नारद उवाच॥
कलेः पञ्चसहस्रे सा समतीते सुरेश्वरी ॥
क्व गता सा महाभागा तन्मे व्याख्यातुमर्हसि ॥१॥
नारायण उवाच ॥
भारतं भारतीशापात्समागत्येश्वरेच्छया ॥
जगाम तं च वैकुण्ठं शापान्ते पुनरेव सा ॥२॥
भारतं भारती त्यक्त्वा चागमत्तद्धरेः पदम् ॥
पद्मावती च शापान्ते गङ्गायाश्चैव नारद ॥३॥
गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रः प्रिया हरेः॥
तुलसीसहिता ब्रह्मंश्चतस्रः कीर्त्तिताः श्रुतौ॥४॥
नारद उवाच ॥
हेतुना केन देवी वै विष्णुपादाब्जसम्भवा ॥
धातुः कमण्डलुस्था च शङ्करस्य शिरोगता ॥ ५ ॥
बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया ॥
अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
॥ श्रीनारायण उवाच ॥
पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी ॥
राधाकृष्णाङ्गसम्भूता तदंशा तत्स्वरूपिणी ॥ ७ ॥
द्रवाधिष्ठातृरूपा या रूपेणाप्रतिमा भुवि ॥
नवयौवनसम्पन्ना रत्नाभरणभूषिता ॥ ८ ॥
शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा ॥
तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ॥ ९ ॥
स्निग्धप्रभाऽतिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी ॥
सुपीनकठिनश्रोणी सुनितम्बयुगं वरम् ॥ 2.11.१० ॥
पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् ॥
सुचारु नेत्रयुगलं सुकटाक्षं सुवक्रिमम् ॥ ॥ ११ ॥
वक्रिमं कबरीभारं मालतीमाल्यसंयुतम् ॥
सिन्दूरबिन्दुललितं सार्द्धं चन्दनबिन्दुभिः ॥ १२ ॥
कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोहरम् ॥
बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम् ॥ १३ ॥
पक्वदाडिमबीजाभदन्तपङ्क्तिसमुज्ज्वला ॥
वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ॥ १४ ॥
सा सकामा कृष्णपार्श्वे समुत्तस्थे सुलज्जिता ॥
पद्मपत्रसमानाभ्यां लोचनाभ्यां विभो मुखम् ॥ १५ ॥
निमेषरहिताभ्यां च पिबन्ती सततं मुदा ॥
प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ॥ १५ ॥
मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ॥
एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ॥ १७ ॥
गोपीत्रिंशत्कोटियुक्ता कोटिचन्द्रसमप्रभा ॥
कोपेन रक्तपद्मास्या रक्तपङ्कजलोचना ॥ १८ ॥
श्वेतचम्पकवर्णाभा मत्तवारणगामिनी॥
अमूल्यरत्नखचितनानाभरणभूषिता ॥१९॥
माणिक्यखचितं हारममूल्यं वह्निशौचकम् ॥
पीताभवस्त्रयुगलं नीवीयुक्तं च बिभ्रती ॥ 2.11.२० ॥
स्थलपद्मप्रभाजुष्टं कोमलं च सुरञ्जितम् ॥
कृष्णदत्तार्घ्यसंयुक्तं विन्यस्यन्ती पदाम्बुजम् ॥ २१ ॥
रत्नेन्द्रराजखचितविमानादवरुह्य च ॥
सेव्यमाना च सखिभिः श्वेत चामरवायुना ॥ २२ ॥
कस्तूरीबिन्दुतिलकं चन्दनेन्दुसमन्वितम् ॥
दीप्तदीपप्रभाकारं सिन्दूरारुणसुन्दरम् ॥ २३ ॥
दधती भालमध्ये च सीमन्ताधस्तदुज्ज्वलम् ॥
पारिजातप्रसूनादिमालायुक्तं सुवक्रिमम् ॥ २४ ॥
सुचारुकबरीभारं कम्पयन्ती च कम्पिता ॥
सुचारुनासासंयुक्तमोष्ठं कम्पयती रुषा ॥ २५ ॥
गत्वा तस्थौ कृष्णपार्श्वे रत्नसिंहासने वरे ॥
सखीनां च समूहैश्च परिपूर्णा विभोः सभा ॥ २६ ॥
तां च दृष्ट्वा समुत्तस्थौ कृष्णः सादरमच्युतः ॥
सम्भाष्य मधुरालापैः सस्मितश्च ससम्भ्रमः ॥ २७ ॥
प्रणेमुरभि सन्त्रस्ता गोपा नम्रात्मकन्धराः ॥
तुष्टुवुस्ते च भक्त्या तं तुष्टाव परमेश्वरम् ॥ २८ ॥
उत्थाय गङ्गा सहसा सम्भाषां च चकार सा ॥
कुशलं परिपप्रच्छ भीताऽतिविनयेन च ॥ २९ ॥
नम्रभावस्थिता त्रस्ता शुष्ककण्ठौष्ठतालुका ॥
