०२४

नारायण उवाच ॥
स्तुत्वा सोऽश्वपतिस्तेन सम्पूज्य विधिपूर्वकम् ॥
ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ॥ १ ॥
उवाच सा तं राजानं प्रसन्ना सस्मिता सती ॥
यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा ॥२॥
सावित्र्युवाच ॥
जानामि ते महाराज यत्ते मनसि वर्त्तते ॥
वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम् ॥३ ॥
साध्वी कन्याभिलाषं च करोति तव कामिनी ॥
त्वं प्रार्थयसि पुत्रं च भविष्यति च ते क्रमात् ॥ ४ ॥
इत्युक्त्वा सा महादेवी ब्रह्मलोकं जगाम ह ॥
राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह ॥ ५ ॥
राज्ञो धनाच्च सावित्र्या बभूव कमला कला ॥
सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः ॥ ६ ॥
कालेन सा वर्द्धमाना बभूव च दिने दिने ॥
रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा ॥ ७ ॥
सा वरं वरयामास द्युमत्सेनात्मजं तदा॥
सावित्री सत्यवन्तं च नानागुणसमन्वितम् ॥ ॥८॥
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् ॥
स च सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ॥९॥
स च संवत्सरेऽतीते सत्यवान्सत्यविक्रमः ॥
जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया ॥2.24.१०॥
जगाम तत्र सावित्री तत्पश्चाद्दैवयोगतः ॥
निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान् ॥ ११ ॥
यमस्तज्जीवपुरुषं बद्ध्वाङ्गुष्ठसमं मुने ॥
गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ॥ १२ ॥
पश्चात्तां सुन्दरीं दृष्ट्वा यमः संयमिनीपतिः ॥
उवाच मधुरं साध्वीं साधूनां प्रवरो महान् ॥ १३ ॥
यम उवाच ॥
अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् ॥
यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज ॥ १४ ॥
गन्तुं मर्त्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम्॥
देहं च यमलोकं च नश्वरं नश्वरः सदाः ॥ १५ ॥
पूर्णश्च भर्त्तुस्ते कालः ह्यभवद्भारते सति ॥
स कर्मफलभोगार्थं सत्यवान्याति मद्गृहम् ॥ १६ ॥
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ॥
सुखं दुःखं भयं शोकं कर्मणैव प्रपद्यते ॥ १७ ॥
कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा ॥
स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत् ॥ १६ ॥
स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् ॥
लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम् ॥ १९ ॥
कर्मणा ब्राह्मणत्वं च मुक्तत्वं च स्वकर्मणा ॥
सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः ॥ 2.24.२० ॥
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं च कर्मणा ॥
कर्मणा क्षत्रियत्वं च वैश्यत्वं च स्वकर्मणा ॥ २१ ॥
कर्मणा चैव शूद्रत्वमन्त्यजत्वं स्वकर्मणा ॥ २२ ॥
स्वकर्मणा च म्लेच्छत्वं लभते नात्र संशयः ॥
स्वकर्मणा जङ्गमत्वं स्थावरत्वं स्वकर्मणा ॥ २३ ॥
स्वकर्मणा च शैलत्वं वृक्षत्वं च स्वकर्मणा ॥
स्वकर्मणा पशुत्वं च पक्षित्वं च स्वकर्मणा ॥ २४ ॥
स्वकर्मणा क्षुद्रजन्तुः कृमित्वं च स्वकर्मणा ॥
स्वकर्मणा च सर्पत्वं गन्धर्वत्वं स्वकर्मणा ॥ २५ ॥
स्वकर्मणा राक्षसत्वं किन्नरत्वं स्वकर्मणा ॥
स्वकर्मणा च यक्षत्वं कूष्माण्डत्वं स्वकर्मणा ॥ २६ ॥
स्वकर्मणा च प्रेतत्वं वेतालत्वं स्वकर्मणा॥
भूतत्वं च पिशाचत्वं डाकिनीत्वं स्वकर्मणा ॥ २७ ॥
दैत्यत्वं दानवत्वं चाप्यसुरत्वं स्वकर्मणा ॥
कर्मणा पुण्यवाञ्जीवो महापापी स्वकर्मणा ॥ २८ ॥
कर्मणा सुन्दरोऽरोगी महारोगी च कर्मणा ॥
कर्मणा चान्धः काणश्च कुत्सितश्च स्वकर्मणा ॥ २९ ॥
कर्मणा नरकं यान्ति जीवाः स्वर्गं स्वकर्मणा ॥
कर्मणा शक्रलोकं च सूर्य्यलोकं स्वकर्मणा ॥ 2.24.३० ॥
कर्मणा चन्द्रलोकं च वह्निलोकं स्वकर्मणा ॥
कर्मणा वायुलोकं च कर्मणा वरुणालयम् ॥ ३१ ॥
तथा कुबेरलोकं च नरो याति स्वकर्मणा ॥
कर्मणा ध्रुवलोकं च शिवलोकं स्वकर्मणा ॥ ३२ ॥
याति नक्षत्रलोकं च सत्यलोकं स्वकर्मणा ॥
जनोलोकं तपोलोकं महर्लोकं स्वकर्मणा ॥ ३३ ॥
स्वकर्मणा च पातालं ब्रह्मलोकं स्वकर्मणा ॥
कर्मणा भारतं पुण्यं सर्वेप्सितवरप्रदम् ॥ ३४ ॥
कर्मणा याति वैकुण्ठं गोलोकं च निरामयम् ॥
कर्मणा चिरजीवी च क्षणायुश्च स्वकर्मणा ॥ ३५ ॥
कर्मणा कोटिकल्पायुः क्षीणायुश्च स्वकर्मणा ॥
जीवसञ्चारमात्रायुर्गर्भे मृत्युः स्वकर्मणा ॥ ३६ ॥
इत्येवं कथितं सर्वं मया तत्त्वं च सुन्दरि ॥
कर्मणा ते मृतो भर्त्ता गच्छ वत्से यथासुखम् ॥ ३७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे कर्मविपाके कर्मणः सर्वहेतुत्वप्रदर्शनं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