०१३

नारद उवाच ॥
नारायणप्रिया साध्वी कथं सा च बभूव ह॥
तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि ॥१॥
कस्य वा सा कुले जाता कस्य कन्या तपस्विनी ॥
केन वा तपसा सा च सम्प्राप प्रकृतेः परम् ॥ २ ॥
निर्विकल्पं निरीहं च सर्वसाक्षिस्वरूपकम् ॥
नारायणं परं ब्रह्म परमात्मानमीश्वरम्॥ ॥३॥
सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् ॥
सर्वाधारं सर्वरूपं सर्वेषां परिपालनम् ॥४॥
कथमेतादृशी देवी वृक्षत्वं समवाप ह॥
कथं साऽप्यसुरग्रस्ता सम्बभूव तपस्विनी ॥ ५ ॥
सन्दिग्धं मे मनो लोलं प्रेरयेन्मां मुहुर्मुहुः ॥
छेत्तुमर्हसि सन्देहं सर्वसन्देहभञ्जना। ॥ ६ ॥
नारायण उवाच ॥
मनुश्च दक्षसावर्णिः पुण्यवान्वैष्णवः शुचिः ॥
यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्भवः ॥ ७ ॥
तत्पुत्रो धर्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः ॥
तत्पुत्रो विष्णुसावर्णिर्वैष्णवश्च जितेन्द्रियः ॥ ८ ॥
तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः ॥
तत्पुत्रो राजसावर्णिर्महाविष्णुपरायणः ॥ ९ ॥
वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः ॥
यस्याश्रमे स्वयं शम्भुरासीद्दैवयुगत्रयम् ॥ 2.13.१० ॥
पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च ॥
न च नारायणं मेने न च लक्ष्मीं सरस्वतीम् ॥ ११ ॥
पूजां च सर्वदेवानां दूरीभूतां चकार सः ॥
भाद्रे मासि महालक्ष्मीपूजां मत्तोऽत्यजन्नृपः ॥ १२ ॥
माघे सरस्वतीपूजां दूरीभूतां चकार सः ॥
यज्ञं च विष्णुपूजां च निनिन्दे न चकार सः ॥ १३ ॥
न कोऽपि देवो भूपेन्द्रं शशाप शिवकारणात् ॥
भ्रष्टश्रीर्भव भूपेति चाशपत्तं दिवाकरः ॥ १४ ॥
शूलं गृहीत्वा तं सूर्य्यं धृतवाच्छङ्करः स्वयम् ॥
पित्रा सार्द्ध दिनेशश्च ब्रह्माणं शरणं ययौ ॥ १५ ॥
शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा ॥
ब्रह्मा सूर्य्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया ॥ १६ ॥
शूलं गृहीत्वा तत्रापि धृतवाञ्छङ्करो रविम् ॥
ब्रह्मकश्यपमार्त्तण्डाः सन्त्रस्ताः शुष्कतालुकाः ॥ १७ ॥
नारायणं च सर्वेशं ते ययुः शरणं भिया ॥
मूर्ध्ना प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः ॥ १८ ॥
सर्वे निवेदनं चक्रुर्भियस्ते कारणं हरौ ॥ १९ ॥
नारायणश्च कृपयाऽभयं तेभ्यो ददौ मुने ॥
स्थिरा भवत हे भीता भयं किं वो मयि स्थिते॥2.13.२०॥
स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः ॥
तांस्तत्र गत्वा रक्षामि चक्र हस्तस्त्वरान्वितः ॥ २१ ॥
पाताऽहं जगतां देवः कर्त्ताऽहं सततं सदा ॥
सृष्ट्वा च ब्रह्मरूपेण संहर्त्ता शिवरूपतः ॥ २२ ॥
शिवोऽहं त्वमहं चापि सूर्य्योऽहं त्रिगुणात्मकः ॥
विधाय नानारूपं च कुर्यां सृष्ट्यादिकाः क्रियाः ॥ २३ ॥
यूयं गच्छत भद्रं वो भविष्यति भयं कुतः ॥
अद्यप्रभृति वो नास्ति मद्वराच्छङ्कराद्भयम् ॥ २४ ॥
आशुतोषः स भगवाञ्छरण्यश्च सतां गतिः ॥
भक्ताधीनश्च भक्तेशो भक्तात्मा भक्तवत्सलः ॥२५॥
सुदर्शनं शिवश्चैव मम प्राणाधिकप्रियौ ॥
ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः॥ २६ ॥
शक्तः स्रष्टुं महादेवः सूर्य्यकोटिं च लीलया ॥
कोटिं च ब्रह्मणामेवं किमसाध्यं च शूलिनः ॥ २७ ॥
बाह्यज्ञानं तन्न किञ्चिद्ध्यायतो मां दिवानिशम् ॥
मन्नाम मद्गणं भक्त्या पञ्चवक्त्रेण गीयते ॥२८॥
अहमेव चिन्तयामि तत्कल्याणं दिवानिशम् ॥
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ २९ ॥
शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता ॥
