नारायण उवाच ॥
तुलसी परितुष्टा सा चास्वाप्सीद्धृष्टमानसा ॥
नवयौवनसम्पन्ना प्रशंसन्ती वराङ्गना ॥ १ ॥
चिक्षेप पञ्चबाणश्च पञ्च बाणांश्च तां प्रति ॥
पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता ॥ २ ॥
पुलकाञ्चितसर्वाङ्गी कम्पिता रक्तलोचना ॥
क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ॥३॥
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् ॥
क्षणं सा दहनं प्राप क्षणं प्राप प्रमत्तताम्॥४॥
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् ॥
उत्तिष्ठन्ती क्षणं तल्पाद्गच्छन्ती निकटं क्षणम् ॥ ५॥
भ्रमन्ती क्षणमुद्वेगाद्विवसन्ती क्षणं पुनः ॥
क्षणमेव समुद्वेगादस्वाप्सीत्पुनरेव सा ॥ ६ ॥
पुष्पचन्दनतल्पं च तद्बभूवातिकण्टकम् ॥
विषमाहारकं स्वादु दिव्यरूपं फलं जलम् ॥७॥
निलयश्च निराकारः सूक्ष्मवस्त्रं हुताशनः॥
सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम्॥८॥
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती॥
सुन्दरं च युवानं च सस्मितं रसिकेश्वरम्॥९॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्॥
आगच्छन्तं माल्यवन्तं पश्यन्तं तन्मुखाम्बुजम् ॥ 2.16.१० ॥
कथयन्तं रतिकथां चुम्बन्तमधरं मुहुः ॥
शयानं पुष्पतल्पे च समाश्लिष्यन्तमङ्गकम् ॥ ११ ॥
पुनरेव तु गच्छन्तमागच्छन्तं वसन्तकम् ॥
कान्त क्व यासि प्राणेश तिष्ठेत्येवमुवाच सा ॥ १२ ॥
पुनः स्वचेतनां प्राप्य विललाप पुनः पुनः ॥
एवं तपोवने सा च तस्थौ तत्रैव नारद ॥ १३ ॥
शङ्खचूडो महायोगी जैगीषव्यान्मनोरमम् ॥
कृष्णस्य मन्त्रं सम्प्राप्य प्राप्य सिद्धिं तु पुष्करे ॥ १४ ॥
पठन्सदा तु कवचं सर्वमङ्गलमङ्गलम् ॥
ब्रह्मेशाच्च वरं प्राप्य यत्तन्मनसि वाञ्छितम् ॥१५॥
आज्ञया ब्रह्मणः सोऽपि बदरीं वै समाययौ ॥
आगच्छन्तं शङ्खचूडमपश्यत्तुलसी मुने॥१६॥
नवयौवनसम्पन्नं कामदेवसमप्रभम्॥१७॥
श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम् ॥
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ॥ १८ ॥
महारत्नगणाक्लृप्तविमानस्थं मनोहरम् ॥
रत्नकुण्डलयुग्माढ्यगण्डस्थलविराजितम् ॥ १९ ॥
पारिजातप्रसूनाढ्यमाल्यवन्तं च सुस्मितम् ॥
कस्तूरीकुङ्कुमयुतं सुगन्धितिलकोज्ज्वलम्॥2.16.२०॥
सा दृष्ट्वा सन्निधाने तं मुखमाच्छाद्य वाससा ॥
सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः ॥२१॥
बभूव सा नम्रमुखी नवसङ्गमलज्जिता॥
कामुकी कामबाणेन पीडिता पुलकान्विता ॥ २२ ॥
पिबन्ती तन्मुखाम्भोजं लोचनाभ्यां च सन्ततम् ॥
ददर्श शङ्खचूडश्च कन्यामेकां तपोवने ॥ २३ ॥
पुष्पचन्दनतल्पस्थां वसन्तीं वाससा वृताम् ॥
पश्यन्तीं तन्मुखं शश्वत्सस्मितां सुमनोहराम् ॥२४॥
सुपीनकठिनश्रोणीं पीनोन्नतपयोधराम्॥
मुक्तापङ्क्तिप्रभाजुष्टदन्तपङ्क्तिं सुबिभ्रतीम् ॥२५॥
पक्वबिम्बाधरोष्ठीं च सुनासां सुन्दरीं वराम् ॥
तप्तकाञ्चनवर्णाभां शरच्चन्द्रसमप्रभाम् ॥ २६ ॥
स्वतेजसा परिवृतां सुखदृश्यां मनोरमाम् ॥
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ॥ २७ ॥
सिन्दूरबिन्दुना शश्वत्सीमन्ताधःस्थलोज्ज्वलाम् ॥
