०२६

नारायण उवाच ॥
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं च जीविनाम् ॥ १ ॥
यम उवाच ॥
कन्या द्वादशवर्षीया वत्से त्वं वयसाऽधुना ॥
ज्ञानं ते पूर्वविदुषां योगिनां ज्ञानिनां परम् ॥ २ ॥
सावित्रीवरदानेन त्वं सावित्रीकला सति ॥
प्राप्ता पुरा भूभृता च तपसा तत्समा शुभे ॥ ३ ॥
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि ॥
यथा राधा च श्रीकृष्णे सावित्री ब्रह्मवक्षसि ॥ ४ ॥
धर्मोरसि यथा मूर्त्तिः शतरूपा मनौ यथा ॥
कर्दमे देवहूतिश्च वसिष्ठेऽरुन्धती यथा ॥ ५ ॥
अदितिः कश्यपे चापि यथाऽहल्या च गौतमे ॥
यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी ॥ ६ ॥
यथा रतिः कामदेवे यथा स्वाहा हुताशने ॥
यथा स्वधा च पितृषु यथा सञ्ज्ञा दिवाकरे ॥ ७ ॥
वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ॥
यथा धरा वराहे च देवसेना च कार्तिके ॥ ८ ॥
सौभाग्या सुप्रिया त्वं च भव सत्यवति प्रिये ॥
इति तुभ्यं वरं दत्तमपरं च यदीप्सितम् ॥
वृणु देवि महाभागे सर्वं दास्यामि निश्चितम् ॥ ९ ॥
सावित्र्युवाच ॥
सत्यवदौरसेनैव पुत्राणां शतकं मम ॥
भविष्यति महाभाग वरमेतन्मदीप्सितम् ॥ 2.26.१० ॥
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी ॥
राज्यलाभो भवत्वेव वरमेवं मदीप्सितम् ॥ ११ ॥
अन्ते सत्यवता सार्द्धं यास्यामि हरिमन्दिरम् ॥
समतीते लक्षवर्षे देहीमं मे जगत्प्रभो ॥ १२ ॥
जीवकर्मविपाकं च श्रोतुं कौतूहलं च मे ॥
विश्वविस्तारबीजं च तन्मे व्याख्यातुमर्हसि ॥ १३ ॥
यम उवाच ॥
भविष्यति महासाध्वि सर्वं मानसिकं तव ॥
जीवकर्म्मविपाकं च कथयामि निशामय ॥ १४ ॥
शुभानामशुभानां च कर्म्मणां जन्म भारते ॥
पुण्यक्षेत्रेऽत्र सर्वत्र नान्यत्र भुञ्जते जनाः ॥ १५ ॥
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः ॥
नराश्च कर्म्मजनका न सर्वे समजीविनः ॥ १६ ॥
विशिष्टजीविनः कर्म्म भुञ्जते सर्वयोनिषु ॥
विशेषतो मानवाश्च भ्रमन्ति सर्वयोनिषु ॥ ॥ १७ ॥
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम् ॥
शुभेन कर्मणा यान्ति ते स्वर्गादिकमेव च ॥ १८ ॥
कर्म्मणा चाशुभेनैव भ्रमन्ति नरकेषु च ॥
कर्म्मनिर्मूलने मुक्तिः सा चोक्ता द्विविधा मता ॥ १९॥
निर्वाणरूपा सेवा च कृष्णस्य परमात्मनः ॥
कुकर्मणा जीवश्चारोगी शुभकर्मणा ॥ 2.26.२० ॥
दीर्घजीवी च क्षीणायुः सुखी दुःखी च निश्चितम् ॥
अन्धादयश्चाङ्गहीनाः कुत्सितेन च कर्मणा ॥ २१ ॥
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्म्मणा ॥
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ॥ २२ ॥
सुदुर्लभं सुभोग्यं च पुराणेषु श्रुतिष्वपि ॥ २३ ॥
दुर्लभा मानवी जातिः सर्वजातिषु भारते ॥
सर्वाभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्म्मसु॥२४॥
विष्णुभक्तो द्विजश्चैव गरीयान्भारते ततः ॥
