सावित्र्युवाच ॥
प्रयान्ति स्वर्गमन्यं च येन येनैव कर्म्मणा॥
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १ ॥
यम उवाच ॥
अन्नदानं च विप्राय यः करोति च भारते ॥
अन्नप्रमाणवर्ष च शक्रलोके महीयते ॥२॥
अन्नदानात्परं दानं न भूतं न भविष्यति ॥
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ ३ ॥
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ॥
महीयते वह्निलोके वर्षाणामयुतं ध्रुवम् ॥ ४ ॥
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ॥
तल्लोममानवर्णं च वैकुण्ठे च महीयते ॥५॥
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ॥
दानं नारायणक्षेत्रे फलं कोटिगुणं भवेत् ॥ ६ ॥
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ॥
वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥७॥
यश्चोभयमुखीदानं करोति ब्राह्मणाय च ॥
तल्लोममानवर्षं च वैकुण्ठे च महीयते॥८॥
यो ददाति ब्राह्मणाय शालिग्रामं सवस्त्रकम् ॥
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥९॥
यो ददाति ब्राह्मणाय छत्रं च सुमनोहरम् ॥
वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ 2.27.१० ॥
विप्राय पादुकायुग्मं यो ददाति च भारते ॥
महीयते वायुलोके वर्षाणामयुतं सति॥११॥
यो ददाति ब्राह्मणाय शय्यां दिव्यां मनोहराम्॥
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ १२ ॥
यो ददाति प्रदीपं च देवाय ब्राह्मणाय च ॥
यावन्मन्वन्तरं सोऽपि ब्रह्मलोके महीयते ॥ १३ ॥
सम्प्राप्य मानवीं योनिं चक्षुष्मांश्च भवेद्ध्रुवम् ॥
न याति यमलोकं च तेन पुण्येन सुन्दरि ॥ १४ ॥
करोति गजदानं च यो हि विप्राय भारते॥
यावदिन्द्रादिदेवस्य लोके चार्धासने वसेत् ॥ १५ ॥
भारते योऽश्वदानं च करोति ब्राह्मणाय च ॥
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १६ ॥
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ॥
महीयते विष्णुलोके यावन्मन्वन्तरं सति ॥ १७ ॥
यो ददाति च विप्राय व्यजनं श्वेतचामरम् ॥
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ १८ ॥
धान्याचलं यो ददाति ब्राह्मणाय च भारते ॥
स च धान्यप्रमाणाब्दं विष्णुलोके महीयते ॥ १९ ॥
ततः स्वयोनिं सम्प्राप्य चिरजीवी भवेत्सुखी ॥
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ 2.27.२० ॥
सततं श्रीहरेर्नाम भारते यो जपेन्नरः ॥
स एव चिरजीवी च ततो मृत्युः पलायते ॥२१ ॥
यो नरो भारते वर्षे दोलनं कारयेद्धरेः ॥
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ २२ ॥
इह लोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम्॥
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ २३ ॥
फलमुत्तरफाल्गुन्यां ततोऽपि द्विगुणं भवेत् ॥
कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ॥ २४ ॥
तिलदानं ब्राह्मणाय यः करोति च भारते ॥
तिलप्रमाणवर्षं च मोदते विष्णुमन्दिरे ॥ २५ ॥
ततः स्वयोनिं सम्प्राप्य चिरजीवी भवेत्सुखी॥
ताम्रपात्रस्थदानेन द्विगुणं च फलं लभेत्॥२६॥
सालङ्कृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम्॥
यो ददाति ब्राह्मणा य भारते च पतिव्रताम् ॥ २७ ॥
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ॥
तत्र स्वर्वेश्यया सार्द्धं मोदते च दिवानिशम् ॥ २८ ॥
ततो गन्धर्वलोके च वर्षाणामयुतं सति ॥
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ २९ ॥
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ॥
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ 2.27.३० ॥
ददाति सफलं वृक्षं ब्राह्मणाय च यो नरः ॥
