नारद उवाच ॥
तुलसी च जगत्पूज्या पूता नारायणप्रिया ॥
तस्याः पूजाविधानं च स्तोत्रं किं न श्रुतं मया॥ ॥ १ ॥
केन पूज्या स्तुता केन पुरा प्रथमतो मुने ॥
तव पूज्या सा बभूव केन वा वद मामहो ॥ २ ॥
सूत उवाच ॥
नारदस्य वचः श्रुत्वा प्रहस्य गरुडध्वजः ॥
कथां कथितुमारेभे पुण्यरूपां पुरातनीम् ॥३॥
नारायण उवाच ॥
हरिः सम्प्राप्य तुलसीं रेमे च रमया सह ॥
रमासमां तां सौभाग्यां चकार गौरवेण च ॥ ४ ॥
सेहे लक्ष्मीश्च गङ्गा च तस्याश्च नवसङ्गमम् ॥
सौभाग्यं गौरवं कोपान्न सेहे च सरस्वती ॥५॥
सा तां जघान कलहे मानिनी हरिसन्निधौ ॥
व्रीडया स्वापमानाच्च साऽन्तर्द्धानं चकार ह॥६॥
सर्वसिद्धेश्वरी देवी ज्ञानिनी सिद्धयोगिनी ॥
बभूवादर्शनं कोपात्सर्वत्र च हरेरहो॥७॥
हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम्॥
तदनुज्ञां गृहीत्वा च जगाम तुलसीवनम्॥८॥
तत्र गत्वा च स्नात्वा च तुलस्या तुलसीं सतीम्॥
पूजयामास ध्यात्वा तां स्तोत्रं भक्त्या चकार ह॥९॥
लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम्॥
वृन्दावनीति ङेन्तं च वह्निजायान्तमेव च॥2.22.१०॥
श्रीं ह्रीं क्लीं ऐं वृन्दावन्यै स्वाहा ॥
अनेन कल्पतरुणा मन्त्रराजेन नारद ॥
पूजयेच्च विधानेन सर्वसिद्धिं लभेन्नरः ॥ ११ ॥
घृतदीपेन धूपेन सिन्दुरचन्दनेन च ॥
नैवेद्येन च पुष्पेण चोपहारेण नारद॥१२॥
हरिस्तोत्रेण तुष्टा सा चाविर्भूय महीरुहात्॥
प्रपन्ना चरणाम्भोजे जगाम शरणं शुभम्॥१३॥
वरं तस्यै ददौ विष्णुर्जगत्पूज्या भवेति च ॥
अहं त्वां च धरिष्यामि स्वमूर्ध्नि वक्षसीति च ॥ १४ ॥
सर्वे त्वां धारयिष्यन्ति स्वयं मूर्ध्नि सुरादयः ॥
इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः॥१५॥
नारद उवाच ॥
किं ध्यानं स्तवनं किं वा किं वा पूजाविधिक्रमम् ॥
तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि॥१६॥
नारायण उवाच॥
अन्तर्हितायां तस्यां च गत्वा च तुलसीवनम्॥
हरिः सम्पूज्य तुष्टाव तुलसीं विरहातुरः ॥ १७ ॥
श्रीभगवानुवाच ॥
वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ॥
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजा म्यहम्॥१८॥
पुरा बभूव या देवी ह्यादौ वृन्दावने वने ॥
तेन वृन्दावनी ख्याता तां सौभाग्यां भजाम्यहम्॥१९॥
असङ्ख्येषु च विश्वेषु पूजिता या निरन्तरम् ॥
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् ॥2.22.२०॥
असङ्ख्यानि च विश्वानि पवित्राणि यया सदा ॥
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥२१॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना ॥
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः॥२२॥
