नारद उवाच ॥
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ॥
गङ्गोपाख्यानमधुना वद वेदविदां वर ॥ १ ॥
भारतं भारतीशा पादाजगाम सुरेश्वरी ॥
विष्णुस्वरूपा परमा स्वयं विष्णुपदी सती ॥ २॥
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा ॥
तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ॥ ३
॥ नारायण उवाच ॥
राजराजेश्वरः श्रीमन्सगरः सृर्य्यवंशजः ॥
तस्य भार्या च वैदर्भी शैब्या च द्वे मनोहरे ॥ ४ ॥
सत्यस्वरूपः सत्येष्टः सत्यवाक्सत्यभावनः ॥
सत्यधर्मविचारज्ञः परं सत्ययुगोद्भवः ॥ ५ ॥
एककन्यश्चैकपुत्रो बभूव सुमनोहरः ॥
असमञ्ज इति ख्यातः शैब्यायां कुलवर्द्धनः ॥ ६ ॥
अन्या चाराधयामास शङ्करं पुत्रकामुकी ॥
बभूव गर्भस्तस्याश्च शिवस्य तु वरेण च ॥ ७ ॥
गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा ॥
तद्दृष्ट्वा च शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ॥८॥
शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह ॥
चकार संविभज्यैतत्पिण्डं षष्टिसहस्रधा ॥९ ॥
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमा ॥
ग्रीष्ममध्याह्नमार्त्तण्डप्रभाजुष्टकलेवराः ॥ 2.10.१० ॥
कपिलर्षेः कोपदृष्ट्या बभूवुर्भस्मसाच्च ते ॥
राजा रुरोद तच्छ्रुत्वा जगाम मरणं शुचा ॥ ११ ॥
तपश्चकारासमञ्जो गङ्गानयनकारणात् ॥
तपः कृत्वा लक्षवर्षं म्रियते कालयोगतः ॥ १२॥
दिलीपस्तस्य तनयो गङ्गानयनकारणात ॥
तपः कृत्वा लक्षवर्ष ययौ लोकान्तरं नृपः ॥ १३ ॥
अंशुमाँस्तस्य पुत्रश्च गङ्गानयनकारणात् ॥
तपः कृत्वा लक्षवर्षं मृतश्च कालयोगतः ॥ १४ ॥
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः ॥
वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ॥ १५ ॥
तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात् ॥
ददर्श कृष्णं हृष्टास्यं सूर्य्यकोटिसमप्रभम् ॥ १६ ॥
द्विभुजं मुरलीहस्तं किशोरं गोपवेषकम् ॥
परमात्मानमीशं च भक्तानुग्रहविग्रहम् ॥ १७ ॥
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं विभुम् ॥
ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्युतम् ॥ १८ ॥
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ॥
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥ १९ ॥
वह्निशुद्धां शुकाधानं रत्नभूषणभूषितम् ॥
तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनःपुनः ॥ 2.10.२० ॥
लीलया च वरं प्राप्य वाञ्छितं वंशतारकम् ॥
तत्राजगाम गङ्गा सा स्मरणात्परमात्मनः ॥ ॥ २१ ॥
तं प्रणम्य प्रतस्थौ च तत्पुरः सम्पुटाञ्जलिः ॥
उवाच भगवांस्तत्र तां दृष्ट्वा सुमनोहरम् ॥
कुर्वतीं स्तवनं दिव्यं पुलकाञ्चितविग्रहाम् ॥ २२
॥ श्रीकृष्ण उवाच ॥
भारतं भारतीशापाद्गच्छ शीघ्रं सुरेश्वरि ॥ २३ ॥
सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया ॥
त्वत्स्पर्शवायुना पूता यास्यन्ति मम मन्दिरम् ॥ २४ ॥
बिभ्रतो दिव्यमूर्त्तिं ते दिव्यस्यन्दनगामिनः ॥
मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः ॥ २५ ॥