निम्ननाभिगभीरां च तदधस्त्रिवलीयुताम् ॥ २८ ॥
करपद्मतलारक्तां नखचन्द्रैर्विभूषिताम् ॥
स्थलपद्मप्रभाजुष्टं पादपद्मं च बिभ्रतीम् ॥ २९ ॥
आरक्तवर्णं ललितमलक्तकसमप्रभम् ॥
स्थलपद्मैश्च जलजैः पद्मरागविराजिताम् ॥2.16.३०॥
शरदिन्दुविनिन्द्यैकनखेन्द्वोघविराजिताम्॥
अमूल्यरत्न सम्मिश्रयावकेन स्वलङ्कृताम्॥३१॥
मणीन्द्रमुख्यखचितक्वणन्मञ्जीररञ्जिताम् ॥३२॥
दधतीं कबरीभारं मालतीमाल्यसंयुतम्॥
अमूल्य रत्नसङ्क्लृप्तमकराकृतिरूपिणा॥३३॥
चित्रकुण्डलयुग्मश्रीसुषुमापरिशोभिताम् ॥
रत्नेन्द्रमुक्ताहारश्रीस्तनमध्यस्थलोज्ज्वलाम् ॥३४॥
रत्नकङ्कणकेयूरशङ्खभूषणभूषिताम् ॥
रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिभिर्युताम् ॥ ३९ ॥
दृष्ट्वा तां ललितां रम्यां सुशीलां सुदतीं सतीम् ॥
उवास तत्समीपे च मधुरं तामुवाच सः॥३६॥
शङ्खचूड उवाच ॥
का त्वं कस्य च कन्याऽसि धन्ये मान्ये सुयोषिताम्॥
का त्वं कामिनि कल्याणि सर्वकल्याणदायिनि॥३७॥
स्वर्गभोगादिसरितिविहारे हाररूपिणि॥
संसारदारसारे च मायाधारे मनोहरे॥ ॥ ३८ ॥
जगद्विलक्षणे क्षामे मुनीनां मोहकारिणि ॥
मौनं त्यक्त्वा किङ्करं मां सम्भाषां कुरु सुन्दरि ॥ ३९ ॥
इत्येवं वचनं श्रुत्वा सकामा वामलोचना ॥
सस्मिता नम्रवदना सकामं तमुवाच सा॥2.16.४०॥
तुलस्युवाच ॥
धर्मध्वजसुताऽहं च तपाम्यस्यां तपोवने ॥
तपस्विनीह तिष्ठामि कस्त्वं गच्छ यथासुखम्॥४१॥
कामिनीं कुलजातां च रहस्येकाकिनीं सतीम्॥
न पृच्छति कुले जात एवमेव श्रुतौ श्रुतम् ॥४२॥
लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः ॥
येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम्॥४३॥
आपात मधुरामन्ते चान्तकां पुरुषस्य ताम् ॥
विषकुम्भाकाररूपाममृतास्यां च सन्ततम् ॥ ४४ ॥
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ॥
स्वकार्य्यपरिनिष्पत्तितत्परां सततं सदा॥४५॥
कार्य्यार्थे स्वामिवशगामन्यथैवावशां सदा ॥
स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम्॥४६॥
श्रुतौ पुराणे यासां च चरित्रमनिरूपितम् ॥
तासु को विश्वसेत्प्राज्ञो ह्यप्राज्ञ इव सर्वदा ॥ ४७ ॥
तासां को वा रिपुर्मित्रं प्रार्थयन्तीं नवं नवम् ॥
दृष्ट्वा सुवेशं पुरुषमिच्छन्तीं हृदये सदा॥४८॥
बाह्ये स्वात्मसतीत्वं च ज्ञापयन्तीं प्रयत्नतः ॥
शश्वत्कामां च रामां च कामाधारां मनोहराम्॥४९॥
बाह्ये छलाच्छादयन्तीं स्वान्तर्मैथुनलालसाम्॥
कान्तं ग्रसन्तीं रहसि बाह्येऽतीव सुलज्जिताम्॥2.16.५०॥
मानिनीं मैथुनाभावे कोपिनीं कलहाङ्कुराम् ॥
सम्भीतां भूरिसम्भोगात्स्वल्पमैथुनदुःखिताम् ॥ ५१ ॥
सुमृष्टान्नं शीततोयमाकाङ्क्षन्तीं च मानसे ॥
सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥ ५२ ॥
सुतात्परमतिस्नेहं कुर्वन्तीं रतिकर्तरि ॥
प्राणाधिकं प्रियतमं सम्भोग कुशलं प्रियम् ॥ ५३ ॥
पश्यन्तीं रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् ॥
कलहं कुर्वती शश्वत्तेन सार्द्धं सुकोपनाम् ॥ ५४ ॥
चर्चया भक्षयन्तीं तं कीनाश इव गोरजः ॥
दुस्साहसस्वरूपां च सर्वदोषाश्रयां सदा ॥५५॥