ध्यानेन शरणापन्ना श्री कृष्णचरणम्बुजे ॥ 2.11.३० ॥
तद्धृत्पद्मे स्थितः कृष्णो भीतायै चाभयं ददौ ॥
बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ॥ ३१ ॥
ऊर्ध्वं सिंहासनस्थां च राधां गङ्गा ददर्श सा ॥
सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ॥ ३२ ॥
असङ्ख्यब्रह्मणामाद्यां चादिसृष्टिं सनातनीम् ॥
यथा द्वादशवर्षीयां कन्यां च नवयौवनाम् ॥ ३३ ॥
विश्ववृन्दे निरुपमां रूपेण च गुणेन च ॥
शान्त कान्तामनन्तां तामाद्यन्तरहितां सतीम् ॥ ३४ ॥
शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् ॥
सौन्दर्यसुन्दरीं श्रेष्ठां सुन्दरीष्वखिलासु च ॥ ३९ ॥
कृष्णार्द्धाङ्गी कृष्णसमां तेजसा वयसा त्विषा ॥
पूजितां च महालक्ष्मीं महालक्ष्मीश्वरेण च ॥ ३६ ॥
प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् ॥
सखीदत्तं च ताम्बूलं गृह्णतीमन्यदुर्लभम् ॥ ३७ ॥
अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् ॥
कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम्॥३८॥
दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी ॥
निमेषरहिताभ्यां च लोच नाभ्यां पपौ च ताम्॥३९॥
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा॥
वाचा मधुरया शान्ता विनीता सस्मिता मुने॥2.11.४०॥
राधिकोवाच॥
केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् ॥
पश्यन्ती सततं पार्श्वे सकामा रक्तलोचना ॥ ४१ ॥
मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा ॥
वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ॥ ४२ ॥
त्वं चापि मां सन्निरीक्ष्य सकामः सस्मितः सदा ॥
मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ ४३ ॥
त्वमेव चैवं दुर्वृत्तं वारंवारं करोषि च ॥
क्षमां करोमि ते प्रेम्णा स्त्रीजातिः स्निग्धमानसा ॥ ४४ ॥
सङ्गृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट ॥
अन्यथा नहि ते भद्रं भविष्यति सुरेश्वर ॥ ४५ ॥
दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने ॥
क्षमा कृता मया पूर्वं सखीनां वचनादहो ॥ ४६ ॥
त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा ॥
देहं सन्त्यज्य विरजा नदीरूपा बभूव सा ॥ ४७ ॥
कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा ॥
अद्यापि विद्यमाना सा तव सत्की र्तिरूपिणी ॥ ४८ ॥
गृहं मयि गतायां च पुनर्गत्वा तदन्तिकम् ॥
उच्चैररौषीर्विरजे विरजे चेति संस्मरन् ॥ ४९ ॥
तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी ॥
सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ॥ 2.11.५० ॥
ततस्तां च समाश्लिष्य वीर्य्याधानं कृतं त्वया ॥
ततो बभूवुस्तस्यां च समुद्राः सप्त चैव हि ॥ ५१ ॥
दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने ॥
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥५२॥
शोभा देहं परित्यज्य प्राविशच्चन्द्रमण्डलम् ॥
ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ॥ ५३ ॥
संविभज्य त्वया दत्तं हृदयेन विदूयता ॥
रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मतिवराय च ॥ ५४ ॥
किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन ॥
किञ्चित्प्रकृष्टवस्त्रेभ्यो रौप्येभ्यश्चापि किञ्चन ॥ ५५ ॥
किञ्चिच्चन्दनपङ्केभ्यस्तोयेभ्यश्चापि किञ्चन ॥
किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥ ५६ ॥
किञ्चित्फलेभ्यः सस्येभ्यः सुपक्वेभ्यश्च किञ्चन ॥
नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किञ्चन ॥ ५७ ॥
दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ॥
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ ॥ ५८ ॥
प्रभा देहं परित्यज्य प्राविशत्सूर्य्यमण्डलम् ॥
ततस्तस्याः शरीरं च तीक्ष्णं तेजो बभूव ह ॥ ५९ ॥
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ॥
विभज्य चक्षुषोर्दत्तं लज्जया तद्भयेन च ॥ 2.11.६० ॥
हुताशनाय किञ्चिच्च नृपेभ्यश्चापि किञ्चन ॥
किञ्चित्पुरुषसङ्घेभ्यो देवेभ्यश्चापि किञ्चन ॥ ६१ ॥
किञ्चिद्दस्युगणेभ्यश्च नागेभ्यश्चापि किञ्चन ॥
ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन ॥६२॥
स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन ॥
तच्च दत्त्वा च सर्वेभ्यः पूर्वं रोदितुमुद्यतः ॥६३॥
शान्त्या गोप्या युतस्त्वं च दृष्टो वै रासमण्डले ॥
वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः ॥ ६४ ॥
रत्नप्रदीपैर्युक्तश्च रत्ननिर्मितमन्दिरे ॥
रत्नभूषणभूषाढ्यो रत्नभूषितया सह ॥ ६९ ॥
त्वया दत्तं च ताम्बूलं भुक्तवत्यै सुवासितम् ॥
तया दत्तं च ताम्बूलं भुक्तवांस्त्वं पुरा विभो ॥६६॥
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥
शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ॥६७॥
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ॥
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ॥ ६८ ॥
विश्वे विषयिणे किञ्चित्सत्त्वरूपाय विष्णवे ॥
शुद्धसत्त्वस्वरूपायै किञ्चिल्लक्ष्म्यै पुरा विभो ॥६९॥
त्वन्मन्त्रोपासकेभ्यश्च वैष्णवेभ्यश्च किञ्चन ॥
तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किञ्चन ॥2.11.७०॥
मया पूर्वं हि दृष्टस्त्वं गोप्या च क्षमया सह ॥
सुवेषवान्माल्यवांश्च गन्धचन्दनसंयुतः॥ ॥ ७१ ॥
रत्नभूषितया चारुचन्दनोक्षितया तया ॥
सुखेन मूर्छितस्तल्पे पुष्पचन्दनसंयुते ॥ ७२ ॥
श्लिष्टोऽभून्निद्रया सद्यः सुखेन नवसङ्गमात् ॥
मया प्रबोधितौ सा च भवांश्च स्मरणं कुरु ॥ ७३ ॥
गृहीतं पीतवस्त्रं ते मुरली च मनोहरा ॥
वनमाला कौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम् ॥७४॥
पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो ॥
लज्जया कृष्णवर्णोऽभूदद्यापि च भवान्प्रभो ॥७५॥
क्षमा देहं परित्यज्य लज्जया पृथिवीं गता ॥
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ॥ ७६ ॥
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ॥
किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन ॥ ७७ ॥
धर्मिष्ठेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन ॥
तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन ॥ ७८ ॥
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥
त्वद्गुणं बहुविस्तारं जानामि च परं प्रभो॥७९॥
इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना ॥
गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ॥ 2.11.८० ॥
गङ्गा रहस्यं योगेन ज्ञात्वा वै सिद्धयोगिनी ॥
तिरोभूय सभामध्यात्स्वजलं प्रविवेश सा ॥८१॥
राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् ॥
पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ॥ ८२ ॥
गङ्गा रहस्यं योगेन ज्ञात्वा वै सिद्धयोगिनी ॥
श्रीकृष्णचरणाम्भोजं परमं शरणं ययौ ॥ ८३ ॥
गोलोकं चैव वैकुण्ठं ब्रह्मलोकादिकं तथा ॥
ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा ॥ ८४ ॥
