०१८

नारायण उवाच ॥
श्रीकृष्णं मनसा ध्यात्वा राजा कृष्णपरायणः ॥
ब्राह्मे मुहूर्त्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥१॥
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा ॥
धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ॥२॥
चकाराह्निकमावश्यमभीष्टगुरुवन्दनम् ॥
दध्याज्यं मधु लाजांश्च सोऽपश्यद्वस्तु मङ्गलम् ॥ ३ ॥
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ॥
ब्राह्मणेभ्यो ददौ भक्त्या यथानित्यं च नारद ॥ ४ ॥
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् ॥
ददौ विप्राय गुरवे यात्रामङ्गलहेतवे ॥ ५ ॥
गजरत्नं चाश्वरत्नं धेनुरत्नं मनोहरम् ॥
ददौ सर्वं दरिद्राय विप्रार्थं मङ्गलाय च ॥ ६ ॥
कोशागारसहस्रं च नगराणां त्रिलक्षकम् ॥
ग्रामाणां शतकोटिं च ब्राह्मणेभ्यो ददौ मुदा ॥ ७ ॥
पुत्रं कृत्वा च राजेन्द्रं सुचन्द्रं दानवेषु च ॥
पुत्रे समर्प्य भार्यां च राज्यं वै सर्वसम्पदम् ॥ ८ ॥
प्रजानुचरसङ्घं च कोशौघं वाहनादिकम् ॥
स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ॥ ९ ॥
भृत्यद्वारा क्रमेणैव स चक्रे सैन्यसञ्चयम् ॥
अश्वानां च त्रिलक्षेण पञ्चलक्षेण हस्तिनाम् ॥ ॥ 2.18.१० ॥
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ॥
त्रिकोटिभिश्चर्मिणां च शूलिनां च त्रिकोटिभिः ॥ ११ ॥
कृता सेनाऽपरिमिता दानवेन्द्रेण नारद ॥
यस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ १२ ॥
महारथः स विज्ञेयो रथिनां प्रवरो रणे ॥
त्रिलक्षाक्षौहिणी सेनापतिं कृत्वा नराधिपः॥१३॥
त्रिंशदक्षौहिणीवाद्यभाण्डौघं च चकार सः ॥
बहिर्बभूव शिबिरान्मनसा श्रीहरिं स्मरन्॥१४॥
रत्नेन्द्रसारखचितं विमानं ह्यारुरोह सः ॥
गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम् ॥ १५ ॥
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ॥
सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नामतः ॥१६॥
कपिलस्य तपस्थानं पुण्यक्षेत्रं च भारते ॥
पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे॥१७॥
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ॥
पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥
शाश्वती जलपूर्णा च पुष्पभद्रानदी शुभा ॥ १८ ॥
लवणोदप्रिया भार्य्या शश्वत्सौभाग्यसंयुता ॥
शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा ॥१९॥
शरावतीमिश्रिता च निर्गता सा हिमालयात्॥
गोमन्तं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ॥2.18.२०॥
तत्र गत्वा शङ्खचूडो लुलोके चन्द्रशेखरम् ॥
वटमूले समासीनं सूर्य्यकोटिसमप्रभम् ॥ २१ ॥
कृत्वा योगासने स्थित्वा मुद्रायुक्तं च सस्मितम् ॥
शुद्धस्फटिक सङ्काशं ज्वलन्तं ब्रह्मतेजसा ॥ २२ ॥
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ॥
तप्तकाञ्चनवर्णाभं जटाजालं च बिभ्रतम् ॥ २३ ॥
त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतिनम् ॥
मृत्युञ्जयं कालमृत्युं विश्वमृत्युकरं परम् ॥ २४ ॥
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोरमम् ॥
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ २५ ॥
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥
विश्वनाथं विश्वरूपं विश्वबीजं च विश्वजम् ॥ २६ ॥
विश्वम्भरं विश्ववरं विश्वसंहारकारणम् ॥
कारणं कारणानां च नरकार्णवतारणम् ॥ २७ ॥
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ॥
अवरुह्य विमानाच्च स दृष्ट्वा दानवेश्वरः ॥ २८ ॥