कर्मभोगं समुच्छिद्य कृतं जन्मनि जन्मनि ॥
नानाविधं महत्स्वल्पं पापं स्याद्भारते नृभिः ॥ २६ ॥
गङ्गायाः स्पर्शवातेन नश्यतीति श्रुतौ श्रुतम् ॥
स्पर्शनं दर्शनाद्देव्याः पुण्यं दशगुणं ततः ॥ २७ ॥
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम्॥
कोटिजन्मार्जितं पापं नश्यतीति श्रुतौ श्रुतम्॥२८॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च॥
नानाजन्मार्जितान्येव कामतोऽपि कृतानि च ॥२९॥
तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् ॥
पुण्याहस्नानजं पुण्यं वेदा नैव वदन्ति च ॥ 2.10.३० ॥
केचिद्वदन्ति ते देवि फलमेव यथागमम् ॥
ब्रह्मविष्णुशिवायाश्च सर्वे नैव विदन्ति च ॥ ३१ ॥
सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि ॥
पुण्यं दशगुणं चैव मौसलस्नानतः परम् ॥ ३२ ॥
ततस्त्रिंशद्गुणं पुण्यं रविसङ्क्रमणे दिने ॥
अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने ॥३३॥
ततो दशगुणं पुण्यं नराणामुत्तरायणे ॥
चातुर्मास्यां पौर्णमास्यामनन्तं पुण्य मेव च ॥ ३४ ॥
अक्षयायां च तत्तुल्यं नैतद्वेदे निरूपितम् ॥
असङ्ख्यपुण्यफलदमेतेषु स्नानदानकम् ॥ ३५ ॥
सामान्यदिवसे स्नानं ध्यानाच्छतगुणं फलम् ॥
मन्वन्तरेषु देवेशि युगादिषु तथैव च ॥ ३६ ॥
माघस्य सितसप्तम्यां भीष्माष्टम्यान्तथैव च ॥
तथा ऽशोकाष्टमीतिथ्यां नवम्यां च तथा हरेः ॥ ३७ ॥
ततोऽपि द्विगुणं पुण्यं नन्दायां तव दुर्लभम् ॥
दशपापहरायां तु दशम्यां सुमहत्फलम् ॥ ३८ ॥
नन्दासमं च वारुण्यां महत्पूर्वं चतुर्गुणम् ॥
ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति ॥ ३९ ॥
पुण्यं कोटिगुणं चैव सामान्यस्नानतो भवेत् ॥
चन्द्रसूर्योपरागेषु स्मृतं दशगुणं ततः ॥ 2.10.४० ॥
पुण्येऽप्यर्द्धोदये काले ततः शतगुणं फलम् ॥
सर्वेषामेव सङ्कल्पो वैष्णवानां विपर्य्ययः ॥४१॥
फलसन्धानरहिता जीवन्मुक्ताश्च वैष्णवाः ॥
मत्प्रीतिभक्तिकामास्ते सर्वदा सर्वकर्मसु ॥४२॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेत्परः ॥
जीवन्मुक्तं वैष्णवं तं वेदाः सर्वे वदन्ति च ॥ ४३ ॥
पुरुषाणां शतं पूर्वं पैतृकं च परं शतम् ॥
मातामहस्य च शतं मातरं मातृमातरम्॥४४॥
भगिनीं भ्रातरं चैव भागिनेयं च मातुलम् ॥
श्वश्रुं च श्वशुरं चैव गुरुपत्नीं गुरोः सुतम् ॥ ४५ ॥
गुरुं च ज्ञानदातारं मित्रं च सहचारिणम् ॥
भृत्यं शिष्य तथा चेटीं प्रजाः स्वाश्रमसन्निधौ ॥ ४६ ॥
उद्धरेदात्मना सार्द्धं मन्त्रग्रहणमात्रतः ॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥ ४७ ॥
तस्य संस्पर्शनात्पूतं तीर्थं च भुवि भारते ॥
तस्यैव पादरजसा सद्यः पूता वसुन्धरा ॥ ४८ ॥
पादोदकस्थानमिदं तीर्थमेव भवेद्ध्रुवम् ॥
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम् ॥४९ ॥
खादन्ति नो वैष्णवाश्च सदा नैवेद्यभोजिनः ॥
विष्णोर्निवेदितान्नं च नित्यं ये भुञ्जते नराः ॥ 2.10.५० ॥
पूतानि सर्वतीर्थानि तेषां च स्पर्शनादहो ॥
विष्णोः पादोदकं पुण्यं नित्यं ये भुञ्जते नराः ॥ ५१ ॥
तत्पापानि पलायन्ते वैनतेयादिवोरगाः ॥
