०२८

श्रीनारायण उवाच॥
हरेरुत्कीर्त्तनं श्रुत्वा सावित्री यमवक्त्रतः ॥
साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥ १ ॥
सावित्र्युवाच ॥
हरेरुत्कीर्त्तनं धर्म स्वकुलोद्धारकारणम् ॥
श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम् ॥ २ ॥
दानानां च व्रतानां च सिद्धीनां तपसां परम् ॥
योगानां चैव वेदानां सेवनं कीर्त्तनं हरेः ॥ ३ ॥
मुक्तत्वममरत्वं वा सर्वसिद्धित्वमेव वा ॥
श्रीकृष्णसेवनस्यैव कलां नार्हन्ति षोडशीम् ॥४॥
भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम् ॥
मूढां मामबलां तात वद वेदविदांवर ॥ ५ ॥
शुभकर्म्मविपाकं च श्रुतं नृणां मनोहरम् ॥
कर्म्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ॥६॥
इत्युक्त्वा सा सती ब्रह्मन्भक्तिनम्रात्मकन्धरा ॥
तुष्टाव धर्म्मराजं च वेदोक्तेन स्तवेन च ॥ ७ ॥
सावित्र्युवाच ॥
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥
धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम् ॥ ८ ॥
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ ९ ॥
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥
कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् ॥ 2.28.१० ॥
बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे। ॥
नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् ॥ ११ ॥
विश्वे यः कलयत्येव सर्वायुश्चापि सन्ततम् ॥
अतीव दुर्निवार्य्यञ्च तं कालं प्रणमाम्यहम् ॥ १२ ॥
तपस्वी वैष्णवो धर्म्मी संयमी विजितेन्द्रियः ॥
जीविनां कर्म्मफलदं तं यमं प्रणमाम्यहम् ॥ १३ ॥
स्वात्मारामञ्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥
पापिनां क्लेशदो यश्च पुण्यं मित्रं नमाम्यहम् ॥ १४ ॥
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा॥
यो ध्यायति परं ब्रह्म ब्रह्मवंशं नमाम्यहम् ॥ १५ ॥
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥
यमस्तां विष्षुभजनं कर्म्मपाकमुवाच ह ॥ १६ ॥
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ १७ ॥
महापापी यदि पठेन्नित्यं भक्त्या च नारद ॥
यमः करोति तं शुद्धं कायव्यूहेन निश्चितम्॥१८॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्रीकृतयमस्तोत्रं नामाष्टाविंशोऽध्यायः ॥२८॥