फलप्रमाणवर्षं च शक्रलोके महीयते ॥ ३१ ॥
पुनः स्वयोनिं सम्प्राप्य लभते सुतमुत्तमम् ॥
सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ॥ ३२ ॥
केवलं फलदानं च ब्राह्मणाय ददाति यः ॥
सुचिरं स्वर्गवासं च कृत्वा याति च भारतम्॥ ३३ ॥
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ॥
ददाति यश्च विप्राय भारते विपुलं गृहम् ॥ ३४ ॥
कुबेरलोके वसति स च मन्वन्तरावधि ॥
ततः स्वयोनिं सम्प्राप्य महांश्च धनवान्भवेत् ॥ ३५ ॥
यो जनः सस्यसंयुक्तां भूमिं च रुचिरां सति ॥
ददाति भक्त्या विप्राय पुण्यक्षेत्रे च वा सति॥ ॥ ३६ ॥
महीयते स वैकुण्ठे मन्वन्तरशतं ध्रुवम् ॥
पुनः स्वयोनिं सम्प्राप्य महांश्च भूमिवान्भवेत् ॥ ३७ ॥
तं न त्यजति भूमिश्च जन्मनां शतकं परम् ॥
श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ॥ ३८ ॥
सप्रजं च प्रकृष्टं च ग्रामं दद्याद्द्विजातये ॥
लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ॥३९॥
पुनः स्वयोनिं सम्प्राप्य ग्रामलक्षं लभेद्ध्रुवम् ॥
न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥2.27.४०॥
सप्रजं सुप्रकृष्टं च पञ्चसस्यसमन्वितम् ॥
नानापुष्करिणीवृक्षफलभोगसमन्वितम् ॥४१॥
नगरं यश्च विप्राय ददाति भारते भुवि ॥
महीयते स वैकुण्ठे दशलक्षेन्द्रकालकम्॥४२॥
पुनः स्वयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत्॥
नगराणां च नियुतं लभते नात्र संशयः॥ ॥ ४३ ॥
धरा तं न जहात्येव जन्मनां नियुतं ध्रुवम् ॥
परमैश्वर्य संयुक्तो भवेदेव महीतले ॥४४॥
नगराणां च शतकं देशं यो हि द्विजातये ॥
सुप्रकृष्टप्रजायुक्तं ददाति भक्तिपूर्वकम् ॥ ४९ ॥
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ॥
महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ॥ ४६ ॥
पुनः स्वयोनिं सम्प्राप्य जम्बूद्वीपपतिर्भवेत् ॥
परमैश्वर्य्यसंयुक्तो यथा शक्रस्तथा भुवि ॥ ४७ ॥
मही तं न जहात्येव जन्मनां कोटिमेव च ॥
कल्पान्तजीवी स भवेद्राजराजेश्वरो महान् ॥४८॥
स्वाधिकारं समग्रं च यो ददाति द्विजातये॥
चतुर्गुण फलं चातो भवेत्तस्य न संशयः ॥४९॥
जम्बूद्वीपं यो ददाति ब्राह्मणाय पतिव्रते ॥
फलं शतगुणं चातो भवेत्तस्य न संशयः ॥2.27.५०॥
सप्तद्वीपमहीदातुः सर्वतीर्थानुसेविनः॥
सर्वेषां तपसां कर्त्तुः सर्वोपवासकारिणः॥५१॥
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ॥
अस्त्येव पुनरावृत्तिर्न भक्तस्य हरेरहो॥५२॥
असङ्ख्यब्रह्मणा पातं पश्यन्ति वैष्णवाः सति ॥
निवसन्ति हि गोलोके वैकुण्ठे वा हरेः पदे॥५३॥
विष्णुमन्त्रोपासकश्च विहाय मानवीं तनुम्॥
बिभर्त्ति दिव्यरूपं च जन्ममृत्युजरापहम्॥५४॥
लब्ध्वा विष्णोश्च सारूप्यं विष्णुसेवां करोति च॥
स च पश्यति गोलोके ह्यसङ्ख्यं प्राकृतं लयम्॥५५॥
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च॥
कृष्णभक्ता न नश्यन्ति जन्ममृत्युजराहराः॥५६॥
कार्त्तिके तुलसीदानं करोति हरये च यः ॥
युगं पत्रप्रमाणं च मोदते हरिमन्दिरे ॥ ५७ ॥
पुनः स्वयोनिं सम्प्राप्य हरिभक्तिं लभेद्ध्रुवम् ॥
सुखी च चिरजीवी च स भवेद्भारते भुवि॥५८॥
घृतप्रदीपं हरये कार्त्तिके यो ददाति च ॥
पलप्रमाणं वर्षं च मोदते हरिमन्दिरे ॥ ५९ ॥
पुनः स्वयोनिं सम्प्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ॥
महाधनाढ्यः स भवेच्चक्षुष्मांश्चैव दीप्तिमान् ॥ 2.27.६० ॥
माघे यः स्नाति गङ्गायामरुणोदयकालतः ॥
युगषष्टिसहस्राणि मोदते हरिमन्दिरे ॥ ६१ ॥
पुनः स्वयोनिं सम्प्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ॥
जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि ॥ ६२ ॥
माघे यः स्नाति गङ्गायां प्रयागे चारुणोदये ॥
वैकुण्ठे मोदते सोऽपि लक्षमन्वन्तरावधि ॥ ६३ ॥
पुनः स्वयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद्ध्रुवम् ॥
त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ॥ ६४ ॥
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ॥
करोति हरिदास्यं च लब्ध्वा सारूप्यमेव च ॥ ६५ ॥
नित्यस्नायी च गङ्गायां स पूतः सूर्य्यवद्भुवि ॥
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ६६ ॥
तस्यैव पादरजसा सद्यः पूता वसुन्धरा ॥
मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ ६७ ॥
पुनः स्वयोनिं सम्प्राप्य तपस्विप्रवरो भवेत् ॥
स्वधर्मनिरतः शुद्धो विद्वांश्च सुजितेन्द्रियः ॥ ६८ ॥
मीनकर्कटयोर्मध्ये गाढं तपति भास्करे ॥
भारते यो ददात्येव जलमेव सुवासितम् ॥ ६९ ॥
मोदते स च वैकुण्ठे यावदिन्द्राश्चतुर्दश ॥
पुनः स्वयोनिं सम्प्राप्य सुखी निष्कपटो भवेत् ॥ 2.27.७० ॥
वैशाखे हरये भक्त्या यो ददाति च चन्दनम् ॥
युगषष्टिसहस्राणि मोदते विष्णुमन्दिरे ॥
पुनः स्वयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् ॥७१॥
वैशाखे सक्तुदानं च यः करोति द्विजातये ॥
सक्तुरेणुप्रमाणाब्दं मोदते विष्णुमन्दिरे ॥ ७२॥
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ॥
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥७३ ॥
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ॥
पुनः स्वयोनिं सम्प्राप्य कृष्णभक्तिं लभेद्ध्रुवम् ॥ ७४ ॥
इहैव भारते वर्षे शिवरात्रिं करोति यः ॥
मोदते शिवलोके च सप्तमन्वन्तरावधि ॥ ७९ ॥
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ॥
पत्रप्रमाणं च युगं मोदते शिवमन्दिरे ॥ ७६॥
पुनः स्वयोनिं सम्प्राप्य शिवभक्तिं लभेद्ध्रुवम् ॥
विद्यावान्पुत्रवाञ्छ्रीमान्प्रजावान्भूमिवान्भवेत् ॥ ७७ ॥
चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती ॥
करोति नर्त्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ ७८ ॥
मासं वाप्यर्द्धमासं वा दश सप्तदिनानि वा ॥
दिनमानं युगं सोऽपि शिवलोके महीयते ॥ ७९ ॥
श्रीरामनवमीं यो हि करोति भारते नरः॥
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ 2.27.८० ॥
पुनः स्वयोनिं सम्प्राप्य रामभक्तिं लभेद्ध्रुवम् ॥
जितेन्द्रियाणां प्रवरो महांश्च धार्मिको भवेत् ॥ ८१ ॥
शारदीयां महापूजां प्रकृतेर्यः करोति च ॥
महिषैश्छागलैर्मेषैरिक्षुकूष्माण्डकैस्तथा ॥ ८२ ॥
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ॥
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलैः ॥ ॥ ८३ ॥
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ॥
पुनः स्वयोनिं सम्प्राप्य बुद्धिं च निर्मलां लभेत् ॥ ८४ ॥
अचलां श्रियमाप्नोति पुत्रपौत्रादिवर्द्धिनीम् ॥
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥ ८५ ॥
राजराजेश्वरः सोऽपि भवेदेव न संशयः ॥
भाद्रशुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ॥८६ ॥
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ॥
दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ॥ ८७ ॥
वैकुण्ठे मोदते सोऽपि यावच्चन्द्रदिवाकरौ॥
पुनः स्वयोनिं सम्प्राप्य राजराजेश्वरो भवेत् ॥ ८८ ॥
कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ॥
गोपानां शतकं कृत्वा गोपीनां शतकं तथा ॥ ८९ ॥
शिलायां प्रतिमायां वा श्रीकृष्णं राधया सह ॥
भारते पूजयेद्दत्त्वा चोपचाराणि षोडश ॥ 2.27.९० ॥
