०२५

श्रीनारायण उवाच ॥
यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता ॥
तुष्टाव परया भक्त्या तमुवाच मनस्विनी ॥ १ ॥
सावित्र्युवाच ॥
किं कर्म वा शुभं धर्म्मराज किं वाऽशुभं नृणाम् ॥
कर्म निर्मूलयन्त्येव केन वा साधवो जनाः ॥२॥
कर्मणां बीजरूपः कः को वा कर्म्मफलप्रदः॥
किं कर्म्म तद्भवेत्केन को वा तद्धेतुरेव च॥३॥
को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च ॥
को वा देही कश्च देहः को वा वै कर्मकारकः॥४॥
किं विज्ञानं मनो बुद्धिः के वा प्राणाः शरीरिणाम् ॥
कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः॥५॥
भोक्ता भोजयिता को वा को भोगः का च निष्कृतिः ॥
को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि ॥६॥
यम उवाच ॥
वेदेन विहितं कर्म तन्मये मङ्गलं परम्॥
अवैदिकं तु यत्कर्म तदेवाशुभमेव च॥७॥
अहैतुकी विष्णुसेवा सङ्कल्परहिता सताम्॥
कर्म्मनिर्म्मूलनात्मा वै सा चैव हरिभक्तिदा॥८॥
हरिभक्तो नरो यश्च स च मुक्तः श्रुतौ श्रुतम् ॥
जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः ॥९॥
मुक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता ॥
निर्वाणपददात्री च हरिभक्तिप्रदा नृणाम् ॥ 2.25.१० ॥
हरिभक्तिस्वरूपां च मुक्तिं वाञ्छन्ति वैष्णवाः ॥
अन्ये निर्वाणरूपां च मुक्तिमिच्छन्ति साधवः ॥ ॥ ११ ॥
कर्म्मणो बीजरूपश्च सन्ततं तत्फलप्रदः ॥
रूर्मरूपश्च भगवाञ्छ्रीकृष्णः प्रकृतेः परः ॥ १२ ॥
सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत्सति ॥
जीवः कर्मफलं भुङ्क्ते आत्मा निर्लिप्त एव च ॥ १३ ॥
आत्मनः प्रतिबिम्बं च देही जीवः स एव च ॥
पाञ्चभौतिकरूपश्च देहो नश्वर एव च॥१४॥
पृथिवी वायुराकाशो जलं तेजस्तथैव च॥
एतानि सूत्ररूपाणि सृष्टिः सृष्टिविधौ हरेः ॥ ॥ १५ ॥
कर्त्ता भोक्ता च देही च स्वात्मा भोजयिता सदा ॥
भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥ १६ ॥
सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् ॥
विषयाणां विभागानां भेदबीजं च कीर्त्तितम् ॥१७॥
बुद्धिर्विवेचनारूपा ज्ञानसन्दीपिनी श्रुतौ ॥
वायुभेदाश्च वै प्राणा बलरूपाश्च देहिनाम् ॥ १६ ॥
इन्द्रियाणां वै प्रवरमीश्वराणां समूहकम् ॥
प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम् ॥ १९ ॥
अनिरूप्यमदृश्यं च ज्ञानभेदं मनः स्मृतम् ॥
लोचनं श्रवणं प्राणं त्वग्जिह्वादिकमिन्द्रियम् ॥ 2.25.२० ॥
अङ्गिनामङ्ग रूपं च प्रेरकं सर्वकर्मणाम् ॥
रिपुरूपं मित्ररूपं सुखदं दुःखदं सदा ॥ २१ ॥
सूर्य्यो वायुश्च पृथिवी वाण्याद्या देवताः स्मृताः ॥
प्राणदेहादिभृद्यो हि स जीवः परिकीर्त्तितः॥२२॥
परमात्मा परं ब्रह्म निर्गुणः प्रकृतेः परः ॥
कारणं कारणानां च श्रीकृष्णो भगवान्स्वयम्॥२३॥
इत्येवं कथितं सर्वं मया पृष्टं यथागमम् ॥
ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ॥ २४ ॥
सावित्र्युवाच ॥
त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं बुधम् ॥
प्रश्नं यद्यत्करोमि त्वां तद्भवान्वक्तुमर्हति ॥ २५ ॥
कां कां योनिं याति जीवः कर्मणा केन वा यम ॥
केन वा कर्मणा स्वर्गं केन वा नरकं पितः ॥ २६ ॥
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद्धरेः ॥
केन वा कर्मणा रोगी चारोगी केन कर्मणा॥२७॥
केन वा दीर्घजीवी च केनाल्पायुश्च कर्म्मणा ॥
केन वा कर्म्मणा दुःखी केन वा कर्म्मणा सुखी ॥ २८ ॥
अङ्गहीनश्च काणश्च बधिरः केन कर्म्मणा ॥
अन्धो वा कृपणो वाऽपि प्रमत्तः केन कर्म्मणा ॥ २९ ॥
क्षिप्तोऽतिलुब्धकश्चैव केन वा नरघातकः ॥
केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ॥2.25.३०॥
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा ॥
स्वर्गभोगादिकं केन वैकुण्ठं केन कर्म्मणा॥३१॥
गोलोकं केन वा ब्रह्मन्सर्वोत्कृष्टं निरामयम्॥
नरकं वा कतिविधं किं सङ्ख्यं नाम किं तथा ॥३२॥
को वा कं नरकं याति कियन्तं तेषु तिष्ठति ॥
पापिनां कर्म्मणा केन को वा व्याधिः प्रजायते ॥३३॥
यद्यदस्ति मया पृष्टं तन्मे व्याख्यातुमर्हसि ॥ ३४ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे कर्म्मविपाके यमोक्त्यनन्तरं सावित्रीप्रश्नो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