नारायण उवाच ॥
ब्रह्मा शिवं सन्नियोज्य संहारे दानवस्य च ॥
जगाम स्वालयं तूर्णं यथास्थानं महामुने ॥ १ ॥
चन्द्रभागानदीतीरे वटमूले मनोहरे ॥
तत्र तस्थौ महादेवो देवनिस्तारहेतवे ॥ २ ॥
दूतं कृत्वा पुष्पदन्तं गन्धर्वेश्वरमीप्सितम् ॥
शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा ॥ ३ ॥
स चेश्वराज्ञया शीघ्रं ययौ तन्नगरं वरम् ॥
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ४ ॥
पञ्चयोजनविस्तीर्णं दैर्घ्ये तद्द्विगुणं मुने ॥
स्फाटिकाकारमणिभिस्समन्तात्परिवेष्टितम् ॥
सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ॥ ५ ॥
ज्वलदग्निनिभैर्नित्यं शोभितं रत्नकोटिभिः ॥
युक्तं च वीथिशतकैर्मणिवेदिसमन्वितैः ॥ ६ ॥
परितो वणिजां सङ्घैर्नानावस्तुविराजितैः ॥
सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ॥ ७ ॥
भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ॥
गत्वा ददर्श तन्मध्ये शङ्खचूडालयं वरम् ॥ ८ ॥
अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ॥
ज्वलदग्निशिखाभिश्च परिखाभिश्चतसृभिः॥९॥
सुदुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ॥
अत्युच्चैर्गगनस्पर्श्यमणिप्राचीरवेष्टितम्॥2.17.१०॥
राजितं द्वादशद्वारैर्द्वारपालसमन्वितैः ॥
रत्नकृत्रिमपद्माढ्यै रत्नदर्पणभूषितैः ॥११ ॥
मणीन्द्रसारखचितैः शोभितं लक्षमन्दिरैः॥
शोभितं रत्नसोपानै रत्नस्तम्भविराजितैः ॥१२॥
रत्नचित्रकपाटाद्यैः सद्रत्नकलशान्वितैः॥
रत्नेन्द्रचित्रराजीभिः सुदीप्ताभिर्विराजितैः॥१३॥
परितो रक्षितं शश्वद्दानवैः शतकोटिभिः॥
दिव्यास्त्रधारिभिः शूरैर्महाबलपराक्रमैः॥१४॥
सुन्दरैश्च सुवेषैश्च नानालङ्कारभूषितैः ॥
तान्दृष्ट्वा पुष्पदन्तोऽपि वरद्वारं ददर्श सः ॥ १५ ॥
द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ॥
तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् ॥ १६ ॥
कथयामास वृत्तान्तं जगाम तदनुज्ञया ॥
अतिक्रम्य नवद्वारं जगामाभ्यन्तरं पुरम् ॥ १७ ॥
न कैश्चिद्वारितो दूतो दूतरूपेण तस्य च ॥
गत्वा सोऽभ्यन्तरं द्वारं द्वारपालमुवाच ह ॥ १८ ॥
रणस्य सर्ववृत्तान्तं विज्ञापयितुमीश्वरम् ॥
स च तं कथयित्वा च दूतं गन्तुमुवाच ह ॥ १९ ॥
स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम् ॥
रासमण्डलमध्यस्थं स्वर्णसिंहासनस्थितम् ॥ 2.17.२० ॥
मणीन्द्रखचितं चित्रं रत्नदण्डसमन्वितम् ॥
रत्नकृत्रिमपुष्पैश्च प्रशस्तं शोभितं सदा ॥ २१ ॥
भृत्येन हस्तविधृतं स्वर्णच्छत्रं मनोहरम् ॥
सेवितं पार्षदगणैर्व्यजनैः श्वेतचामरैः ॥ २२ ॥
सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम् ॥
माल्यानुलेपनं सूक्ष्मवस्त्रं च दधतं मुने ॥ २३ ॥
दानवेन्द्रैः परिवृतं सुवेषं च त्रिकोटिभिः ॥
शतकोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रधारिभिः ॥ २४ ॥
एवम्भूतं च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ॥
उवाच रणवृत्तान्तं यदुक्तं शङ्करेण च ॥ २५ ॥
पुष्पदन्त उवाच ॥
राजेन्द्र शिवदूतोऽहं पुष्पदन्ताभिधः प्रभो ॥
यदुक्तं शङ्करेणैव तद्ब्रवीमि निशामय ॥ २६ ॥
राज्यं देहि च देवानामधिकारं च साम्प्रतम् ॥
देवाश्च शरणापन्ना देवेशे श्रीहरौ परे ॥ २७ ॥
दत्त्वा त्रिशूलं हरिणा तुभ्यं प्रस्थापितः शिवः ॥
चन्द्रभागानदीतीरे वटमूले त्रिलोचनः ॥२८॥
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ॥
गत्वा वक्ष्यामि किं शम्भुं तद्भवान्वक्तुमर्हति ॥ २९ ॥
दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ॥
प्रभाते ह्यागमिष्यामि त्वं च गच्छेत्युवाच ह ॥ 2.17.३० ॥
स गत्वोवाच तूर्णं तं वटमूलस्थमीश्वरम् ॥