शश्वत्कपटरूपां च सर्वदोषाश्रयां सदा ॥
ब्रह्म विष्णुशिवादीनां दुस्त्याज्यां मोहरूपिणीम् ॥ ५६ ॥
तपोमार्गार्गलां शश्वन्मुक्तिद्वारकपाटिकाम् ॥५७॥
हरेर्भक्तिव्यवहितां सर्वमाया करण्डिकाम् ॥
संसारकारागारे च शश्वन्निगडरूपिणीम् ॥ ५८ ॥
इन्द्रजालस्वरूपां च मिथ्यावादिस्वरूपिणीम् ॥
बिभ्रतीं बाह्य सौन्दर्यं मध्याङ्गमतिकुत्सितम् ॥५९ ॥
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् ॥
दुर्गन्धि दोषसंयुक्तं रक्ताक्तं चाप्यसंस्कृतम् ॥ ॥।2.16.६०॥
मायारूपं मायिनां च विधिना निर्मितं पुरा ॥
विषरूपां मुमुक्षूणामदृश्याञ्चैव सर्वदा॥६१॥
इत्युक्त्वा तुलसी तं च विरराम च नारद ॥
सस्मितः शङ्खचूडश्च प्रवक्तुमुपचक्रमे ॥६२॥
शङ्खचूड उवाच ॥
त्वया यत्कथितं देवि न च सर्वमलीककम् ॥
किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय॥६३॥
निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् ॥
कृत्यारूपं वास्तवं च प्रशस्यं चाप्रशंसितम्॥ ॥६४॥
लक्ष्मी सरस्वती दुर्गा सावित्री राधिकादिकम्॥
सृष्टिसूत्रस्वरूपं चाप्याद्यं स्रष्ट्वा तु निर्मितम् ॥ ६५ ॥
एतासामंशरूपं यत्स्त्रीरूपं वास्तवं स्मृतम् ॥
तत्प्रशंस्यं यशोरूपं सर्वमङ्गलकारणम् ॥ ६६ ॥
शतरूपा देवहूतिस्स्वधा स्वाहा च दक्षिणा ॥
छायावती रोहिणी च वरुणानी शची तथा ॥ ६७ ॥
कुबेरवायुपत्नी साऽप्यदितिश्च दितिस्तथा ॥
लोपामुद्राऽनसूया च कैटभी तुलसी तथा ॥६८॥
अहल्याऽरुन्धती मेना तारा मन्दोदरी परा ॥
दमयन्ती वेदवती गङ्गा च यमुना तथा ॥ ६९ ॥
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा ॥
षष्ठी मङ्गलचण्डी च मूर्तिर्वै धर्मकामिनी ॥ 2.16.७० ॥
स्वस्तिः श्रद्धा च कान्तिश्च तुष्टिः शान्तिस्तथा परा ॥
निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिर्दिनानि च ॥ ७१ ॥
सम्पत्तिवृत्तिकीर्त्यश्च क्रियाशोभाप्रभांशकम् ॥
यत्स्त्रीरूपं च सम्भूतमुत्तमं तद्युगे युगे ॥ ७२ ॥
कृत्यास्वरूपं तद्यत्तु स्वर्वेश्यादिकमेव च ॥
तदप्रशंस्यं विश्वेषु पुंश्चलीरूपमेव च ॥ ७३ ॥
सत्त्वप्रधानं यद्रूपं तच्च शुद्धं स्वभावतः ॥
तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ॥७४॥
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः॥
रजोरूपं तमोरूपं कृत्यासु द्विविधं स्मृतम् ॥७५॥
स्थानाभावात्क्षणाभावान्मध्यवृत्तेरभावतः ॥
देहक्लेशेन रोगेण सत्संसर्गेण सुन्दरि॥७६॥
बहुगोष्ठा वृतेनैव रिपुराजभयेन च ॥
रजोरूपस्य साध्वीत्वमतैनैवोपजायते ॥ ७७ ॥
इदं मध्यमरूपं च प्रवदन्ति मनीषिणः ॥
तमोरूपं दुर्निवार्य्यमधमं तद्विदुर्बुधाः॥७८॥
न पृच्छति कुले जातः पण्डितश्च परस्त्रियम्॥
निर्जने दुर्जने वाऽपि रहस्ये वचसां स्त्रियम् ॥७९॥
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ॥
गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ 2.16.८० ॥
अहमेव शङ्खचूडो देवविद्रावकारकः ॥
दनुवंशोद्भवो विश्वे सुदामाऽहं हरेः पुरे ॥ ८१ ॥
अहमष्टसु गोपेषु गोगोपीपार्षदेषु च ॥
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥ ८२ ॥
जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः ॥
जातिस्मरा त्वं तुलसी संसक्ता हरिणा पुरा ॥ ८३ ॥
त्वमेव राधिकाकोपाज्जाताऽसि भारते भुवि ॥
त्वां सम्भोक्तुमिच्छकोऽहं नालं राधाभयात्ततः ॥ ८४ ॥
इत्येवमुक्त्वा स पुमान्विरराम महामुने ॥
सस्मिता तुलसी हृष्टा प्रवक्तुमुपचक्रमे ॥ ८५ ॥
तुलस्युवाच ॥
एवंविधो बुधो विश्वे बुधेषु च प्रशंसितः ॥
कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः ॥ ८६ ॥
त्वयाऽहमधुना सत्यं विचारेण पराजिता ॥
स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः ॥ ८७ ॥
निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं जनम् ॥
स्त्रीजितं मनसा वाचा पिता भ्राता च निन्दति ॥८८॥
शुध्येद्विप्रो दशाहेन जातके मृतके तथा ॥
भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ ८९ ॥
शूद्रो मासेन वेदेषु मातृवद्वर्णसङ्करः॥
अशुचिः स्त्रीजितः शुध्येच्चितादहनकालतः ॥ 2.16.९० ॥
न गृह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् ॥
न गृह्णन्तीच्छया देवास्त स्य पुष्पजलादिकम् ॥ ९१ ॥
किं तस्य ज्ञानतपसा जपहोमप्रपूजनैः ॥
किं विद्यया वा यशसा स्त्रीभिर्यस्य मनो हृतम् ॥ ९२ ॥
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ॥
कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ॥ ९३ ॥
वराय गुणहीनाय वृद्धायाज्ञानिने तथा ॥
दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥ ९४ ॥
अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ॥
पङ्गुलायाङ्गहीनाय चान्धाय बधिराय च ॥ ९५ ॥
जडाय चैव मूकाय क्लीबतुल्याय पापिने ॥
ब्रह्महत्यां लभेत्सोऽपि यः स्वकन्यां ददाति च॥ ॥ ९६ ॥
शान्ताय गुणिने चैव यूने च विदुषेऽपि च ॥
वैष्णवाय सुतां दत्त्वा दशवाजिफलं लभेत् ॥ ९७ ॥
यः कन्यापालनं कृत्वा करोति विक्रयं यदि ॥
विपदा धनलोभेन कुम्भीपाकं स गच्छति ॥ ९८ ॥
कन्यामूत्रपुरीषं च तत्र भक्षति पातकी ॥
कृमिभिर्दशितः काकैर्यावदिन्द्राश्चतुर्दश ॥९९॥
तदन्ते व्याधयोनौ च लभते जन्म निश्चितम् ॥
विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥ 2.16.१०० ॥
इत्येवमुक्त्वा तुलसी विरराम तपोवने ॥
एतस्मिन्नन्तरे ब्रह्मा तयोरन्तिकमाययौ ॥ १०१ ॥
मूर्ध्ना ननाम तुलसी शङ्खचूडश्च नारद ॥
उवास तत्र देवेशश्चोवाच च तयोर्हितम्॥१०२॥
किं करोषि शङ्खचूड संवादमनया सह ॥
गान्धर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ॥ १०३ ॥
त्वं च पुरुषरत्नं च स्त्रीरत्नं स्त्रीष्वियं सती ॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत्॥१०४॥
निर्विरोधसुखं राजन्को वा त्यजति दुर्लभम् ॥
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ॥ १०५ ॥
किमुपेक्षसि त्वं कान्तमीदृशं गुणिनं सती ॥
देवानामसुराणां च दानवानां विमर्दनम् ॥ १०६ ॥
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका॥
यथा मयि च सावित्री भवानी च भवे यथा ॥ १०७ ॥
यथा धरा वराहे च यथा मेना हिमालये ॥
यथाऽत्रावनसूया च दमयन्ती नले यथा ॥ १०८ ॥
