०२१

नारद उवाच ॥
नारायणश्च भगवान्वीर्य्याधानं चकार ह ॥
तुलस्या केन रूपेण तन्मे व्याख्यातुमर्हसि ॥१॥
नारायण उवाच ॥
नारायणश्च भगवान्देवानां साधनेन च ॥
शङ्खचूडस्य रूपेण रेमे तद्रामया सह ॥२॥
शङ्खचूडस्य कवचं गृहीत्वा मायया हरिः ॥
पुनर्विधाय तद्रूपं जगाम तुलसीगृहम् ॥ ३ ॥
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ॥
जयशब्दरवद्वारा बोधयामास सुन्दरीम् ॥ ४ ॥
तच्छ्रुत्वा सा च साध्वी च परमानन्दसंयुता ॥
राजमार्गगवाक्षेण ददर्श परमादरात् ॥ ५ ॥
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ।६।
बन्दिभ्यो भिक्षुकेभ्यश्च वाचिकेभ्यो धनं ददौ ॥ ६ ॥
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ॥
अमूल्यरत्नसङ्क्लृप्तं सुन्दरं सुमनोहरम् ॥ ७ ॥
दृष्ट्वा च पुरतः कान्तं शान्तं कान्ता मुदाऽन्विता ॥
तत्पादं क्षालयामास ननाम च रुरोद च ॥ ८॥
रत्नसिंहा सने रम्ये वासयामास कामुकी ॥
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९ ॥
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ॥
रणागतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे॥2.21.१०॥
सस्मिता सकटाक्षं च सकामा पुलकाञ्चिता ॥
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ ११ ॥
तुलस्युवाच ॥
असङ्ख्यविश्वसंहर्त्रा सार्द्धमाजौ तव प्रभो ॥
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥१२॥
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ॥
शङ्खचूडस्य रूपेण तामुवाचानृतं वचः ॥ १३ ॥
श्रीहरिरुवाच ॥
आवयोः समरं कान्ते पूर्णमब्दं बभूव ह ॥
नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ १४ ॥
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ॥
देवानामधिकारश्च प्रदत्तो ब्रह्मणा पुरा ॥ १५ ॥
मयाऽऽगतं स्वभवनं शिवलोकं शिवो गतः ॥
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥१६॥
रेमे रमापतिस्तत्र रामया सह नारद ॥
सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ॥
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच ह ॥ १७ ॥
तुलस्युवाच ॥
को वा त्वं वद मायेशो भुक्ताऽहं मायया त्वया॥१८॥
दूरीकृतं मत्सतीत्वमथवा त्वां शपामहे ॥
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ॥ १९ ॥
दधार लीलया ब्रह्मन्स्वां मूर्तिं सुमनोहराम् ॥
ददर्श पुरतो देवी देवदेवं सनातनम् ॥
नवीननीरद श्यामं शरत्पङ्कजलोचनम् ॥ 2.21.२० ॥
कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ॥
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससा ॥ २१ ॥
तं दृष्ट्वा कामिनी कामान्मूर्छां सम्प्राप लीलया ॥
पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह ॥ २२ ॥
हे नाथ ते दया नास्ति पाषाण सदृशस्य च॥
छलेन धर्मभङ्गेन मम स्वामी त्वया हतः ॥ २३ ॥
पाषाणसदृशस्त्वं च दयाहीनो यतः प्रभो ॥
तस्मात्पाषाणरूप स्त्वं भुवि देव भवाधुना ॥ २४ ॥
ये वदन्ति दयासिन्धुं त्वां ते भ्रान्ता न संशयः ॥
भक्तो विनाऽपराधेन परार्थे च कथं हतः ॥२५॥
दुर्वृत्तस्त्वं च सर्वज्ञो न जानासि परव्यथाम् ॥
अतस्त्वमेकजनुषि स्वमेव विस्मरिष्यसि ॥ २६ ॥
इत्युक्त्वा च महासाध्वी निपत्य चरणे हरेः ॥
भृशं रुरोद शोकार्त्ता विललाप मुहुर्मुहुः ॥ २७ ॥
तस्याश्च करुणां दृष्ट्वा करुणामयसागरः ॥
नारायणस्तां बोधयितुमुवाच कमलापतिः ॥ २८ ॥
श्रीभगवानुवाच ॥
तपस्त्वया कृतं साध्वि मदर्थे भारते चिरम् ॥
त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ॥ २९ ॥
कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् ॥
अधुना दातुमुचितं तवैव तपसः फलम् ॥ 2.21.३० ॥
इदं शरीरं त्यक्त्वा च दिव्यं देहं विधाय च ॥
रासे मे रमया सार्द्धं त्वं रमासदृशी भव॥३१॥
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ॥
पूता सुपुण्यदा नृणां पुण्या भवतु भारते ॥ ३२ ॥
तव केशसमूहाश्च पुण्यवृक्षा भवन्त्विति ॥
तुलसीकेशसम्भूता तुलसीति च विश्रुता ॥ ३३ ॥
त्रिलोकेषु च पुष्पाणां पत्राणां देवपूजने ॥
प्रधानरूपा तुलसी भविष्यति वरानने ॥३४॥
स्वर्गे मर्त्ये च पाताले वैकुण्ठे मम सन्निधौ॥
भवन्तु तुलसीवृक्षा वराः पुष्पेषु सुन्दरि ॥ ३५ ॥
गोलोके विरजातीरे रासे वृन्दावने भुवि ॥
भाण्डीरे चम्पकवने रम्ये चन्दनकानने ॥ ३६ ॥