शङ्खचूडस्य वचनं तदीयं यत्परिच्छदम् ॥३१॥
एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ॥
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ॥ ३२ ॥
विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः॥३३॥
कपिलाक्षो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ॥
कालङ्कटो बलीभद्रः कालजिह्वः कुटीचरः ॥३४॥
बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ॥
अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः ॥ ३९ ॥
वसवो वासवाद्याश्च आदित्या द्वादश स्मृताः ॥
हुताशनश्च चन्द्रश्च विश्वकर्माऽश्विनौ च तौ ॥३६॥
कुबेरश्च यमश्चैव जयन्तो नलकूबरः ॥
वायुश्च वरुणश्चैव बुधो वै मङ्गलस्तथा ॥ ॥ ३७ ॥
धर्मश्च शनिरीशानः कामदेवश्च वीर्य्यवान् ॥
उग्रदंष्ट्रा चोग्रचण्डा कोट्टरी कैटभी तथा ॥ ३८ ॥
स्वयं शतभुजा देवी भद्रकाली भयङ्करी ॥
रत्नेन्द्रराजखचितविमानोपरि संस्थिता ॥ ३९ ॥
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ॥2.17.४०॥
अभयं ददती भक्तमभया सा भयं रिपुम् ॥
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ॥ ॥ ४१ ॥
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ॥
त्रिशूलं गगनस्पर्शिं शक्तिं वै योजनायताम् ॥ ४२ ॥
शङ्खं चक्रं गदां पद्मं शरांश्चापं भयङ्करम् ॥
मुद्गरं मुशलं वज्रं खड्गं फलकमुज्ज्वलम् ॥ ४३ ॥
वैष्णवास्त्रं वारुणास्त्रमाग्नेयं नागपाशकम् ॥
नारायणास्त्रं ब्रह्मास्त्रं गान्धर्वं गारुडं तथा ॥ ४४ ॥
पार्जन्यं वै पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥
माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा ॥
नानाविधान्यायुधानि दिव्यास्त्रशतकं परम् ॥४५॥
आगत्य तत्र तस्थौ सा योगिनीनां त्रिकोटिभिः ॥
सार्द्धं वै डाकिनीनां च विकटानां त्रिकोटिभिः ॥ ४६ ॥
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः ॥
वेतालाश्चैव यक्षाश्च राक्षसाश्चैव किन्नराः ॥ ४७ ॥
ताभिश्चैव सह स्कन्दो नत्वा वै चन्द्रशेखरम् ॥
पितुः पार्श्वे सभायां च समुवास भवाज्ञया ॥ ४८ ॥
अथ दूते गते तत्र शङ्खचूडः प्रतापवान्॥
उवाच तुलसीं वार्त्तां गत्वाऽभ्यन्तरमेव च ॥४९॥
रणवार्त्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका ॥
उवाच मधुरं साध्वी हृदयेन विदूयता ॥2.17.५०॥
तुलस्युवाच ॥
हे प्राणनाथ हे बन्धो तिष्ठ मे वक्षसि क्षणम् ॥
हे प्राणाधिष्ठातृदेव रक्ष मे जीवनं क्षणम् ॥९१॥
भुङ्क्ष्व जन्मसु भोग्यं तद्यद्वै मनसि वाञ्छितम् ॥
पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां पिपासिता ॥ ५२ ॥
आन्दोलयन्ति प्राणा मे मनो दग्धं च सन्ततम् ॥
दुस्स्वप्नं च मया दृष्टं चाद्यैव चरमे निशि ॥ ५३ ॥
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वरः ॥
उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ॥५४॥
शङ्खचूड उवाच ॥
कालेन योजितं सर्वं कर्म भोगनिबन्धने ॥
शुभं हर्षं सुखं दुःखं भयं शोकममङ्गलम् ॥५५॥
काले भवन्ति वृक्षाश्च शाखावन्तश्च कालतः ॥
क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ॥५६॥
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः ॥
ते सर्वे फलिनः काले काले कालं प्रयान्ति च॥५७॥
भवन्ति काले भूतानि काले कालं प्रयान्ति च॥
काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि॥५८॥
स्रष्टा च काले सृजति पाता पाति च कालतः॥
संहर्त्ता संहरेत्काले सञ्चरन्ति क्रमेण ते ॥५९॥
ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः॥
स्रष्टा पाता च संहर्त्ता स कृत्स्नांशेन सर्वदा।2.17.६०॥
काले स एव प्रकृतिं निर्माय स्वेच्छया प्रभुः॥