गोलोके च वसेत्सोऽपि यावद्वै ब्रह्मणो वयः ॥
भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम् ॥ ९१ ॥
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि ॥
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥ ९२ ॥
तत्र कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत् ॥
पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ॥ ९३ ॥
शुक्लां वाऽप्यथवा कृष्णां करोत्येकादशीं च यः ॥
वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ॥ ९४ ॥
भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम् ॥
पुनर्याति च वैकुण्ठं न तस्य पतनं भवेत् ॥ ९५ ॥
भाद्रे शुक्ले च द्वादश्यां यः शक्रं पूजयेन्नरः ॥
षष्टिवर्षसहस्राणि शक्रलोके महीयते ॥ ९६ ॥
रविवारेऽर्कसङ्क्रान्त्यां सप्तम्यां शुक्लपक्षतः ॥
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ॥ ९७ ॥
महीयते सोऽर्कलोके यावच्चन्द्रदिवाकरौ ॥
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ॥ ९८ ॥
ज्येष्ठशुक्लचतुर्दश्यां सावित्रीं यो हि पूजयेत् ॥
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ॥ ९९ ॥
पुनर्महीं समागत्य श्रीमानतुलविक्रमः ॥
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ॥ 2.27.१०० ॥
माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ॥
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश॥१०१॥
महीयते स वैकुण्ठे यावद्ब्रह्मदिवानिशम् ॥
सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ॥ १०२ ॥
गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ॥
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ॥ १०३ ॥
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ॥
मोदते हरिणा सार्द्धं क्रीडाकौतुकमङ्गलैः ॥ १०४ ॥
ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् ॥
ततः पुनरिहागत्य राजराजेश्वरो भवेत् ॥
गोमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ॥ १०५ ॥
भोजयेद्यो हि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ॥
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ॥ १०६ ॥
ततः पुनरिहागत्य स सुखी धनवान्भवेत् ॥
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ॥ १०७ ॥
यो वक्ति वा ददात्येव हरेर्नामानि भारते ॥
युगनामप्रमाणं च विष्णुलोके महीयते ॥ १०८ ॥
ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् ॥
यदि नारायणक्षेत्रे फलं कोटिगुणं लभेत् ॥ १०९ ॥
नाम्नां कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ॥
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् ॥ 2.27.११० ॥
लभते न पुनर्जन्म वैकुण्ठे स महीयते ॥
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ॥ १११ ॥
यः शिवं पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् ॥
यावज्जीवनपर्य्यन्तं स याति शिवमन्दिरम् ॥ ११२ ॥
मृदां रेणुप्रमाणाब्दं शिवलोके महीयते ॥
ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ॥ ॥ ११३ ॥
शिलां च योऽर्चयेन्नित्यं शिलातोयं च भक्षति ॥
महीयते स वैकुण्ठे यावद्वै ब्रह्मणः शतम् ॥ ११४ ॥
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं सुदुर्लभाम् ॥
महीयते विष्णुलोके न तस्य पतनं भवेत् ॥ ११५ ॥
तपांसि चैव सर्वाणि व्रतानि निखिलानि च॥
कृत्वा तिष्ठति वैकुण्डे यावदिन्द्राश्चतुर्दश ॥११६॥
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ॥
ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥ ११७ ॥
यः स्नाति सर्वर्तीर्थेषु भुवि कृत्वा प्रदक्षिणम् ॥