निष्कामश्च सकामश्च वैष्णवो द्विविधः सति ॥२५॥
सकामश्च प्रधानश्च निष्कामो भक्त एव च ॥
कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ॥ २६ ॥
स याति देहं त्यक्ता च पदं विष्णोर्निरामयम् ॥
पुनरागमनं नास्ति तेषां निष्कामिणां सति ॥ २७ ॥
ये सेवन्ते च द्विभुजं कृष्णमात्मानमीश्वरम् ॥
गोलोकं यान्ति ते भक्ता दिव्यरूपविधारिणः ॥ २८ ॥
ये च नारायणं भक्ताः सेवन्ते च चतुर्भुजम् ॥
वैकुण्ठं यान्ति ते सर्वे दिव्यरूपविधारिणः ॥२९ ॥
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ॥
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥ 2.26.३० ॥
कालेन ते च निष्कामा भविष्यन्ति क्रमेण च ॥
भक्तिं च निर्मलां बुद्धिं तेभ्यो दास्यति निश्चितम् ॥ ३१ ॥
ब्राह्मणाद्वैष्णवादन्ये सकामाः सर्वजन्मसु ॥
न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः ॥ ३२ ॥
तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति ॥
ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारतम् ॥३३॥
स्वधर्मनिरता विप्राः सूर्य्यभक्ताश्च भारते ॥
व्रजन्ति सूर्यलोकं ते पुनरायान्ति भारतम् ॥ ३४ ॥
स्वधर्मनिरता विप्राः शैवाः शाक्ताश्च गाणपाः ॥
ते यान्ति शिवलोकं च पुनरायान्ति भारतम् ॥ ३५ ॥
ये विप्रा अन्यदेवेष्टाः स्वधर्मनिरताः सति ॥
ते गत्वा शक्रलोकं च पुनरायान्ति भारतम् ॥ ३६ ॥
हरिभक्ताश्च निष्कामाः स्वधर्म्मरहिता द्विजाः ॥
तेऽपि यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ॥३७ ॥
स्वधर्म्मरहिता विप्रा देवान्यसेविनः सदा ॥
भ्रष्टाचाराश्च बालाश्च ते यान्ति नरकं ध्रुवम् ॥ ३८ ॥
स्वधर्म्मनिरताश्चैवं वर्णाश्चत्वार एव च ॥
भवन्त्येव शुभस्यैव कर्मणः फलभागिनः ॥ ३९ ॥
स्वधर्म्मरहितास्ते च नरकं यान्ति हि ध्रुवम्॥
भारते च भवन्त्येव कर्म्मणः फलभागिनः॥2.26.४०॥
स्वधर्मनिरता विप्राः स्वधर्मनिरताय च॥
कन्यां ददति विप्राय चन्द्रलोकं व्रजन्ति ते ॥४१॥
वसन्ति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश॥
सालङ्कृताया दानेन द्विगुणं फलमुच्यते ॥४२॥
सकामा यान्ति तल्लोकं न निष्कामाश्च वैष्णवाः ॥
ते प्रयान्ति विष्णुलोकं फलसन्धानवर्जिताः ॥ ४३ ॥
गव्यं च रजतं भार्यां वस्त्रं सस्यं फलं जलम् ॥
ये ददत्येव विप्रेभ्यस्तल्लोकं हि व्रजन्ति च ॥४४॥
वसन्ति ते च तल्लोकं यावन्मन्वन्तरं सति ॥
कालं च सुचिरं वासं कुर्वन्ति तत्र ते जनाः ॥ ४५ ॥
ये ददति सुवर्णं च गां च ताम्रादिकं सति ॥
ते यान्ति सूर्यलोकं च शुचये ब्राह्मणाय च ॥ ४६ ॥
वसन्ति तत्र ते लोके वर्षाणामयुतं सति ॥
विपुले च चिरं वासं कुर्वन्ति च निरामयाः ॥४७ ॥
ददाति भूमिं विप्रेभ्यो धान्यानि विपुलानि च ॥
स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम्॥४८॥
तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ ॥