तेषां दर्शनमात्रेण पूतं च भुवनत्रयम् ॥ ५२ ॥
विष्णोः सुदर्शनं चक्रं सन्ततं तांश्च रक्षति ॥
मद्गुणश्रवणाद्ये च पुलकाङ्कितविग्रहाः॥ ॥ ५३ ॥
गद्गदाः साश्रुनेत्राश्च नरास्ते वैष्णवोत्तमाः ॥
पुत्रादपि परः स्नेहो मयि येषां निरन्तरम् ॥
गृहाद्याश्च मयि न्यस्तास्ते नराः वैष्णवोत्तमाः ॥ ५४ ॥
आब्रह्मस्तम्बपर्यन्तं मत्तः सर्वं चराचरम् ॥
सर्वेषामहमेवेश इतिज्ञा वैष्णवोत्तमाः ॥ ५५ ॥
असङ्ख्यकोटिब्रह्माण्डं ब्रह्मविष्णुशिवादयः ॥
प्रलये मयि लीयन्ते चेतिज्ञा वैष्णवोत्तमाः ॥ ५६॥
तेजःस्वरूपं परमं भक्तानुग्रहविग्रहम् ॥
स्वेच्छामयं निर्गुणं च निरीहं प्रकृतेः परम् ॥ ५७ ॥
सर्वे प्राकृतिका मत्त आविर्भूतास्तिरोहिताः॥
इति जानन्ति ये देवि ते नरा वैष्णवोत्तमाः ॥ ५८ ॥
इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः ॥
उवाच तं त्रिपथगा भक्तिनम्रात्मकन्धरा ॥५९॥
गङ्गोवाच ॥
यामि चेद्भारतं नाथ भारतीशापतः पुरा ॥
तवाज्ञया च राजेन्द्र तपसा चैव साम्प्रतम् ॥ 2.10.६० ॥
यानि कानि च पापानि मह्यं दास्यन्ति पापिनः ॥
तानि मे केन नश्यन्ति तदुपायं वद प्रभो ॥ ६१ ॥
कतिकालं परिमितं स्थितिर्मे तत्र भारते ॥
कदा यास्यामि सर्वेश त्वद्विष्णोः परमं पदम् ॥ ६२ ॥
ममान्यद्वाच्छितं यद्यत्सर्वं जानासि सर्ववित् ॥
सर्वान्तरात्मन्त्सर्वज्ञ तदुपायं वद प्रभो ॥ ६३ ॥
श्रीकृष्ण उवाच ॥
जानामि वाञ्छितं गङ्गे तव सर्वं सुरेश्वरि ॥
पतिस्ते रुद्ररूपोऽयं लवणोदो भविष्यति ॥ ६४ ॥
ममैवांशः समुद्रश्च त्वं च लक्ष्मीस्वरूपिणी ॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भुवि ॥ ६५ ॥
यावत्त्यः सन्ति नद्यश्च भारत्याद्याश्च भारते ॥
सौभाग्यं तव तास्वेव लवणोदस्य सौरते ॥ ६६ ॥
अद्यप्रभृति देवेशि कलेः पञ्च सहस्रकम् ॥
वर्षं स्थितिस्ते भारत्या भुवि शापेन भारते ॥ ६७ ॥
नित्यं वारिधिना सार्द्धं करिष्यसि रहो रतिम् ॥
त्वमेव रसिका देवी रसिकेन्द्रेण संयुता ॥ ६८ ॥
त्वां तोषयन्ति स्तोत्रेण भगीरथकृतेन च ॥
भारतस्था जनाः सर्वे पूजयिष्यन्ति भक्तितः ॥६९॥
ध्यानेन कौथुमोक्तेन ध्यात्वा त्वां पूजयिष्यति ॥
यः स्तौति प्रणमेन्नित्यं सोऽश्वमेधफलं लभेत् ॥ 2.10.७० ॥
गङ्गा गङ्गेति यो ब्रूयाद्यो जनानां शतैरपि ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥७१॥
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति ॥
मद्भक्तदर्शने तावत्तदैव हि विनश्यति ॥ ७२ ॥
पापिनां तु सहस्राणां शवस्पर्शेन यत्तव ॥
मन्मन्त्रोपासकस्नानात्तदघं च विनश्यति ॥ ७३ ॥
यत्र यत्र भवेद्गङ्गे मन्नामगुणकीर्त्तनम् ॥
तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनात् ॥ ७४ ॥
सार्द्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्या दिभिः शुभे ॥
तत्तु तीर्थं भवेत्सद्यो यत्र मद्गुणकीर्त्तनम् ॥ ७५ ॥
यद्रेणुस्पर्शमात्रेण पूतो भवति पातकी ॥
रेणुप्रमाणं वर्षं च स वैकुण्ठे वसेद् ध्रुवम् ॥७६॥
ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम् ॥
समुत्सृजन्ति प्राणांश्च ते गच्छन्ति हरेः पदम् ॥ ७७ ॥
