नारायण उवाच ॥
शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् ॥
समारुरोह यानं च स्वामात्यैः सह सत्वरः ॥ १ ॥
बभूवुस्ते च सङ्क्षुब्धाः स्कन्दशक्त्याऽर्दितास्तदा ॥
नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ॥ २ ॥
स्कन्दस्योपरि तत्रैव समरे च भयङ्करे ॥
स्कन्दस्य समरं दृष्ट्वा महदद्भुतमुल्बणम् ॥ ३ ॥
दानवानां क्षयकरं यथा प्राकृतिकं लयम् ॥
राजा विमानमारुह्य शरवर्षं चकार ह ॥ ४ ॥
नृपस्य शरवृष्टिश्च घनवृष्टिर्यथा तथा ॥
महान्घोरान्धकारश्च वह्न्युत्थानं बभूव ह ॥ ५ ॥
देवाः प्रदुद्रुवुश्चान्ये सर्वे नन्दीश्वरादयः ॥
एकाकी कार्त्तिकेयस्तु तस्थौ समरमूर्द्धनि ॥ ६ ॥
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ॥
शश्वच्चकार वृष्टिं च दुर्वाह्यां च भयङ्करीम् ॥ ७ ॥
नृपस्य शरवृष्ट्या च प्रच्छन्नः शिवनन्दनः ।
नीरदेन च सान्द्रेण सञ्च्छन्नो भास्करो यथा ॥८॥
धनुस्स्कन्दस्य चिच्छेद दुर्वहं च भयङ्करम् ॥
बभञ्ज च रथं दिव्यं चिच्छेद रथघोटकान् ॥ ९ ॥
मयूरं जर्ज्जरीभूतं दिव्यास्त्रेण चकार सः ॥
शक्तिं चिक्षेप सूर्य्याभां तस्य वक्षोविभेदिनीम् ॥ 2.19.१० ॥
क्षणं मूर्छां च सम्प्राप्य चेतनामुपलभ्य सः ॥
गृहीत्वाऽन्यद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥ ११ ॥
रत्नेन्द्रसारखचितं यानमारुह्य चाग्निभूः ॥
शस्त्रमस्त्रं गृहीत्वा च चकार रणमुल्बणम् ॥ १२ ॥
सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ॥
सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ १३ ॥
आग्नेयं वारुणास्त्रेण वारयामास वै गुहः ॥
रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ १४ ॥
सवाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् ॥
चिक्षेप शक्तिमुल्काभां दानवेन्द्रस्य वक्षसि ॥ १५ ॥
मूर्च्छां सम्प्राप्य राजोपलभ्य वै चेतनां पुनः ॥
आरुह्य वै यानमन्यं धनुर्जग्राह सत्वरः ॥ १६ ॥
चकार शरजालं च मायया मायिनां वरः ॥
गुहं चाच्छाद्य समरे शरजालेन नारद ॥ १७ ॥
जग्राह शक्तिमव्यर्थां शतसूर्य्यसमप्रभाम् ॥
प्रलयाग्निशिखारूपां विष्णोर्वै तेजसा वृताम् ॥ १८ ॥
चिक्षेप तां च कोपेन महावेगेन कार्त्तिके ॥
पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला ॥ १९ ॥
मूर्च्छां सम्प्राप शक्त्या च कार्त्तिकेयो महाबलः ॥
काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ॥ 2.19.२० ॥
शिवस्तं दर्शनादेव जीवयामास लीलया ॥
ददौ बलमनन्तं च स चोत्तस्थौ प्रतापवान् ॥ २१ ॥
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरः॥
दानवेन्द्रैः ससैन्यैश्च युद्धारम्भो बभूव ह ॥ २२ ॥
स्वयं महेन्द्रो युयुधे सार्द्धं च वृषपर्वणा ॥
भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ २३ ॥
दम्भेन सह चन्द्रश्च चकार समरं परम् ॥
कालेश्वरेण कालश्च गोकर्णेन हुताशनः ॥ २४ ॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ॥
भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ २९ ॥
कलविङ्केन वरुणश्चञ्चलेन समीरणः ॥