माधवीकेतकीकुन्दमल्लिकामालतीवने ॥
भवन्तु तरवस्तत्र पुष्पस्थानेषु पुण्यदा ॥ ३७ ॥
तुलसीतरुमूले च पुण्यदेशे सुपुण्यदे ॥
अधिष्ठानं तु तीर्थानां सर्वेषां च भविष्यति ॥ ३८ ॥
तत्रैव सर्वदेवानां समधिष्ठानमेव च ॥
तुलसीपत्रपतनं प्रायो यत्र वरानने॥ ३९ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥2.21.४०॥
सुधाघटसहस्रेण सा तुष्टिर्न भवेद्धरेः ॥
या च तुष्टिर्भवेन्नॄणां तुलसीपत्रदानतः ॥ ४१ ॥
गवामयुतदानेन यत्फलं लभते नरः ॥
तुलसीपत्रदानेन तत्फलं लभते सति ॥ ४२ ॥
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् ॥
स मुच्यते सर्वपापाद्विष्णुलोकं स गच्छति ॥ ४३ ॥
नित्यं यस्तुलसी तोयं भुङ्क्ते भक्त्या च यो नरः ॥
स एव जीवन्मुक्तश्च गङ्गास्नानफलं लभेत्॥४४॥
नित्यं यस्तुलसीं दत्त्वा पूजयेन्मां च मानवः॥
लक्षाश्वमेधजं पुण्यं लभते नात्र संशयः ॥ ४५ ॥
तुलसीं स्वकरे धृत्वा देहे धृत्वा च मानवः ॥
प्राणांस्त्यजति तीर्थेषु विष्णु लोकं स गच्छति ॥ ४६ ॥
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ॥
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ४७ ॥
तुलसीं स्वकरे धृत्वा स्वीकारं यो न रक्षति ॥
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ ४८ ॥
करोति मिथ्याशपथं तुलस्या यो हि मानवः ॥
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ॥ ४९ ॥
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ॥
रत्नयानं समारुह्य वैकुण्ठं स प्रयाति च॥2.21.५०।
पूर्णिमायाममायां च द्वादश्यां रविसङ्क्रमे ॥
तैलाभ्यङ्गे चास्नाते च मध्याह्ने निशि सन्ध्ययोः ॥ ५१ ॥
आशौचेऽशुचिकाले वा रात्रिवासान्विते नराः ॥
तुलसीं ये च छिन्दन्ति ते छिन्दन्ति हरेः शिरः ॥ ५२ ॥
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ॥
श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्चने ॥ ५३ ॥
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ॥
शुद्धं तु तुल सीपत्रं क्षालनादन्यकर्मणि ॥५४॥
वृक्षाधिष्ठात्री देवी या गोलोके च निरामये ॥
कृष्णेन सार्द्धं रहसि नित्यं क्रीडां करिष्यति।५५॥
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ॥
लवणोदस्य पत्नी च मदंशस्य भविष्यति ॥५६॥
त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ ॥
रमासमा च रासे च भविष्यसि न संशयः ॥ ५७ ॥
अहं च शैलरूपी च गण्डकीतीरसन्निधौ ॥
अधिष्ठानं करि ष्यामि भारते तव शापतः ॥ ५८ ॥
वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै ॥
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम॥५९॥
एकद्वारे चतुश्चक्रं वनमालाविभूषितम् ॥
नवीननीरदश्यामं लक्ष्मीनारायणाभिधम् ॥2.21.६०॥
एकद्वारे चतुश्चक्रं नवीननीरदोपमम्॥
लक्ष्मीजनार्दनं ज्ञेयं रहितं वनमालया ॥ ६१ ॥
द्वारद्वये चतुश्चक्रं गोष्पदेन समन्वितम् ॥
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥ ॥ ६२ ॥
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ॥
दधिवामनाभिधं ज्ञेयं गृहिणां च सुखप्रदम् ॥ ६३ ॥
अतिक्षुद्रं द्विचक्रं च वनमा लाविभूषितम् ॥
विज्ञेयं श्रीधरं देवं श्रीप्रदं गृहिणां सदा ॥ ६४ ॥
स्थूलं च वर्तुलाकारं रहितं वनमालया ॥
द्विचकं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ ६५ ॥
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ॥
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ ६६ ॥
मध्यमं सप्तचक्रं च छत्रतूणसमन्वितम् ॥
राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम् ॥ ६७ ॥
द्विसप्तचक्रं स्थूलं च नवीनजलदप्रभम् ॥
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ॥ ६८ ॥
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ॥
सगोष्पदं मध्यमं च विज्ञेयं मधुसूद नम्॥६९॥
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ॥
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्त्तितम्॥2.21.७०॥
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ॥
नरसिंहाभिधं ज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ ७१ ॥
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ॥
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां सुखदं सदा ॥ ७२ ॥
