०२३

नारद उवाच ॥
तुलस्युपाख्यानमिदं श्रुतमीश सुधोपमम् ॥
यत्तु सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
पुरा येन समुद्भूता सा श्रुता च श्रुतिप्रसूः ॥
केन वा पूजिता देवी प्रथमे कैश्च वा परे ॥ २ ॥
नारायण उवाच ॥
ब्रह्मणा वेदजननी पूजिता प्रथमे मुने ॥
द्वितीये च देवगणैस्तत्पश्चाद्विदुषां गणैः ॥ ३ ॥
तथा चाश्वपतिः पूर्वं पूजयामास भारते ॥
तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ॥ ४ ॥
नारद उवाच ॥
को वा सोऽश्वपतिर्ब्रह्मन्केन वा तेन पूजिता ॥
सर्वपूज्या च सावित्री तन्मे व्याख्यातुमर्हसि ॥ ५ ॥
नारायण उवाच ॥
मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ॥
वैरिणां बलहर्त्ता च मित्राणां दुःखनाशनः ॥ ६ ॥
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ॥
मालतीति च सा ख्याता यथा लक्ष्मीर्गदाभृतः ॥ ७ ॥
सा च राज्ञी महासाध्वी वसिष्ठस्योपदेशतः ॥
चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ॥ ८ ॥
प्रत्यादेशं न सा प्राप महिषी न ददर्श ताम् ॥
गृहं जगाम सा दुःखाद्धृदयेन विदूयता ॥ ९ ॥
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ॥
सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ॥ 2.23.१० ॥
तपश्चचार तत्रैव संयतः शतवत्सरम् ॥
न ददर्श च सावित्रीं प्रत्यादेशो बभूव ह ॥ ११ ॥
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ॥
गायत्रीदशलक्षं च जपं कुर्विति नारद ॥ १२ ॥
एतस्मिन्नन्तरे तत्र प्रजगाम पराशरः ॥
प्रणनाम नृपस्तं च मुनिर्नृपमुवाच ह ॥ १३ ॥
पराशर उवाच ॥
सकृज्जपश्च गायत्र्याः पापं दिनकृतं हरेत् ॥
दशधा प्रजपान्नॄणां दिवारात्र्यघमेव च ॥ १४ ॥
शतधा च जपाच्चैवं पापं मासार्जितं परम् ॥
सहस्रधा जपाच्चैव कल्मषं वत्सरार्जितम् ॥ १५ ॥
लक्षं जन्मकृतं पापं दशलक्षं त्रिजन्मनः ॥
सर्वजन्मकृतं पापं शतलक्षो विनश्यति ॥ १५ ॥
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ॥
करं सर्पफणाकारं कृत्वा तु ऊर्ध्वमुद्रितम् ॥ १७ ॥
आनम्रमूर्द्धमचलं प्रजपेत्प्राङ्मुखो द्विजः ॥
अनामिकामध्यदेशादथो वामक्रमेण च ॥ १८ ॥
तर्जनीमूलपर्य्यन्तं जपस्यैष क्रमः करे ॥
श्वेतपङ्कज बीजानां स्फाटिकानां च संस्कृताम् ॥ १९ ॥
कृत्वा वा मालिकां राजञ्जपेत्तीर्थे सुरालये ॥
संस्थाप्य मालामश्वत्थपत्रसप्तसु संयतः ॥ 2.23.२० ॥
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ॥
गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ॥ २१ ॥
अथवा पञ्चगव्येन स्नाता माला च संस्कृता ॥
अथ गङ्गोदकेनैव स्नाता वाऽतिसुसंस्कृता ॥२२॥
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु ॥
साक्षाद् द्रक्ष्यसि सावित्रीं त्रिजन्ममपातकक्षयात् ॥ २३ ॥
नित्यं नित्यं त्रिसन्ध्यं च करिष्यसि दिने दिने ॥
मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ॥ २४ ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ॥
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ २५ ॥
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ॥
स शूद्रवद्बहिष्कार्य्यः सर्वस्माद् द्विजकर्मणः ॥२६॥
यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यां करोति च ॥
स च सूर्य्यसमो विप्रस्तेजसा तपसा सदा ॥२७॥
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ॥
जीवन्मुक्तः स तेजस्वी सन्ध्या पूतो हि यो द्विजः ॥ २८ ॥
तीर्थानि च पवित्राणि तस्य स्पर्शनमात्रतः ॥
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥ २९ ॥
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ॥