शिवो भवति यस्माच्च शिवं तेन विदुर्बुधाः ॥ 2.13.३० ॥
एतस्मिन्नन्तरे तत्र चागमच्छङ्करः स्वयम् ॥
शूलहस्तो वृषारूढो रक्तपङ्कजलोचनः ॥ ३१ ॥
अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः ॥
ननाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम् ॥ ३२ ॥
रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम् ॥
किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम् ॥ ३३ ॥
नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् ॥
चतुर्भुजैः सेवितं च श्वेतचामरवायुना ॥ ३४ ॥
चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससा॥
लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद ॥ ३५ ॥
विद्याधरीनृत्यगीतं शृण्वन्तं सस्मितं मुदा ॥
ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम् ॥ ३६ ॥
तं ननाम महादेवो ब्रह्माणं च ननाम सः ॥
ननाम सूर्य्यो भक्त्या च सन्त्रस्तश्चन्द्रशेखरम् ॥ ३७ ॥
कश्यपश्च महाभक्त्या तुष्टाव च ननाम च ॥
शिवः संस्तूय सर्वेशं समुवास सुखासने ॥ ॥ ३८ ॥
सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् ॥
श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ॥ ३९ ॥
अक्रोधं सत्त्वसंसर्गात्प्रसन्नं सस्मितं मुदा ॥
स्तूयमानं पञ्चवक्त्रैः परं नारायणं विभुम् ॥ 2.13.४० ॥
तमुवाच प्रसन्नात्मा प्रसन्नं सुरसंसदि ॥
पीयूषतुल्यं मधुरं वचनं सुमनोहरम् ॥ ४१ ॥
श्रीभगवानुवाच ॥
अत्यन्तमुपहास्यं च शिवप्रश्नं शिवे शिवम् ॥
लौकिकं वैदिकं चैव त्वां पृच्छामि तथा ऽपि शम्॥४२॥
तपसां फलदातारं दातारं सर्वसम्पदाम्॥
सम्पत्प्रश्नं तपःप्रश्नमयोग्यं त्वां च साम्प्रतम्॥४३॥
ज्ञानाधिदेवे सर्वज्ञे ज्ञानं पृच्छामि किं वृथा ॥
निरापदि विपत्प्रश्नमलं मृत्युञ्जये हरे ॥४४॥
त्वामेव वाग्धनं प्रश्नमलं स्वाश्रयमागमे ॥
आगतोऽसि कथं वेगादित्युवाच रमापतिः ॥ ४५ ॥
श्रीमहादेव उवाच ॥
वृषध्वजं च मद्भक्तं मम प्राणाधिकप्रियम् ॥
सूर्य्यः शशाप इति मे हेतुरागमकोपयोः ॥ ४६ ॥
पुत्रवात्सल्यशोकेन सूर्य्यं हन्तुं समुद्यतः ॥
स ब्रह्माणं प्रपन्नश्च स सूर्य्यश्च विधिस्त्वयि ॥४७॥
त्वां ये शरणमापन्ना ध्यानेन वचसाऽपि वा ॥
निरापदस्ते निश्शङ्का जरा मृत्युश्च तैर्जितः ॥ ४८ ॥
साक्षाद्ये शरणापन्नास्तत्फलं किं वदामि भोः ॥
हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा ॥ ४९ ॥
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ॥
श्रीहतस्यास्य मूढस्य सूर्य्यशापेन हेतुना ॥ 2.13.५० ॥
श्रीभगवानुवाच ॥
कालोऽतियातो दैवेन युगानामेकविंशतिः ॥
वैकुण्ठे घटिकार्द्धेन शीघ्रं याहि नृपालयम्॥ ॥५१॥
वृषध्वजो मृतः कालाद्दुर्निवार्य्यात्सुदारुणात् ॥
हंसध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ॥५२॥
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ ॥
हतश्रियौ सूर्य्यशापात्तौ वै परमवैष्णवौ ॥ ५३ ॥
राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातापसावुभौ ॥
तयोश्च भार्य्ययोर्लक्ष्मीः कलया च जनिष्यति ॥५४॥
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः ॥
मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत॥५५॥
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरं गतः ॥
देवा जग्मुश्च संहृष्टाः स्वाश्रमं परमं मुदा॥५६॥
शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ॥५७॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने त्रयोदशोऽध्यायः॥१३॥