निर्माय प्राकृतान्सर्वान्विश्वस्थांश्च चराचरान्॥६१॥
आब्रह्मस्तम्बपर्य्यन्तं सर्वं कृत्रिममेव च॥
प्रवदन्ति च कालेन नश्यत्यपि हि नश्वरम्॥६२॥
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम् ॥
सर्वेशं सर्वरूपं च सर्वात्मानन्तमीश्वरम॥६३॥
जलं जलेन सृजति जलं पाति जलेन यः ॥
हरेज्जलं जलेनैव तं कृष्णं भज सन्ततम् ॥६४॥
यस्याज्ञया वाति वातः शीघ्रगामी च सन्ततम्॥
यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ॥ ६५ ॥
यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ॥
यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति भीतवत्॥६६॥
मृत्योर्मूलं कालमूलं यमस्य च यमं परम्॥
स्रष्टारं स्रष्टुरपि च पातुः पालकमेव च ॥६७॥
संहर्त्तारं च संहर्तुस्तं कृष्णं शरणं व्रज॥
को बन्धुश्चैव केषां वा सर्वबन्धुं भज प्रिये ॥ ६८ ॥
अहं को वा त्वं च का वा विधिना योजितः पुरा ॥
त्वया सार्द्धं कर्मणा च पुनस्तेन वियोजितः ॥६९॥
अज्ञानी कातरः शोके विपत्तौ च न पण्डितः ॥
सुखं दुःखं भ्रमत्येव चक्रनेमिक्रमेण च ॥ ॥ 2.17.७० ॥
नारायणं तं सर्वेशं कान्तं प्राप्स्यसि निश्चितम् ॥
तपः कृतं यदर्थे च पुरा बदरिकाश्रमे ॥ ७१॥
मया त्वं तपसा लब्धा ब्रह्मणश्च वरेण हि ॥
हरेरर्थे तव तपो हरिं प्राप्स्यसि कामिनि ॥ ७२ ॥
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि ॥
अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ॥ ७३ ॥
तत्र द्रक्ष्यसि मां त्वं च त्वां च द्रक्ष्यामि सन्ततम् ॥
आगमं राधिकाशापाद्भारतं च सुदुर्लभम् ॥ ७४ ॥
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ॥
त्वं हि देहं परित्यज्य दिव्यरूपं विधाय च । ॥७५॥
तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव ॥
इत्युक्त्वा च दिनान्ते च तया सार्द्धं मनोहरे ॥७६॥
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते ॥
नानाप्रकारविभवे चचार रत्नमन्दिरे ॥ ७७ ॥
रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् ॥
निनाय रजनीं राजा क्रीडाकौतुकमङ्गलैः ॥७८॥
कृत्वा वक्षसि कान्तां तां रुदन्तीमतिदुःखिताम् ॥
कृशोदरीं निराहारां निमग्नां शोकसागरे।७९॥
पुनस्तां बोधयामास दिव्यज्ञानेन बोधवित् ॥
पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम् ॥ 2.17.८० ॥
स च तस्यै ददौ तच्च सर्वशोकहरं परम् ॥
ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा ॥ ८१ ॥
क्रीडां चकार हर्षेण सर्वं मत्वाऽतिनश्वरम् ॥
तौ दम्पती च क्रीडार्त्तौ निमग्नौ सुखसागरे ॥ ८२ ॥
पुलकाङ्कितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने ॥
अङ्गप्रत्यङ्गसंयुक्तौ सुप्रीतौ सुरतोत्सुकौ ॥ ८३ ॥
एकाङ्गौ च तथा तौ द्वौ चार्द्धनारीश्वरौ यथा ॥
प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ॥ ८४ ॥
प्राणाधिकां च तां मेने राजा प्राणाधिकेश्वरीम् ॥
तौ स्थितौ सुखसुप्तौ च तन्त्रितौ सुन्दरौ समौ ॥ ८५ ॥
सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ ॥
क्षणं सचेतनौ तौ च कथयन्तौ रसाश्रयाम् ॥
कथां मनोहरां दिव्यां हसन्तौ च क्षणं पुनः ॥ ८६ ॥
भुक्तवन्तौ च ताम्बूलं प्रदतं च परस्परम् ॥ ८७ ॥
परस्परं सेवितौ च सुप्रीत्या श्वेतचामरैः ॥
क्षणं शयानौ सानन्दौ वसन्तौ च क्षणं पुनः ॥ ८८ ॥
क्षणं केलिनियुक्तौ च रसभावसमन्वितौ ॥
सुरताद्विरतिर्नास्ति तौ तद्विषयपण्डितौ ॥ ८९ ॥
सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ॥ ॥ 2.17.९० ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलसीशङ्खचूडसम्भोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