विश्वे यत्प्राप्तिमात्रेण भक्त्याऽऽनन्दो भवेद्ध्रुवम्॥
नन्दिनी तेन विख्याता सा प्रीता भविता हि मे॥२३॥
यस्या देव्या स्तुला नास्ति विश्वेषु निखिलेषु च ॥
तुलसी तेन विख्याता तां यामि शरणं प्रिये ॥ २४ ॥
कृष्णजीवनरूपा या शश्वत्प्रियतमा सती ॥
तेन कृष्णजीवनीति मम रक्षतु जीवनम् ॥ २५ ॥
इत्येवं स्तवनं कृत्वा तत्र तस्थौ रमापतिः ॥
ददर्श तुलसीं साक्षात्पाद पद्मे नतां सतीम् ॥ २६ ॥
रुदतीमभिमानेन मानिनीं मानपूजिताम् ॥
प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि ॥ २७ ॥
भारत्याज्ञां गृहीत्वा च स्वालयं च ययौ हरिः ॥
भारत्या सह तत्प्रीतिं कारयामास सत्वरम् ॥ २८ ॥
वरं विष्णुर्ददौ तस्यै विश्वपूज्या भवेति च ॥
शिरोधार्य्या च सर्वेषां वन्द्या मान्या ममेति च ॥ २९ ॥
विष्णोर्वरेण सा देवी परितुष्टा बभूव ह ॥
सरस्वती तामाश्लिष्य वासयामास सन्निधौ ॥ 2.22.३० ॥
लक्ष्मीर्गङ्गा सस्मिता तां समाश्लिष्य च नारद ॥
गृहं प्रवेशयामास विनयेन सतीं तदा॥३१॥
वृन्दां वृन्दावनीं विश्वपावनींविश्वपूजिताम् ॥
पुष्पसारां नन्दिनीं च तुलसीं कृष्णजीवनीम्॥३२॥
एतन्नामाष्टकं चैत त्स्तोत्रं नामार्थसंयुतम् ॥
यः पठेत्तां च सम्पूज्य सोऽश्वमेधफलं लभेत् ॥ ३३ ॥
कार्तिकीपूर्णिमायां च तुलस्या जन्म मङ्गलम् ॥
तत्र तस्याश्च पूजा च विहिता हरिणा पुरा ॥ ३४ ॥
तस्यां यः पूजयेत्तां च भक्त्या च विश्वपावनीम् ॥
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ३५ ॥
कार्त्तिके तुलसीपत्रं विष्णवे यो ददाति च ॥
गवामयुतदानस्य फलमाप्नोति निश्चितम् ॥३६॥
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् ॥
बन्धुहीनो लभेद्बन्धुं स्तोत्रस्मरणमात्रतः ॥ ३७ ॥
रोगी प्रमुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥
भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी ॥ ३८ ॥
इप्येवं कथितं स्तोत्रं ध्यानपूजाविधिं शृणु॥
त्वमेव वेद जानासि काण्वशाखोक्तमेव च ॥ ३९ ॥
यद्वक्ष्ये पूजयेत्तां च भक्त्या चावाहनं विना ॥
उपचारैः षोडशभिर्ध्यानं पातकनाशनम् ॥ 2.22.४० ॥
तुलसीं पुष्पसारां च सतीं पूज्यां मनोहराम् ॥
कृत्स्नपापेध्मदाहाय ज्वलदग्निशिखोपमाम् ॥४१॥
पुष्पेषु तुलनाप्यस्या नासीद्देवीषु वा मुने ॥
पवित्ररूपा सर्वासु तुलसी सा च कीर्त्तिता ॥ ४२ ॥
शिरोधार्य्या च सर्वेषामीप्सितां विश्वपावनीम् ॥
जीवन्मुक्तां मुक्तिदां च भज तां हरिभक्तिदाम्॥४३॥
इति ध्यात्वा च सम्पूज्य स्तुत्वा च प्रणमेद्बुधः ॥
उक्तं तुलस्युपाख्यानं किं भूयःश्रोतुमि च्छसि ॥ ४४ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्यानं नाम द्वाविंशतितमोऽध्यायः॥२२॥