिङ्गललोचनैः ॥२३ ॥
योगयुक्तैः सिद्धयोगैर्नानारूपधरैर्वरैः ॥
आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ॥ २४ ॥
स्वकर्मनिरतैः शैवैः शाक्तैः सौरैश्च गाणपैः ॥
अदृष्टैः पुण्यकृद्भिश्च सिद्धयोगिभिरेव च ॥ २५ ॥
स्वधर्म्मनिरतैर्वाऽपि विरतैर्वा स्वतन्त्रकैः ॥
बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः ॥ २६ ॥
एतत्ते कथितं साध्वि कुण्डसङ्ख्यानिरूपणम् ॥
येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥ २७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे सावित्र्युपाख्याने यमसावित्रीसंवादे नरककुण्डसङ्ख्यानं नामैकोनत्रिंशो ऽध्यायः ॥ २९ ॥