स्वेच्छया च द्विजातेश्च त्रिसन्ध्यरहितस्य च ॥ 2.23.३० ॥
विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः ॥
एकादशीविहीनश्च विषहीनो यथोरगः ॥ ३१ ॥
हरेरनैवेद्यभोजी धावको वृषवाहकः ॥
शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः ॥ ३२ ॥
शवदाही च शूद्राणां यो विप्रो वृषलीपतिः ॥
शूद्राणां सूपकारश्च विषहीनो यथोरगः ॥ ३३ ॥
शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः ॥
असिजीवी मषीजीवी विषहीनो यथोरगः ॥३४॥
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ॥
भगजीवी वार्धुषिको विषहीनो यथोरगः ॥ ३५ ॥
यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ॥
यो विद्याविक्रयी भूप विषहीनो यथोरगः ॥ ३६ ॥
सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्विजः ॥
शिलापूजादिरहितो विषहीनो यथोरगः ॥ ३७ ॥
इत्युक्त्वा च मुनिश्रेष्ठः सर्व पूजाविधिक्रमम् ॥
तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ॥ ३८ ॥
दत्त्वा सर्वं नृपेन्द्राय प्रययौ स्वालयं मुनिः ॥
राजा सम्पूज्य सावित्रीं ददर्श वरमाप च॥३९॥
नारद उवाच॥
किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम्॥
स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ॥2.23.४०॥
नृपः केन विधानेन सम्पूज्य श्रुतिमातरम्॥
वरं च किं वा सम्प्राप वद सोऽश्वपतिर्नृपः॥४१॥
नारायण उवाच॥
ज्येष्ठे कृष्णत्रयोदश्यां शुद्धे काले च संयतः॥
व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत्॥४२॥
व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम्॥
दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं तथा ॥४३॥
वस्त्रं यज्ञोपवीतं च भोज्यं च विधिपूर्वकम्॥
संस्थाप्य मङ्गलघटं फलशाखासमन्वितम॥४४॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्॥
सम्पूज्य पूजयेदिष्टं घटे आवाहिते मुने॥४५॥
शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत्॥
स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ॥ ४६ ॥
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ॥
ग्रीष्ममध्याह्नमार्त्तण्डसहस्रसमसुप्रभाम् ॥ ४७ ॥
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्॥
वह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् ॥४८॥
सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः॥
सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम् ॥ ४९ ॥
वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् ॥
वेदे बीजस्वरूपां च भजे त्वां वेदमातरम् ॥ 2.23.५० ॥
ध्यात्वा ध्यानेन चानेन दत्त्वा पुष्पं स्वमूर्द्धनि ॥
पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद्व्रती ॥ ५१ ॥
दत्त्वा षोडशोपचारं वेदोक्तमन्त्रपूर्वकम् ॥
सम्पूज्य स्तुत्वा प्रणमेदेवं देवीं विधानतः ॥ ५२ ॥
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ॥
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम्॥५३॥
वसनं भूषणं माल्यं गन्धमाचमनीयकम्॥
मनोहरं सुतल्पं च देयान्येतानि षोडश॥५४॥
दारुसारविकारं च हेमादिनिर्मितं च वा ॥
देवाधारं पुण्यदं च मया नित्यं निवेदितम् ॥ ५५ ॥
तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् ॥
पूजाङ्गभूतं शुद्धं च मया भक्त्या निवेदितम्॥ ५६ ॥
पवित्ररूपमर्घ्यं च दूर्वापुष्पाक्षतान्वितम् ॥
पुण्यदं शङ्खतोयाक्तं मया तुभ्यं निवेदितम् ॥ ५७॥
सुगन्धि धात्रीतैलं च देहसौन्दर्य्यकारणम् ॥
मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ॥ ५८ ॥
मलयाचलसम्भूतं देहशोभाविवर्द्धनम् ॥
