नारायण उवाच ॥
शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः ॥
ययौ स्वयं च समरं स्वगणैः सह नारद ॥ १ ॥
शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य च ॥
ननाम परया भक्त्या दण्डवत्पतितो भुवि ॥ २ ॥
तं प्रणम्य च वेगेन विमानं ह्यारुरोह सः ॥
तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम् ॥ ३ ॥
शिवदानवयोर्युद्धं पूर्णमब्दं बभूव ह ॥
न वै बभूवतुर्ब्रह्मंस्तयोर्जयपराजयौ ॥ ४ ॥
न्यस्तशस्त्रश्च भगवान्न्यस्तशस्त्रश्च दानवः ॥
रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः ॥ ५ ॥
दानवानां च शतकमुद्वृत्तं च बभूव ह ॥
रणे ये मृताः शम्भोर्जीवयामास तान्विभुः ॥ ६ ॥
ततो विष्णुर्महामायो वृद्धब्राह्मणरूपधृक् ॥
आगत्य च रणस्थानमवोचद्दानवेश्वरम्॥७॥
वृद्धब्राह्मण उवाच ॥
देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् ॥
त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम् ॥ ८ ॥
निराहाराय वृद्धाय तृषितायातुराय च ॥
पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति ॥९॥
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ॥
कवचार्थी जनश्चाहमित्युवाच स मायया ॥ 2.20.१० ॥
तच्छ्रुत्वा दानवश्रेष्ठो ददौ कवचमुत्तमम् ॥
गृहीत्वा कवचं दिव्यं जगाम हरिरेव च ॥ ११ ॥
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥
गत्वा तस्यां मायया च वीर्य्याधानं चकार ह ॥ १२ ॥
अथ शम्भुर्हरेः शूलं दानवार्थं समग्रहीत् ॥
ग्रीष्ममध्याह्नमार्त्तण्डशतकप्रभमुज्ज्वलम् ॥ १३ ॥
नारायणाधिष्ठिताग्रं ब्रह्माधिष्ठितमध्यमम् ॥
शिवाधिष्ठितमूलं च कालाधिष्ठितधारकम् ॥१४॥
किरणावलिसंयुक्तं प्रलयाग्निशिखोपमम् ॥
दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ॥ ॥ १५ ॥
तेजसा चक्रतुल्यं च सर्वशस्त्रविघातकम् ॥
शिवकेशवयोरन्यद् दुर्वहं च भयङ्करम् ॥ १६ ॥
धनुस्सहस्रं दैर्घ्येण विस्तृत्या शतहस्तकम् ॥
सजीवं ब्रह्मरूपं च नित्यरूपमनिर्मितम् ॥ १७ ॥
संहर्तुं सर्वविध्यण्डमेकदा दैवलीलया ॥
चिक्षेप घूर्णनं कृत्वा शङ्खचूडे च नारद ॥ १८ ॥
राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् ॥
ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥ ॥१९॥
शूलं च भ्रमणं कृत्वा न्यपतद्दानवोपरि ॥
चकार भस्मसात्तं च सरथं चैव लीलया ॥ 2.20.२० ॥
राजा धृत्वा दिव्यरूपं बालकं गोपवेषकम् ॥
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥२१॥
नानारत्नसुभूषाढ्यगोपकोटिभिरावृतम् ॥
गोलोकादागतं यानमारुह्य तत्पुरं ययौ॥२२॥
गत्वा ननाम शिरसा राधामाधवयोर्मुने ॥
भक्त्या तच्चरणाम्भोजं रासे वृन्दावने मुने॥
सुदामानं तौ च दृष्ट्वा प्रसन्न वदनेक्षणौ ॥ २३ ॥
तदा च चक्रतुः क्रोडे स्नेहेन परिसम्प्लुतौ ॥
अथ शूलश्च वेगेन प्रययौ शूलिनः करम् ॥ २४ ॥
शङ्करस्तेन शूलेन दानवस्यास्थिजालकम् ॥ २५ ॥
प्रेम्णा च प्रेरयामास लवणोदे च सागरे ॥
अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह ॥ ॥ २६ ॥
नानाप्रकाररूपा च श्रेष्ठा पूता सुरार्चने ॥
प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम् ॥ २७ ॥
तीर्थतोयस्वरूपं च पवित्रं शङ्करं विना ॥
शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा ॥ २८ ॥
स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा ॥
शङ्खं हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः ॥ २९ ॥
तत्रैव सततं लक्ष्मीर्दूरीभूतममङ्गलम् ॥
स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः ॥
भीता रुष्टा याति लक्ष्मीः स्थलमन्यं स्थलात्ततः ॥2.20.३०॥
शिवश्च दानवं हत्वा शिवलोकं जगाम सः॥
प्रहृष्टो वृषमारुह्य स्वगणैश्च समावृतः ॥ ३१ ॥
सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ॥
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ॥ ॥ ३२ ॥
बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् ॥
प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ॥ ३३ ॥
इति श्रीब्रह्मवैवर्त्ते महापु राणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने शङ्खचूडवधे शङ्खप्रस्तावो नाम विंशोऽध्यायः ॥ २० ॥