सर्वतो जलशून्यं च शुष्कपङ्कजगोलकम् ॥
जलजन्तुसमूहैश्च मृतदेहैः समन्वितम् ॥ ८५ ॥
ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः ॥
मनवो मानवाः सर्वे देवाः सिद्धास्तपस्विनः ॥ ८६ ॥
गोलोकं च समाजग्मुः शुष्ककण्ठौष्ठतालुकाः ॥
सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ॥ ८७ ॥
वरं वरेण्यं वरदं वरिष्ठं वरकारणम् ॥
वरेशं च वरार्हं च सर्वेषां प्रवरं प्रभुम् ॥ ८८ ॥
निरीहं च निराकारं निर्लिप्तं च निराश्रयम् ॥
निर्गुणं च निरुत्साहं निर्व्यूहं च निरञ्जनम् ॥ ८९ ॥
स्वेच्छामयं च साकारं भक्तानुग्रहविग्रहम् ॥
सत्यस्वरूपं सत्येशं साक्षिरूपं सनातनम् ॥ ॥ 2.11.९० ॥
परं परेशं परमं परमात्मानमीश्वरम् ॥
प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ ९१ ॥
सगद्गदा साश्रुनेत्राः पुलकाङ्कितविग्रहाः ॥
सर्वे संस्तूय सर्वेशं भगवन्तं परं हरिम् ॥९२॥
ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् ॥
अमूल्यरत्नखचितचित्रसिंहासनस्थितम् ॥ ९३ ॥
सेव्यमानं च गोपालैः श्वेतचामरवायुना ॥
गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ॥ ९४ ॥
वल्गुवेषैः परिवृतं गोपैश्च शतकोटिभिः ॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥ ९५ ॥
नवीननीरदश्यामं किशोरं पीतवाससम् ॥
यथा द्वादशवर्षीयं बालं गोपालरूपिणम् ॥ ९६ ॥
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहम् ॥
स्वतेजसा परिवृतं सुसादृश्यं मनोहरम्॥ ॥ ९७ ॥
कोटिकन्दर्पसौन्दर्य्यलीलालावण्यविग्रहम् ॥
दृश्यमानं च गोपीभिः सस्मिताभिश्च सन्ततम् ॥ ९८ ॥
भूषणैर्भूषिताभिश्च महारत्नविनिर्मितैः ॥
पिबन्तीभिर्लोचनाभ्यां मुखचन्द्रं प्रभोर्मुदा ॥ ९९ ॥
प्राणाधिकप्रियतमाराधावक्षःस्थलस्थितम् ॥
तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥
परिपूर्णतमं रासे ददृशुः सर्वतः सुराः ॥ 2.11.१०० ॥
मुनयो मानवाः सिद्धास्तपसा च तपस्विनः ॥
प्रहृष्टमानसाः सर्वे जग्मुः परमविस्मयम् ॥ १०१ ॥
परस्परं समालोच्य ते तमूचुश्चतुर्मुखम् ॥
निवेदितुं जगन्नाथं स्वाभिप्रायमभीप्सितम् ॥ १०२ ॥
ब्रह्मा तद्वचनं श्रुत्वा स्थितं विष्णोस्तु दक्षिणे ॥
वामतो वामदेवस्य चागमत्कृष्णमुत्तमम् ॥ १०३ ॥
परमानन्दयुक्तं च परमानन्दरूपकम् ॥
सर्वं कृष्णमयं धाता चापश्यद्रासमण्डले ॥ १०४ ॥
सर्वं समानवेषं च सभानासनसंस्थितम् ॥ १०५ ॥
द्विभुजं मुरलीहस्तं वनमालाविभूषितम् ॥
मयूरपुच्छचूडं च कौस्तुभेन विराजितम् ॥ १०६ ॥
अतीव कमनीयं च सुन्दरं शान्तविग्रहम् ॥
गुणभूषणरूपेण तेजसा वयसा त्विषा ॥ १०७॥
वाससा यशसाऽऽकृत्या मूर्त्या सुन्दरया समम् ॥
परिपूर्णतमं सर्वं सर्वैश्वर्य्यसमन्वितम् ॥ १०८ ॥
कः सेव्यस्सेवको वेति दृष्ट्वा निर्वक्तुमक्षमः ॥
क्षणं तेजः स्वरूपं च रूपराशियुतं क्षणम्॥१०९॥
एकमेव क्षणं कृष्णं राधया सहितं परम्॥
प्रत्येकासनसंस्थं च तया च सहितं क्षणम् ॥2.11.११०॥
राधारूपधरं कृष्णं कृष्णरूपकलत्रकम् ॥
किं स्त्रीरूपं च पुंरूपं विधाता ध्यातुमक्षमः॥१११॥
हृत्पद्मस्थं च श्रीकृष्णं धाता ध्यानेन चेतसा ॥
चकार स्तवनं भक्त्या प्रणम्याथ त्वनेकधा ॥ ११२ ॥
ततः स चक्षुरुन्मील्य पुनश्च तदनुज्ञया ॥
अपश्यत्कृष्णमेकं च राधावक्षस्थलस्थितम् ॥ ११३ ॥
स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् ॥
पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुश्च पुनश्च ते ॥११४॥
विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः ॥