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ॥
वासुदेवं च विज्ञेयं सर्वकामफलप्रदम् ॥ ७३ ॥
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ॥
सुषिरे च्छिद्रबहुलं गृहिणां च सुखप्रदम् ॥ ७४ ॥
द्वे चक्रे चैकलग्ने च पृष्ठे यत्र तु पुष्कलम् ॥
सङ्कर्षणं तु विज्ञेयं सुखदं गृहिणां सदा ॥ ७५ ॥
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ॥
सुखप्रदं गृहस्थानां प्रवदन्ति मनी षिणः ॥ ७६ ॥
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ॥
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता॥७७॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
तानि सर्वाणि नश्यन्ति शालग्रामशिलार्च्चनात् ॥ ७८ ॥
छत्राकारं भवेद्राज्यं वर्तुले च महाश्रियः ॥
दुःखं च शकटाकारे शूलाग्रे मरणं धुवम् ॥ ७९ ॥
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च ॥
लग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं धुवम् ॥ 2.21.८० ॥
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् ॥
शालग्रामशिलायाश्चैवाधिष्ठानात्प्रशस्तकम् ॥ ८१ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥
शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ॥ ८२ ॥
सर्वदानेषु यत्पुण्यं प्रादक्षिण्ये भुवो यथा ॥
सर्वयज्ञेषु तीर्थेषु व्रतेष्वनशनेषु च ॥ ८३ ॥
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ॥
जीवन्मुक्तो महापूतो भवेदेव न संशयः ॥८४॥
पाठे चतुर्णां वेदानां तपसां करणे सति ॥
तत्पुण्यं लभते नृनं शालग्रामशिलार्चनात् ॥ ८५ ॥
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः ॥
सुरेप्सितं प्रसादं च जन्ममृत्युजराहरम् ॥८६॥
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखि लानि च ॥
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ ८७ ॥
तत्रैव हरिणा सार्द्धमसङ्ख्यं प्राकृतं लयम् ॥
पश्यत्येव हि दास्ये च निर्मुक्तो दास्यकर्मणि ॥ ८८ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
तं च दृष्ट्वा भिया यान्ति वैनतेयमिवो रगाः ॥ ८९ ॥
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ॥
पुंसां लक्षं तत्पितॄणां निस्तारस्तस्य जन्मनः ॥ 2.21.९० ॥
शालग्रामशिला तोयं मृत्युकाल च यो लभेत् ॥
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ९१ ॥
निर्वाणमुक्तिं लभते कर्मभोगाद्विमुच्यते ॥
विष्णुपादे प्रलीनश्च भविष्यति न संशयः ॥९२॥
शालग्रामशिलां धृत्वा मिथ्यावादं वदेत्तु यः॥
स याति कूर्मदंष्ट्रं च यावद्वै ब्रह्मणो वयः ॥ ९३ ॥
शालग्रामशिलां स्पृष्ट्वा स्वीकारं यो न पालयेत् ॥
स प्रयात्यसिपत्रं च लक्षमन्वन्तराधिकम् ॥ ९४ ॥
तुलसीपत्र विच्छेदं शालग्रामे करोति यः ॥
तस्य जन्मान्तरे काले स्त्रीविच्छेदो भविष्यति ॥ ९५ ॥
तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च ॥
भार्य्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ॥ ९६ ॥
शालग्रामं च तुलसीं शङ्खमेकत्र एव च ॥
यो रक्षति महाज्ञानी स भवे च्छ्रीहरिप्रियः ॥ ९७ ॥
सकृदेव हि यो यस्यां वीर्य्याधानं करोति यः ॥
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ॥ ९८ ॥
त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि ॥
शङ्खेन सार्द्ध त्वद्भेदः केवलं दुःखदस्तव ॥९९॥
इत्युक्त्वा श्रीहरिस्तां च विरराम च सादरम् ॥
स च देहं परित्यज्य दिव्यरूपं दधार ह ॥ 2.21.१०० ॥
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ॥
प्रजगाम तया सार्द्धं वैकुण्ठं कमला पतिः ॥ १०१ ॥
लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद ॥
हरेः प्रियाश्चतस्रश्च वभूवुरीश्वरस्य च ॥ १०२ ॥
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ॥
हरेरंशेन शैलश्च तत्तीरे पुण्यदो नृणाम् ॥ १०३ ॥
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ॥
जले पतन्ति या याश्च जलदाभाश्च निश्चितम् ॥ १०४ ॥
स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्धरेरिति ॥
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १०५ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारायणनारदसंवादे तुलस्युपाख्यानं एकविंशो ऽध्यायः ॥ २१ ॥