विपुलं विपुले वासं करोति पुण्यवान्सति ॥ ४९ ॥
गृहं ददन्ति विप्राय ये जना भक्तिपूर्वकम् ॥
ते यान्ति सुरलोकं च चिरं तत्र भवन्ति ते ॥2.26.५०॥
गृहरेणुप्रमाणाब्दं दानं पुण्यदिने यदि ॥
विपुलं विपुले वासं कुर्वन्ति मानवाः सति॥५१॥
यस्मै यस्मै च देवाय यो ददाति गृहं नरः॥
स याति तस्य लोकं च रेणुमानाब्दमेव च ॥ ५२ ॥
सौधे चतुर्गुणं पुण्यं पूर्त्ते शतगुणं फलम् ॥
प्रकृष्टेऽष्टगुणं तस्मादित्याह कमलोद्भवः ॥ ५३ ॥
यो ददाति तडागं च सर्वभूताय भारते ॥
स याति जनलोकं च वर्षाणामयुतं सति॥ ५४ ॥
वाप्यां फलं शतगुणं प्राप्नोति मानवस्ततः ॥
तथा सेतुप्रदानेन तडागस्य फलं लभेत् ॥ ५५ ॥
धनुश्चतुःसहस्रेण दैर्घ्यमानेन निश्चितम् ॥
न्यूना वा तावती प्रस्थे सा वापी परिकीर्त्तिता ॥ ५६ ॥
दशवापीसमा कन्या यदि पात्रे प्रदीयते ॥
फलं ददाति द्विगुणं यदि सालङ्कृता भवेत्॥ ५७ ॥
तत्फलं च तडागे च पङ्कोद्धारेण तत्फलम् ॥
वाप्याश्च पङ्कोद्धारेण वापीतुल्यफलं लभेत् ॥ ५८ ॥
अश्वत्थवृक्षमारोप्य प्रतिष्ठां च करोति यः ॥
स याति तपसो लोकं वर्षाणामयुतं परम् ॥ ५९ ॥
पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये ॥
स वसेद्ध्रुवलोके च वर्षाणामयुतं ध्रुवम्॥2.26.६०॥
यो ददाति विमानं च विष्णवे भारते सति ॥
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम्॥६१॥
चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम्॥
रथार्धं शिबिकादाने फलमेव लभेद्ध्रुवम् ॥ ६२ ॥
यो ददाति भक्तियुक्तो हरये दोलमन्दिरम् ॥
विष्णुलोके वसेत्सोऽपि यावन्मन्वतरं परम् ॥ ६३ ॥
राजमार्गं सौधयुक्तं यः करोति पतिव्रते ॥
वर्षाणामयुतं सोऽपि शक्रलोके महीयते॥ ६४ ॥
ब्राह्मणेभ्योऽपि देवेभ्यो दाने समफलं लभेत् ॥
यच्च दत्तं हि तद्भोक्तुर्न दत्तं नोपतिष्ठते ॥ ६५ ॥
भुक्त्वा स्वर्गादिकं सौख्यं पुनरायान्ति भारते ॥
लभेद्विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु ॥ ६६ ॥
भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं परम् ॥
पुनः सोऽपि भवेद्विप्रो न पुनः क्षत्रियादयः॥६७॥
क्षत्रियो वाऽपि वैश्यो वा कल्पकोटिशतेन च ॥
तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् ॥६८॥
स्वधर्मरहिता विप्रा नानायोनिं व्रजन्ति च ॥
भुक्त्वा च कर्मभागं च विप्रयोनिं लभेत्पुनः॥६९॥
नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ॥
अवश्यवमेव भोक्तव्यं कल्पकोटिशतैरपि ॥ 2.26.७० ॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्॥
देवतीर्थे सहायेन कायव्यूहेन शुध्यति॥७१॥
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि॥७२॥
इति श्रीब्रह्मवैवर्त्ते महापुराण द्वितीये प्रकृतिखण्डे सावित्र्युपाख्याने कर्मविपाके कर्मानुरूपस्थानगमनं नाम षड्विंशोऽध्यायः॥२६॥