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ॥
यथा दितिः कश्यपे च वशिष्ठेऽरुन्धती यथा ॥ ॥ १०९ ॥
यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे ॥
यथा बृहस्पतौ तारा शतरूपा मनौ यथा ॥ 2.16.११० ॥
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ॥
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ॥ १११ ॥
देवसेना यथा स्कन्दे धर्मे मूत्तिर्यथा सती ॥
सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव ॥ ११२ ॥
अनेन सार्द्धं सुचिरं सुन्दरेण च सुन्दरि ॥
स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् ॥ ११३ ॥
पश्चात्प्राप्स्यसि गोविन्दं गोलोके पुनरेव च ॥
चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति ॥ ११४ ॥
इत्येवमाशिषं कृत्वा स्वालयं प्रययौ विधिः ॥
गान्धर्वेण विवाहेन जगृहे तां च दानवः ॥११५॥
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥
स रेमे रमया सार्द्धं वासगेहे मनोहरे ॥ ११६ ॥
मूर्च्छां सम्प्राप तुलसी नवसङ्गमसङ्गता ॥
निमग्ना निर्जने साध्वी सम्भोगसुख सागरे ॥ ११७ ॥
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥
कामशास्त्रं यन्निरुक्तं रसिकानां यथेप्सितम् ॥ ११८ ॥
अङ्गप्रत्यङ्ग संश्लेषपूर्वकं स्त्रीमनोहरम् ॥
तत्सर्वं सुखशृङ्गारं चकार रसिकेश्वरः ॥११९॥
अतीव रम्येदेशे च सर्वजन्तुविवर्जिते ॥
पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ॥ 2.16.१२० ॥
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥
गृहीत्वा रसिकां रामां पुष्पचन्दनचर्चिताम् ॥ ॥ १२१ ॥
भूषितां भूषणैः सर्वैरतीव सुमनोहराम् ॥
सुरतेर्विरतिर्नास्ति तयोः सुरतविज्ञयोः ॥ १२२ ॥
जहार मानसं भर्तुर्लीलया तुलसी सती ॥
चेतनां रसिकायाश्च जहार रसभाववित् ॥ १२३ ॥
वक्षसश्चन्दनं बाह्वोस्तिलकं विजहार सा ॥
स च जग्राह तस्याश्च सिन्दूरबिन्दुपत्रकम् ॥ १२४ ॥
स तद्वक्षसि तस्याश्च नखरेखां ददौ मुदा॥
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ॥ १२५ ॥
राजा तदोष्ठपुटके ददौ दशनदंशनम् ॥
तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ॥ १२३ ॥
सुरतेर्विरतौ तौ च समुत्थाय परस्परम् ॥
सुवेशं चक्रतुस्तत्र यत्तन्मनसि वाञ्छितम् ॥ १२७ ॥
कुङ्कुमाक्तचन्दनेन सा तस्मै तिलकं ददौ ॥
सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् ॥ १२८ ॥
सुवासितं च ताम्बूलं वह्निशुद्धे च वाससी ॥
पारिजातस्य कुसुमं माल्यं चैव सुशोभनम् ॥ १२९ ॥
अमूल्यरत्ननिर्माणमङ्गुलीयकमुत्तमम् ॥
सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ॥ 2.16.१३० ॥
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥
ननाम परया भक्त्या स्वामिनं गुणशालिनम् ॥ १३१ ॥
सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पपौ पुनः ॥
निमेषरहिताभ्यां च सकटाक्षं च सुन्दरम् ॥ १३२ ॥
स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥
सस्मितं वाससाऽऽच्छन्नं ददर्श मुखपङ्कजम् ॥ १३३ ॥
चुचुम्ब कठिने गण्डे बिम्बोष्ठे पुनरेव च ॥
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ॥