सर्वैः सार्द्धं भक्तियुक्तः शिरसा प्रणनाम सः ॥
वामतो भद्रकालीं च स्कन्दं तत्पुरतः स्थितम् ॥ २९ ॥
आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः ॥
उत्तस्थुर्दानवं दृष्ट्वा सर्वे नन्दीश्वरादयः ॥2.18.३०॥
परस्परं च सम्भाषां ते चकुस्तत्र साम्प्रतम्॥
राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ॥३१॥
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ॥ ३२ ॥
श्रीमहादेव उवाच ॥
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥
मरीचिस्तस्य पुत्रश्च वैष्णवश्चापि धार्मिकः ॥ ३३ ॥
कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ॥
दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश ॥ ३४ ॥
तास्वेका च दनुः साध्वी तत्सौभाग्येन वर्द्धिता ॥
चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोज्ज्वलाः ॥ ३५ ॥
तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ॥
तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ॥ ३६ ॥
जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ॥
शुकाचार्य्यं गुरुं कृत्वा कृष्णस्य परमात्मनः ॥ ३७ ॥
तदा त्वां तनयं प्राप परं कृष्णपरायणम् ॥
पुरा त्वं पार्षदो गोपो गोपेष्वष्टसु धार्मिकः ॥ ३८ ॥
अधुना राधिकाशापाद्भारते दानवेश्वरः ॥
आब्रह्मस्तम्बपर्यन्तं भ्रमं मेने च वैष्णवः ॥ ३९ ॥
सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि ॥
दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना॥2.18.४०॥
ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ॥
इन्द्रत्वं वा कुबेरत्वं न मेने गणनासु च ॥ ४१ ॥
कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे ॥
देहि राज्यं च देवानां मत्प्रीतिं कुरु भूमिप ॥ ४२ ॥
सुखं स्वराज्ये त्वं तिष्ठ देवास्सन्तु स्वके पदे ॥
अलं भ्रातृविरोधेन सर्वे कश्यपवंशजाः ॥ ४३ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
ज्ञातिद्रोहस्य पापस्य कलां नार्हन्ति षोडशीम् ॥ ४४ ॥
स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे ॥
सर्वावस्थासु समता केषां याति च सर्वदा॥४५॥
ब्रह्मणश्च तिरोभावो लये प्राकृतिके सति ॥
आविर्भावः पुनस्तस्य प्रभवेदीश्वरेच्छया॥ ॥ ४६ ॥
ज्ञानं बुद्धिश्च तपसा स्मृतिर्लोकस्य निश्चितम् ॥
करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च ॥४७॥
परिपूर्णतमो धर्मः सत्ये सत्याश्रयः सदा ॥
सोऽपि त्रिभागस्त्रेतायां द्विभागो द्वापरे स्मृतः ॥ ४८ ॥
एकभागः कलेः पूर्वे तद्ध्रासश्च क्रमेण च ॥
कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा ॥ ४९ ॥
यादृक्तेजो रवेर्ग्रीष्मे न तादृक्शिशिरे पुनः ॥
दिने च यादृङ् मध्याह्ने सायम्प्रातर्न तत्समम् ॥ 2.18.५० ॥
उदयं याति कालेन बाल्यतां च क्रमेण च ॥
प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेव सः ॥ ५१ ॥
दिने प्रच्छन्नतां याति काले वै दुर्दिने घने ॥
राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् ॥ ५२ ॥
परिपूर्णतमश्चन्द्रः पूर्णिमायां च यादृशः॥ ।
तादृशो न भवेन्नित्यं क्षयं याति दिनेदिने ॥५३॥
पुनः स पुष्टतां याति परकुह्वा दिनेदिने ॥
सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा ॥ ५४ ॥
राहुग्रस्ते दिने म्लानो दुर्दिने निबिडे घने ॥
काले चन्द्रो भवेच्छुद्धो भ्रष्टश्रीः कालभेदके ॥ ५५ ॥
भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ॥
कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा ॥ ५६ ॥
काले जले निमग्ना सा तिरोभूता विपद्गता ॥
काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः ॥ ९७ ॥
चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ॥
ईश्वरस्यैव समता कृष्णस्य परमात्मनः ॥ ५८ ॥
अहं मृत्युञ्जयो यस्मादसङ्ख्यं प्राकृतं लयम् ॥
अदृश्यं चापि पश्यामि वारं वारं पुनः पुनः ॥ ॥ ५९ ॥
स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ॥
स चात्मा सर्वजीवश्च नानारूपधरः परः ॥ 2.18.६० ॥
करोति सततं यो हि तन्नामगुणकीर्त्तनम् ॥
कालं मृत्युं स जयति जन्म रोगं जरां भयम् ॥ ६१ ॥
स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवे ॥
अहं कृतश्च संहर्त्ता वयं विषयिणो यतः ॥६२॥
कालाग्निरुद्रं संहारे नियुज्य विषये नृप ॥
अहं करोमि सततं तन्नामगुणकीर्त्तनम् ॥ ॥ ६३ ॥
तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः ॥
मृत्युर्मत्तो भयाद्याति वैनतेयादिवोरगः ॥ ६४ ॥
इत्युक्त्वा स च सर्वेशः सर्वज्ञः सर्वभावनः ॥
विररामाथ शर्वश्च सभामध्ये च नारद ॥ ६९ ॥
राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ॥
उवाच सुन्दरं देवं परं विनयपूर्वकम् ॥ ६६ ॥
शङ्खचूड उवाच ॥
त्वया यत्कथितं नाथ सर्वं सत्यं च नानृतम् ॥
तथाऽपि किञ्चिद्यत्सत्यं श्रूयतां मन्निवेदनम् ॥ ६७ ॥
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना त्रयम् ॥
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ॥ ६८ ॥
मया समुद्धृतं सर्वमैश्वर्य्यं विक्रमेण च ॥
सुतलाच्च समुद्धर्तुं नालं सोऽपि गदाधरः ॥६९ ॥
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥
शुम्भादयश्चासुरा वै कथं देवैर्निपातिताः ॥ 2.18.७० ॥
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥
क्लेशभाजो वयं तत्र तैः सर्वफलभाजनैः॥ ॥ ७१ ॥
क्रीडाभाण्डमिदं विश्वं कृष्णस्य परमात्मनः ॥
यदा ददाति यस्मै स तस्यैश्वर्यं भवेत्तदा ॥ ७२ ॥
देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ॥
पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च ॥ ७३ ॥
तत्रावयोर्विरोधे च गमनं निष्फलं तव ॥
सम सम्बन्धिनोर्बन्ध्वोरीश्वरस्य महात्मनः ॥ ७४ ॥
जायते महती लज्जा स्पर्द्धाऽस्माभिः सहाधुना ॥
ततोऽधिका च समरे कीर्त्ति हानिः पराजये ॥ ७५ ॥
शङ्खचूडवचः श्रुत्वा प्रहस्याह त्रिलोचनः ॥
यथोचितं सुमधुरमत्युग्रं दानवेश्वरम् ॥ ७६ ॥
श्रीमहादेव उवाच ॥
युष्माभिः सह युद्धं मे ब्रह्मवंशसमुद्भवैः ॥
का लज्जा महती राजन्नकीर्तिर्वा पराजये ॥ ७७ ॥
युद्धमादौ हरेरेव मधुना कैटभेन च ॥
हिरण्यकशिपोश्चैव सह तेनात्मना नृप ॥ ७८ ॥
हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ॥
त्रिपुरैः सह युद्धं च मया चापि पुरा कृतम् ॥ ७९ ॥
सर्वेश्वर्य्याः सर्वमातुः प्रकृत्याश्च बभूव ह ॥
सह शुम्भादिभिः पूर्वं समरं परमाद्भुतम् ॥ 2.18.८० ॥
पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ॥
ये ये हताश्च ते दैत्या नहि केऽपि त्वया समाः॥ ८१ ॥
का लज्जा महती राजन्मम युद्धे त्वया सह ॥
सुराणां शरणस्यैव प्रेषितस्य हरेरहो ॥ ८२ ॥
देहि राज्यं च देवानां वाग्व्यये किं प्रयोजनम् ॥
युद्धं मा कुरु मत्सार्द्धमिति मे निश्चितं वचः ॥ ८३ ॥
इत्युक्त्वा शङ्करस्तत्र विरराम च नारद ॥
उत्तस्थौ शङ्खचूडश्च स्वामान्यैः सह सत्वरः ॥ ८४ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे तुलत्युपाख्याने शिव शङ्खचूडसंवादेऽष्टादशोऽध्यायः ॥ १८ ॥