पार्षदप्रवरास्ते च भविष्यन्ति हरेश्चिरम् ॥
असङ्ख्यकं प्राकृतिकं लयं द्रक्ष्यन्ति ते नराः ॥ ७८ ॥
मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ॥
प्रयाति स च वैकुण्ठं यावदस्थ्नां स्थितिस्त्वयि ॥ ७९ ॥
कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम् ॥
तस्मै ददामि सारूप्यं तं करोमि च पार्षदम् ॥ 2.10.८० ॥
अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ॥
तस्मै ददामि सारूप्यं तं करोमि पार्षदम् ॥ ८१ ॥
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥
तस्मै ददामि सालोक्यमसङ्ख्यप्रलयालयम् ॥ ८२ ॥
अन्यत्र वा त्यजेत्प्राणान्मन्नामस्मृतिपूर्वकम् ॥
तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः ॥ ८३ ॥
तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन ॥
मन्मन्त्रोपासकानां च नित्यं नैवेद्यभोजिनाम् ॥ ८४ ॥
पूतं कर्तुं स शक्तो हि लीलया भुवनत्रयम् ॥
रत्नेन्द्रसारयानेन लोकं स प्रयाति च ॥ ८५ ॥
मद्भक्तबान्धवा ये ये ते ते पुण्यधियः शुभे ॥
ते यान्ति रत्नयानेन गोलोकं च सुदुर्लभम् ॥८६॥
यत्र तत्र मृता ये च ज्ञानाज्ञानेन वा सति ॥
जीवन्मुक्ताश्च ते पूता भक्तसन्निधिमात्रतः ॥ ८७ ॥
इत्युक्त्वा श्रीहरिस्तां च तमुवाच भगीरथम् ॥
स्तुहि गङ्गामिमां भक्त्या पूजां कुरु च साम्प्रतम् ॥ ८८ ॥
भगीरथस्तां तुष्टाव पूजयामास भक्तितः ॥
ध्यानेन कौथुमोक्तेन स्तोत्रेण च पुनः पुन. ॥ ८९ ॥
श्रीकृष्णं प्रणनामाथ परमात्मानमीश्वरम् ॥
भगीरथश्च गङ्गां च सोऽन्तर्द्धाय गतो हरिः ॥ 2.10.९० ॥
नारद उवाच ॥
स्तोत्रेण केन ध्यानेन केन पूजाक्रमेण च ॥
पूजां चकार नृपतिर्वद वेदविदां वर ॥ ९१ ॥
श्रीनारायण उवाच ॥
स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी ॥
पादौ प्रक्षाल्य चाचम्य संयतो भक्तिपूर्वकम् ॥ ९२ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥
सम्पूजयेन्नरश्शुद्धः सोऽधिकारी च पूजने ॥ ९३ ॥
गणेशं विघ्ननाशाय निष्पापाय दिवाकरम् ॥
वह्निं स्वशुद्धये विष्णुं मुक्तये पूजयेन्नरः ॥ ९४ ॥
शिवं ज्ञानाय तदिनां शिवां बुद्धिविवृद्धये ॥
सम्पूज्यैतल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा ॥ ९५ ॥
दध्यावनेन तद्ध्यानं शृणु नारद तत्त्वतः ॥
ध्यानं च कौथुमोक्तं वै सर्वपापप्रणाशनम् ॥ ९६ ॥
श्वेतचम्पकवर्णाभां गङ्गां पापप्रणाशिनीम् ॥
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ॥ ९७ ॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥
शरत्पूर्णेन्दुशतकप्रभाजुष्टकलेवराम् ॥ ९८ ॥
ईषद्धासप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥
नारायणप्रियां शान्तां सत्सौभाग्यसमन्विताम ॥ ९९ ॥
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुताम् ॥
सिन्दूरबिन्दुललितां सार्द्धं चन्दनबिन्दुभिः ॥ 2.10.१०० ॥
कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ॥
पक्वबिम्बसमानैकचार्वोष्ठपुटमुत्तमम् ॥ १०१ ॥
मुक्तापङ्क्तिप्रभाजुष्टदन्तपङ्क्तिमनोहराम् ॥
सुचारुवक्रनयनां सकटाक्षमनोरमाम् ॥ १०२ ॥