सर्वात्मा सर्वयज्ञेशः सर्वेशः सर्वभावनः ॥ ११५ ॥
श्रीभगवानुवाच ॥
आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते ॥
इहागच्छ महादेव शश्वत्कुशलमस्तु वः ॥ ११६ ॥
आगताः स्थ महाभागा गङ्गानयनकारणात् ॥
गङ्गा मच्चरणत्म्भोजे भयेन शरणं गता ॥ ११७ ॥
राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः ॥
दास्यामीमां बहिः कृत्वा यूयं कुरुत निर्भयाम् ॥ ११८ ॥
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः ॥
तुष्टाव सर्वाराध्यां तां राधां श्रीकृष्णपूजिताम् ॥ ११९ ॥।
वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः ॥
धाता चतुर्णां वेदानामुवाच चतुराननः ॥ 2.11.१२० ॥
गङ्गा त्वदङ्गसम्भूता प्रभोर्वै रासमण्डले॥
द्रवरूपा च सा जाता मुग्धया शङ्करस्वरात्॥१२१॥
कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया॥
तन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम्॥१२२॥
भविष्यति पतिस्तस्या वैकुण्ठे च चतुर्भुजः॥
भूगतायाः कलायाश्च लवणोदश्च वारिधिः॥१२३॥
गोलोकस्था च या राधा सर्वत्रस्था तथात्मिका ॥
तदात्मिका त्वं देवेशि सर्वदा च तवात्मजा ॥ १२४ ॥
ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ॥
बहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ॥१२५॥
तत्रैव संवृता शान्ता तस्थौ तेषां च मध्यतः ॥
उवास तोयादुत्थाय तदधिष्ठातृदेवता ॥ १२६ ॥
तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ ॥
किञ्चिद्दधार शिरसि चन्द्रार्द्धे चन्द्रशेखरः ॥ १२७ ॥
गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः ॥
तत्स्तोत्रं कवचं पूजाविधानं ध्यानमेव च ॥ १२८ ॥
सर्वं तत्सामवेदोक्तं पुरश्चर्य्याक्रमं तथा ॥
गङ्गा तामेव सम्पूज्य वैकुण्ठं प्रययौ सती ॥ १२९ ॥
लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी ॥
एता नारायणस्यैव चतस्रो योषितो मुने॥2.11.१३०॥
अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच ह॥
सर्वकालस्य वृत्तान्तं दुर्बोध्यमविपश्चिताम्॥१३१॥
श्रीकृष्ण उवाच ॥
गृहाण गङ्गां हे ब्रह्मन् हे विष्णो हे महेश्वर ॥
शृणु कालस्य वृत्तान्तं यदतीतं निशामय ॥ १३२ ॥
यूयं च येऽन्यदेवाश्च मुनयो मनवस्तथा ॥
सिद्धास्तपस्विनश्चैव ये येऽत्रैव समागताः ॥१३३॥
ते ते जीवन्ति गोलोके कालचक्र विवर्जिते ॥
जलाप्लुतं सर्वविश्वमागतं प्राकृते लये ॥ १३४ ॥
ब्रह्माद्या येऽन्यविश्वस्थास्ते लीना अधुना मयि ॥
वैकुण्ठं च विना सर्वं सजलं पश्य पद्मज ॥ १३५ ॥
गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं परम् ॥
सब्रह्माण्डं विरचय पश्चाद्गङ्गा च यास्यति ॥ १३६ ॥
एवमन्येषु विश्वेषु सृष्ट्वा ब्रह्मादिकं पुनः ॥
करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ॥ १३७ ॥
मच्चक्षुषोर्निमेषेण ब्रह्मणः पतनं भवेत् ॥
गताः कतिविधास्ते च भविष्यन्ति च वेधसः ॥ १३८ ॥
इत्युक्त्वा राधिकानाथो जगामान्तःपुरं मुने ॥
देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः ॥१३९॥
गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके॥
ब्रह्मलोके तथाऽन्यत्र यत्र तत्र पुरा स्थिता ॥ 2.11.१४० ॥
तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः ॥
निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ॥ १४१ ॥
इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १४२ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे गङ्गोपाख्याने एकादशोऽध्यायः ॥ ११ ॥