बुधश्च धृतपुष्टेन रक्ताक्षेण शनैश्चरः ॥ २६ ॥
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ॥
अश्विनौ वै दीप्तिमता धूम्रेण नलकूबरः ॥ २७ ॥
धनुर्द्धरेण धर्मश्च मण्डूकाक्षेण मङ्गलः ॥
शोभाकरेणैवेशानः पिठरेण च मन्मथः ॥२८॥
उल्कामुखेन धूम्रेण खङ्गेनापि ध्वजेन च ॥
काञ्चीमुखेन पिण्डेन धूम्रेण सह नन्दिना ॥ २९ ॥
विश्वेन च पलाशेन चादित्या युयुधुः परम् ॥
एकादश महारुद्राश्चैकादश भयङ्करैः ॥ 2.19.३० ॥
महामारी च युयुधे चोग्रदण्डादिभिः सह ॥
नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ३१ ॥
युयुधुश्च महद्युद्धे प्रलये च भयङ्करे ॥
वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ॥ ३२ ॥
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ॥
रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥ ३३ ॥
उवास शङ्खचूडश्च रत्नभूषणभूषितः ॥
शङ्करस्य च योधाश्च युद्धे सर्वे पराजिताः ॥ ३४ ॥
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविक्षताः ॥
चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ ३९ ॥
बलं च स्वगणानां वै वर्द्धयामास तेजसा॥
स्वयमेकश्च युयुधे दानवानां गणैः सह ॥ ३६ ॥
अक्षौहिणीनां शतकं समरे स जघान ह ॥
खर्परं पातयामास काली कमललोचना ॥ ३७ ॥
पपौ रक्तं दानवानां क्रुद्धा सा शतखर्परम् ॥
दशलक्षं गजेन्द्राणां शतलक्षं च वाजिनाम् ॥ ३८ ॥
समादायैकहस्तेन मुखे चिक्षेप लीलया ॥
कबन्धानां सहस्रं च ननर्त्त समरे मुने ॥ ३९ ॥
स्कन्दस्य शरजालेन दानवाः क्षतविक्षताः ॥
भीताश्च दुद्रुवुः सर्वे महाबलपराक्रमाः ॥ 2.19.४० ॥
वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कनः ॥
स्कन्देन सार्द्धं युयुधुस्ते च सर्वे क्रमेण च॥४१॥
काली जगाम समरमरक्षत्कार्त्तिकं शिवः ॥
वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ ४२ ॥
सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः ॥
राज्यभाण्डाश्च बहुशः शतकोटिर्बलाहकाः ॥ ४३ ॥
सा च गत्वा च सङ्ग्रामं सिंहनादं चकार ह ॥
देव्या वै सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ॥ ४४ ॥
अट्टाट्टहासमशिवं चकार च पुनः पुनः ॥
हृष्टा पपौ च माध्वीकं ननर्त्त रणमूर्द्धनि ॥ ४५ ॥
उग्रदंष्ट्रा चोग्रचण्डा कौट्टरी च पपौ मधु ॥
योगिनीनां डाकिनीनां गणाः सुरगणादयः ॥ ४६ ॥
दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजिं समाययौ ॥
दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥ ४७ ॥
काली चिक्षेप चाग्नेयं प्रलयाग्निशिखोपमम् ॥
राजा निर्वापयामास वारुणेन स लीलया ॥ ४८ ॥
चिक्षेप वारुणं सा च तत्तीव्रं महदद्भुतम् ॥
गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ॥ ४९ ॥
माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् ॥
राजा जघान तच्छीघ्रं वैष्णवेन च लीलया ॥ 2.19.५० ॥
नारायणास्त्रं सा देवी चिक्षिपे मन्त्रपूर्वकम् ॥
राजा ननाम तं दृष्ट्वा चावरुह्य रथादहो ॥५१॥
ऊर्ध्वं जगाम तच्छस्त्रं प्रलयाग्निशिखोपमम् ॥