तदाहृतां रत्नमालां त्रिषु लोकेषु विश्रुताम् ॥ १३४ ॥
ददौ मञ्जीरयुग्मं च स्वाहायाश्च हृतं च यत् ॥
केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ १३५ ॥
अङ्गुलीयकरत्नानि रत्याश्च वरभूषणम् ॥
शङ्खं सुरुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ १३६ ॥
विचित्रपीठकश्रेणीं शय्यां चापि सुदुर्लभाम् ॥
भूषणानि च दत्त्वा च परीहारं चकार ह ॥ १३७ ॥
निर्माय कबरीभारं तस्याश्च माल्यसंयुतम् ॥
सुचित्रं पत्रकं गण्डे जयलेखसमं तथा ॥ १३८ ॥
चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ॥
परितः परितश्चित्रैः सार्द्धं कुङ्कुमबिन्दुभिः ॥ १३९ ॥
ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ॥
तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ 2.16.१४० ॥
चित्रालक्तकरागं च नखरेषु ददौ मुदा ॥
स्ववक्षसि मुहुर्न्यस्तं सरागं चरणाम्बुजम् ॥ १४१ ॥
हे देवि तव दासोऽहमित्युच्चार्य्य पुनः पुनः ॥
रत्ननिर्माणयानेन तां च कृत्वा स्ववक्षसि ॥ १४२ ॥
तपोवनं परित्यज्य राजास्थानान्तरं ययौ॥
मलये देवनिलये शैले शैले वने वने ॥ १४३ ॥
स्थाने स्थानेऽतिरम्ये च पुष्पोद्यानेऽतिनिर्जने ॥
कन्दरे कन्दरे सिन्धुतीरे च सुन्दरे वने ॥ १४४ ॥
पुष्पभद्रानदीतीरे नीरवातमनोहरे ॥
पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥ १४५ ॥
मधौ मधुकराणां च मधुरध्वनिनादिते ॥
विनिस्यन्दे सुपवने नन्दने गन्धमादने ॥ १४६ ॥
देवोद्याने देववने चित्रे चन्दनकानने ॥
चम्पकानां केतकीनां माधवीनां च माधवे ॥१४७॥
कुन्दानां मालतीनां च कुमुदाम्भोजकानने ॥
कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥१४८॥
निर्जने काञ्चनीस्थाने धन्ये काञ्चनपर्वते ॥
काञ्चीवने किञ्चनके कञ्चके काञ्चनाकरे ॥ १४९ ॥
पुष्पचन्दनतल्पे च पुंस्कोकिलरुतश्रुते ॥
पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ 2.16.१५० ॥
कामुक्या कामुकः कामात्स रेमे रामया सह ॥
न तृप्तो दानवेन्द्रश्च तृप्तिं नैव जगाम सा ॥ १५१ ॥
हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ॥
तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ १५२ ॥
रम्यं क्रीडालयं कृत्वा विजहार पुनस्ततः ॥
एवं सम्बुभुजे राज्यं शङ्खचूडः प्रतापवान् ॥ १५३ ॥
एकमन्वन्तरं पूर्णं राजराजेश्वरो बली ॥
देवानामसुराणां च दानवानां च सन्ततम् ॥ १५४ ॥
गन्धर्वाणां किन्नराणां राक्षसानां च शास्तिदः ॥
हताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ १५५ ॥
पूजाहोमादिकं तेषां जहार विषयं बलात् ॥
आश्रयं चाधिकारं च शस्त्रास्त्रभूषणादिकम् ॥ १९६ ॥
निरुद्यमाः सुराः सर्वे चित्रपुत्तलिका यथा ॥
ते च सर्वे विषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम्॥ ॥ १५७ ॥
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥
तदा ब्रह्मा सुरैः सार्द्धं जगाम शङ्करालयम् ॥ १५८ ॥
सर्वं सङ्कथयामास विधाता चन्द्रशेखरम् ॥
ब्रह्मा शिवश्च तैः सार्द्धं वैकुण्ठं च जगाम ह ॥ १५९ ॥
सुदुर्लभं परं धाम जरामृत्युहरं परम् ॥
सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ॥ 2.16.१६० ॥
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ॥
शोभितान्पीतवस्त्रैश्च रत्नभूषणभूषितान्॥ ॥ १६१ ॥
वनमालान्वितान्सर्वान्श्यामसुन्दरविग्रहान् ॥
शङ्खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ॥ १६२ ॥
सस्मितान्पद्मवक्त्रांश्च पद्मनेत्रान्मनोहरान् ॥
ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ॥ १६३ ॥
तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥
एवं च षोडश द्वारान्निरीक्ष्य कमलोद्भवः ॥ १६४ ॥
देवः सार्द्धं तानतीत्य प्रविवेश हरेः सभाम् ॥
देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ॥ १६५ ॥
नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥
पूर्णेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ॥ १६६ ॥
मणीन्द्रसारनिर्माणां हीरासारसुशोभिताम् ॥
अमूल्यरत्नखचितां रचितां स्वेच्छया हरेः ॥ १६७ ॥
माणिक्यमालाजालाढ्यां मुक्तापङ्क्तिविभूषिताम् ॥
मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः॥१६८॥
विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम्॥
पद्मरागेन्द्ररचितै रचितां पद्मकृत्रिमैः ॥ ॥१६९॥
सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः॥
पट्टसूत्रग्रन्थियुतैश्चारुचन्दनपल्लवैः॥2.16.१७०॥
इन्द्रनीलमणिस्तम्भैर्वेष्टितां सुमनोरमाम्॥
सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् ॥ १७१ ॥
पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥
कस्तूरीकुङ्कुमाक्तैश्च सुगन्धिचन्दनद्रवैः ॥ १७२ ॥
सुसंस्कृतां तु सर्वत्र वासिता गन्धवायुना ॥
विद्याधरीसमूहानां सङ्गीतैश्च मनोहरम् ॥ १७३ ॥
सहस्रयोजनायामां परिपूर्णां च किङ्करैः ॥
ददर्श श्रीहरिं ब्रह्मा शङ्करैश्च सुरैः सह ॥ १७४ ॥
वसन्तं तन्मध्यदेशे यथेन्द्रं तारकावृतम् ॥
अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥ १७९ ॥
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥
शङ्खचक्रगदापद्मधारिणं च चतुर्भुजम् ॥ ॥ १७५ ॥
नवीननीरदश्यामं सुन्दरं सुमनोहरम् ॥
अमूल्यरत्ननिर्माणसर्वाभरणभूषितम् ॥ १७७ ॥
चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् ॥
पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ १७८ ॥
शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ॥
भक्तप्रदत्तताम्बूलं भुक्तवन्तं सुवासितम् ॥ १७९ ॥
गङ्गया परया भक्त्या सेवितं श्वेतचामरैः ॥
सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ 2.16.१८० ॥
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं विभुम् ॥
ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ १८१ ॥
पुलकाङ्कितसर्वाङ्गाः साश्रुनेत्राः सगद्गदाः ॥
भक्त्या परमया भक्ता भीता नम्रात्मकन्धराः ॥ १८२ ॥
पुटाञ्जलियुतो भूत्वा विधाता जगतामपि ॥
वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ १८३ ॥
हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ॥