स च निर्वाणतां याति न तज्जन्म भवेद्भुवि ॥११८॥
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ॥
अश्वलोमप्रमाणाब्दं शक्रस्यार्द्धासने वसेत् ॥ ११९ ॥
चतुर्गुणं राजसूये फलमाप्नोति मानवः ॥
नरमेधेऽश्वमेधार्द्धं गोमेधे च तदेव च॥2.27.१२०॥
पुत्रेष्टौ च तदर्धं च सुपुत्रं च लभेद्ध्रुवम्॥
लभते लाङ्गलेष्टौ च गोमेधसदृशं फलम्॥१२१॥
तत्समानं च विप्रेष्टौ वृद्धियागे च तत्फलम् ॥
पद्मयज्ञे तदर्द्धं च फलमाप्नोति मानवः ॥१२२॥
विशोके च विशोकं च पद्मार्द्धं स्वर्गमश्नुते ॥
विजये विजयी राजा स्वर्गे पद्मसमं भवेत्॥१२३॥
प्राजापत्ये प्रजालाभो भूवृद्धिर्भूभृतां भवेत् ॥
इह राजश्रियं लब्ध्वा पद्मार्द्धं स्वर्गमश्नुते ॥
ऋद्धियागे महैश्वर्यं स्वर्गं पद्मसमं भवेत् ॥१२४॥
विष्णुयज्ञः प्रधानं च सर्वयज्ञेषु सुन्दरि ॥
ब्रह्मणा च कृतः पूर्वं महासम्भारसंयुतः ॥ १२५ ॥
बभूव कलहो यत्र दक्षशङ्करयोः सति ॥
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ॥ १२६ ॥ ।
यतो हेतोर्दक्षयज्ञं बभञ्ज चन्द्रशेखरः ॥
चकार विष्णुयज्ञं च पुरा दक्षप्रजापतिः ॥१२७॥
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ॥।
स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ॥ १२८ ॥
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ॥
राजसूयसहस्राणां समृद्ध्या च क्रतुर्भवेत् ॥ १२९ ॥
राजसूयसहस्राणां फलमाप्नोति निश्चितम् ॥
विष्णुयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥ 2.27.१३० ॥
बहुकल्पान्तजीवी च जीवन्मुक्तो भवेद्ध्रुवम् ॥
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ॥१३१॥
देवानां च यथा विष्णुर्वैष्णवानां यथा शिवः ॥
शास्त्राणां च यथा वेदा आश्रमाणां च ब्राह्मणाः ॥१३२॥
तीर्थानां च यथा गङ्गा पवित्राणां च वैष्णवाः ॥
एकादशी व्रतानां च पुष्पाणां तुलसी यथा ॥ १३३॥
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ॥
यथा स्त्रीणां च प्रकृतिराधाराणां वसुन्धरा॥ ॥ १३४ ॥
शीघ्रगानां चेन्द्रियाणां चञ्चलानां यथा मनः ॥
प्रजापतीनां ब्रह्मा च प्रजेशानां प्रजापतिः ॥ १३९ ॥
वृन्दावनं वनानां च वर्षाणां भारतं यथा ॥
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ १३६ ॥
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ॥
विष्णुयज्ञस्तथा वत्से यज्ञेषु च महानिति ॥१३७॥
अश्वमेधशतेनैव शक्रत्वं लभते ध्रुवम् ॥
सहस्रेण विष्णुपदं सम्प्राप पृथुरेव च ॥ ॥ १३८ ॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ॥
सर्वेषां च व्रतानां च तपसां फलमेव च ॥ १३९ ॥
पाठश्चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ॥
फलं बीजमिदं सर्वं मुक्तिदं कृष्णसेवनम् ॥ 2.27.१४० ॥
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ॥
निरूपितं सारभूतं कृष्णपादाम्बुजार्चनम् ॥ १४१ ॥
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्त्तनम् ॥
तत्स्तोत्रं स्मरणं चैव वन्दनं जप एव च ॥ १४२ ॥
तत्पादोदकनैवेद्यभक्षणं नित्यमेव च ॥
सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ॥ १४३ ॥
भज कृष्णं परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥
गृहाण स्वामिनं वत्से सुखं गच्छ स्वमन्दिरम् ॥ १४४ ॥
एतत्ते कथितं सर्वं विपाकं कर्मणां नृणाम् ॥
सर्वेप्सितं सर्वमतं परं तत्त्वप्रदं नृणाम् ॥ १४५ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे सावित्रीयमसंवादे सावि्त्र्युपाख्याने शुभकर्मविपाकप्रकथनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