सुगन्धियुक्तं सुखदं मया तुभ्यं निवेदितम् ॥ ५९ ॥
गन्धद्रव्योद्भवः पुण्यः प्रीतिदो दिव्यगन्धदः ॥
मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ॥ 2.23.६० ॥
जगतां दर्शनीयं च दर्शनं दीप्तिकारणम् ॥
अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् ॥ ६१ ॥
तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ॥
पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् ॥ ६२ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥
तुष्टिदं पुष्टिदं चैव मया भक्त्या निवेदितम् ॥ ६३ ॥
सुशीतलं वासितं च पिपासानाशकारणम् ॥
जगतां जीवरूपं च जीवनं प्रतिगृह्यताम् ॥६४॥
देहशोभास्वरूपं च सभाशोभाविवर्द्धनम् ॥
कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् ॥६५॥
काञ्चनादिभिराबद्धं श्रीयुक्तं श्रीकरं सदा॥
सुखदं पुण्यदं चैव भूषणं प्रतिगृह्यताम् ॥ ६६ ॥
नानापुष्पलताकीर्णं बहुभासा समन्वितम् ॥
प्रीतिदं पुण्यदं चैव माल्यं वै प्रतिगृह्यताम् ॥ ६७ ॥
सर्वमङ्गलरूपश्च सर्व मङ्गलदो वरः ॥
पुण्यप्रदश्च गन्धाढ्यो गन्धश्च प्रतिगृह्यताम् ॥६८॥
शुद्धं शुद्धिप्रदं चैव शुद्धानां प्रीतिदं महत् ॥
रम्यमाचमनीयं च मया दत्तं प्रगृह्यताम् ॥ ६९ ॥
रत्नसारादिनिर्माणं पुष्पचन्दनसंयुतम् ॥
सुखदं पुण्यदं चैव सुतल्पं प्रतिगृह्यताम ॥ 2.23.७० ॥
नानावृक्षसमुद्भूतं नानारूपसमन्वितम् ॥
फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् ॥ ७१ ॥
सिन्दूरं च वरं रम्यं भालशोभाविवर्द्धनम् ॥
भूषणं भूषणानां च सिन्दूरं प्रतिगृह्यताम् ॥ ७२ ॥
विशुद्धग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम् ॥
पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् ॥ ७३ ॥
द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ॥
ततः प्रणम्य विप्राय व्रती दद्याच्च दक्षिणाम् ॥ ७४ ॥
सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥
लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः ॥ ७९ ॥
श्रीं ह्रीं क्लीं सावित्र्यै स्वाहा ॥
मध्यन्दिनोक्तं स्तोत्रं च सर्ववाञ्छाफलप्रदम् ॥
विप्रजीवनरूपं च निबोध कथयामि ते ॥७६॥
कृष्णेन दत्ता सावित्री गोलोके ब्रह्मणे पुरा ॥।
न याति सा तेन सार्द्धं ब्रह्मलोकं तु नारद ॥ ७७ ॥
ब्रह्मा कृष्णाज्ञया भक्त्या पर्यष्टौद्वेदमातरम् ॥
तदा सा परितुष्टा च ब्रह्माणं चकमे सती ॥ ७८ ॥
ब्रह्मोवाच ॥
नारायणस्वरूपे च नारायणि सनातनि ॥
नारायणात्समुद्भूते प्रसन्ना भव सुन्दरि ॥ ७९ ॥॥
तेजस्स्वरूपे परमे परमानन्दरूपिणि ॥
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि॥2.23.८०॥
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि॥
सर्वमङ्गलरूपेण प्रसन्ना भव सुन्दरि ॥८१॥
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ॥
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि॥८२॥
विप्रपापेन्धदाहाय ज्वलदग्निशिखोपमे ॥
ब्रह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ॥ ८३ ॥
कायेन मनसा वाचा यत्पापं कुरुते द्विजः ॥
तत्ते स्मरणमात्रेण भस्मीभूतं भविष्यति॥८४॥
इत्युक्त्वा जगतां धाता तत्र तस्थौ च संसदि ॥
सावित्री ब्रह्मणा सार्द्धं ब्रह्मलोकं जगाम सा ॥८९ ॥
अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ॥
ददर्श तां च सावित्रीं वरं प्राप मनोगतम् ॥८६॥
स्तवराजमिदं पुण्यं त्रिसन्ध्यायां च यः पठेत् ॥
पाठे चतुर्णां वेदानां यत्फलं तल्लभेद् ध्रुवम् ॥ ८७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने सावित्रीस्तोत्रकथनं नाम त्रयोविंशतितमोध्यायः ॥ २३ ॥