प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ १८४ ॥
श्रीभगवानुवाच ॥
शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ॥
मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ १८५ ॥
सुराः शृणुत तत्सर्वमितिहासं पुरातनम् ॥
गोलोकस्यैव चरितं पापघ्नं पुण्यकारणम् ॥ १८६ ॥
सुदामा नाम गोपश्च पार्षदप्रवरो मम ॥
स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ १८७ ॥
तत्रैकदाऽहमगमं स्वालयाद्रासमण्डलम् ॥
विहाय मानिनीं राधां मम प्राणाधिकां पराम् ॥ १८८ ॥
सा मां विरजया सार्द्धं विज्ञाय किङ्करीमुखात् ॥
पश्चात्क्रुधा साऽऽजगाम मां ददर्श च तत्र च ॥ १८९॥
विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ॥
पुनर्जगाम सा रुष्टा स्वालयं सखिभिः सह ॥ 2.16.१९० ॥
मां दृष्ट्वा मन्दिरे देवी सुदाम सहितं पुरा ॥
भृशं मां भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ १९१ ॥
तच् त्वा च सुमहांश्च सुदामा तां चुकोप ह॥
स च तां भर्त्सयामास कोपेन मम सन्निधौ॥१९२॥
तच्छ्रुत्वा सा कोपयुक्ता रक्तपङ्कजलोचना ॥
बहिष्कर्तुं चकाराज्ञां सन्त्रस्ता मम संसदि॥१९३॥
सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोज्ज्वलम् ॥
बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ १९४ ॥
सा च तद्वचनं श्रुत्वा समारुष्टा शशाप तम् ॥
याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥१९५॥
तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ॥
वारयामास सा तुष्टा रुदन्ती कृपया पुनः ॥ १९६ ॥
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ॥
समुच्चार्य्य च तत्पश्चाज्जगाम सा च विस्मिता ॥ १९७ ॥
गोप्यश्च रुरुदुः सर्वा गोपाश्चेति सुदुःखिताः ॥
ते सर्वे राधिका चापि तत्पश्चाद्बोधिता मया ॥ १९८ ॥
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ॥
सुदामंस्त्वमिहागच्छेत्युवाच सा निवारिता ॥ १९९ ॥
गोलोकस्य क्षणार्द्धेन चैकमन्वन्तरं भवेत् ॥
पृथिव्यां जगतां धातरित्येवं वचनं ध्रुवम् ॥ 2.16.२०० ॥
स एव शङ्खचूडश्च पुनस्तत्रैव यास्यति ॥
महाबलिष्ठो योगीशः सर्वमायाविशारदः ॥२०१॥
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ॥
शिवः करोतु संहारं मम शूलेन रक्षसः ॥ २०२ ॥
ममैव कवचं कण्ठे सर्वमङ्गलमङ्गलम् ॥
बिभर्ति दानवः शश्वत्सम्पारविजयी ततः ॥२०३ ॥
तत्र ब्रह्मन्स्थिते कण्ठे न कोऽपि हिंसितुं क्षमः ॥
तद्याञ्चां च करिष्यामि विप्ररूपोऽहमेव च ॥२०४॥
सतीत्वभङ्गस्तत्पत्न्या यत्र काले भविष्यति ॥
तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ २०५ ॥
तत्पत्न्याश्चोदरे वीर्य्यमर्पयिष्यामि निश्चितम् ॥
तत्क्षणेनैव तन्मृत्युर्भविष्यति न संशयः ॥ २०६ ॥
पश्चात्सा देहमुत्सृज्य भविष्यति प्रिया मम ॥
इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥२०७॥
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरं मुदा ॥
भारतं च ययुर्देवा ब्रह्मरुद्रपुरोगमाः ॥ २०८ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे तुलस्युपाख्याने षोडशोऽध्यायः ॥ १६ ॥