पपात शङ्खचूडश्च भक्त्या वै दण्डवद्भुवि ॥
ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् ॥ ५२ ॥
ब्रह्मास्त्रेण महाराज निर्वाणं च चकार ह ॥
चिक्षेपातीव दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् ॥ ५३ ॥
राजा दिव्यास्त्रजालेन निर्वाणं च चकार ह ॥
देवी चिक्षेप शक्तिं च यत्नतो योजनायताम् ॥ ५४ ॥
राजा तीक्ष्णास्त्रजालेन शतखण्डं चकार ह ॥
जग्राह मन्त्रपूर्वं च देवी पाशुपतं रुषा ॥ ५५ ॥
निक्षेप्तुं सा निषिद्धा च वाग्बभूवाशरीरिणी ॥
मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः ॥ ५६ ॥
यावदस्त्येव कण्ठेऽस्य कवचं हि हरेरिति ॥
यावत्सतीत्वमस्तीह सत्याश्च नृपयोषितः ॥ ५७ ॥
तावदस्य जरा मृत्युर्नास्तीति ब्रह्मणो वरः ॥
इत्याकर्ण्य महाकाली न तच्चिक्षेप सा सती॥५८॥
शतलक्षं दानवानामग्रहील्लीलया क्रुधा॥
अत्तुं जगाम वेगेन शङ्खचूडं भयङ्करी॥॥॥
दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ॥
खङ्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं परम् ॥2.19.६०॥
दिव्यास्त्रैर्दानवेन्द्रोऽयं शतखण्डं चकार सः ॥
पुनरत्तुं महादेवी वेगेन च जगाम तम् ॥ ६१ ॥
सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ॥
निवारयामास च तां सर्वसिद्धेश्वरो वरः ॥
वेगेन मुष्टिना काली कोपयुक्ता भयङ्करी ॥६२॥
बभञ्जाथ रथं तस्य चाहनत्सारथिं सती ॥
सा च शूलं च चिक्षेप प्रलयाग्निशिखोपमम् ॥ ६३ ॥
वामहस्तेन जग्राह शङ्खचूडश्च लीलया ॥
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ॥ ६४ ॥
बभ्राम व्यथया दैत्यः क्षणं मूर्च्छामवाप ह ॥
क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् ॥ ६९ ॥
न चक्रे बाहुयुद्धं स देव्या सह ननाम ताम् ॥
देव्याश्चास्त्रं च चिच्छेद चाग्रहीत्स्वेन तेजसा ॥ ६६ ॥
नास्त्रं चिक्षेप तां भक्त्या मातृबुद्ध्या च वैष्णवः ॥ ६७ ॥
गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः ॥
ऊर्ध्वं च प्रेरयामास महावेगेन कोपतः ॥ ६८ ॥
ऊर्ध्वात्पपात वेगेन शङ्खचूडः प्रतापवान् ॥
निपत्य च समुत्तस्थौ स नत्वा भद्रकालिकाम् ॥६९॥
रत्नेन्द्रसारखचितं विमानाग्र्यं मनोहरम् ॥
आरुरोह रथं हृष्टो न विश्रान्तो महारणे ॥ । ॥ 2.19.७० ॥
क्षतजं दानवानां च मांसं च विपुलं क्षुधा ॥
पीत्वा भुक्त्वा भद्रकाली ययौ सा शङ्करान्तिकम् ॥ ७१ ॥
उवाच रणवृत्तान्तं पौर्वापर्य्यं यथाक्रमम् ॥
श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम् ॥७२॥
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ॥
उद्वृत्तं भूभृता सार्द्धं तदन्यं भुक्तमीश्वर ॥७३॥
सङ्ग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै ॥
अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ॥ ॥ ७४ ॥
राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः ॥
न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ॥ ७५ ॥
इति श्री ब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने कालीशङ्खचूडयुद्ध एकोनविंशोऽध्यायः ॥ १९ ॥