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ॥
बृहच्छ्रोणीं सुकठिनां रम्भास्तम्भपरिष्कृताम् ॥ १०३ ॥
स्थलपद्मप्रभाजुष्टपादपद्मयुगन्धराम् ॥
रत्नाभरणसंयुक्तं कुङ्कुमाक्तं सयावकम् ॥ १०४ ॥
देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ॥
सुरसिद्धमुनीन्द्रादिदत्तार्घ्यैस्संयुतं सदा ॥ १०५ ॥
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ॥
मुक्तिप्रदं मुमुक्षूणां कामिनां स्वर्गभोगदम् ॥ १०६ ॥
वरां वरेण्यां वरदां भक्तानुग्रहकातराम् ॥
श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ॥ १०७ ॥
इति ध्यानेन चानेन ध्यात्वा त्रिपथगां शुभाम् ॥
दत्त्वा सम्पूजयेद्ब्रह्मन्नुपहारांश्च षोडश ॥ १०८ ॥
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ॥
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ॥ १०९ ॥
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ॥
मनोहरं सुतल्पं च देयान्येतानि षोडश ॥2.10.११०॥
दत्त्वा भक्त्या सम्प्रणमेत्स्तुत्वा तां सम्पुटाञ्जलिः ॥
सम्पूज्यैवम्प्रकारेण सोऽश्वमेधफलं लभेत् ॥१११॥
स्तोत्रं वै कौथुमोक्तं च संवादं विष्णुवेधसोः ॥
शृणु नारद वक्ष्यामि पापघ्नं च सुपुण्यदम्॥११२॥
श्रीब्रह्मोवाच ॥
श्रोतुमिच्छामि देवेश लक्ष्मीकान्त नमः प्रभो ॥
विष्णो विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम् ॥ ११३ ॥
श्रीनारायण उवाच ॥
शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गद्रवोद्भवाम् ॥
राधाङ्गद्रवसम्भूतां तां गङ्गां प्रणमाम्यहम् ॥ ११४ ॥
या जन्मसृष्टेरादौ च गोलोके रासमण्डले ॥
सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ ॥ ११५ ॥
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ॥
कार्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥ ११६ ॥
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः ॥
समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥११७॥
षष्टिलक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा॥
समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥११८॥
विंशल्लक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा ॥
आवृता ब्रह्मलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ११९ ॥
त्रिंशल्लक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ॥
आवृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ 2.10.१२० ॥
षड्योजनसुविस्तीर्णा दैर्घ्ये दशगुणा ततः ॥
मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ १२१ ॥
लक्षयोजनविर्स्तार्णा दैर्घ्ये सप्तगुणा ततः ॥
आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२२ ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः ॥
आवृता चन्द्र लोकं या तां गङ्गां प्रणमाम्यहम् ॥१२३॥
योजनैष्षष्टिसाहस्रैर्दैर्घ्ये दशगुणा ततः ॥
आवृता सृर्य्यलोकं या तां गङ्गां प्रणमाम्यहम्॥ ॥ १२४ ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये षङ्गुणिता ततः ॥
आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२५ ॥
दशलक्षै र्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ॥
आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम् ॥१२६॥
सहस्रयोजना या च दैर्घ्ये सप्तगुणा ततः ॥
आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२७ ॥
सहस्रयोजनाऽऽयामे दैर्घ्ये सप्तगुणा ततः ॥
आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम्॥१२८॥
पाताले या भोगवती विस्तीर्णा दशयोजना ॥
ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥१२९॥
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा न कुत्रचित् ॥
क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ 2.10.१३० ॥
सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा ॥
द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् ॥१३१॥
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ॥
स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ १३२ ॥
यस्याः प्रभाव अतुलः पुराणे च श्रुतौ श्रुतः ॥
या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम् ॥ १३३ ॥
यत्तोयकणिकास्पर्शः पापिनां च पितामह ॥
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ १३४ ॥
इत्येवं कथितं ब्रह्मन्गङ्गापद्यैकविंशतिम् ॥
स्तोत्ररूपं च परमं पापघ्नं पुण्यबीजकम् ॥ १३५ ॥
नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् ॥
अश्वमेधफलं नित्यं लभते नात्र संशयः॥१३६॥
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ॥
रोगान्मुच्येत रोगी च बद्धो मुच्येत बन्धनात् ॥ १३७ ॥
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ॥
यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ ॥१३८॥
शुभं भवेत्तु दुःस्वप्नं गङ्गास्नानफलं लभेत् ॥१३९॥
नारायण उवाच ॥
भगीरथोऽनया स्तुत्या स्तुत्वा गङ्गां च नारद ॥
जगाम तां गृहीत्वा च यत्र नष्टश्च सागराः ॥ 2.10.१४० ॥
वैकुण्ठं ते ययुस्तूर्णं गङ्गायाः स्पर्शवायुना ॥
भगीरथेन साऽऽनीता तेन भागीरथी स्मृता ॥ १४१ ॥
इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ॥
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १४२ ॥
नारद उवाच ॥
शिवसङ्गीतसम्मुग्धे श्रीकृष्णे द्रवतां गते ॥
द्रवतां च गतायां च राधायां किं बभूव ह ॥ १४३ ॥
तत्रस्थाश्च जना ये ये ते च किं चक्रुरुद्यमम् ॥
एतत्सर्वं सुविस्तीर्णं प्रभो वक्तुमिहार्हसि॥१४४॥
नारायण उवाच ॥
कार्त्तिकीपूर्णिमायां च राधायाः सुमहोत्सवे ॥
कृष्णः सम्पूज्य तां राधामवसद्रासमण्डले ॥ १४५ ॥
कृष्णेन पूजितां तां तु सम्पूज्यादृतमानसाः ॥
ऊचुर्ब्रह्मादयः सर्वे ऋषयः सनकादयः ॥ १४६ ॥
एतस्मिन्नन्तरे कृष्ण सङ्गीतं च सरस्वती ॥
जगौ सुन्दरतानेन वीणया च मनोहरम् ॥ १४७ ॥
तुष्टो ब्रह्मा ददौ तस्यै महारत्नाढ्यमालिकाम् ॥
शिरोमणीन्द्रसारं च सर्वब्रद्माण्डदुर्लभम् ॥ १४८ ॥
कृष्णः कौस्तुभरत्नं च सर्व रत्नात्परं वरम् ॥
अमूल्यरत्नखचितं हारसारं च राधिका ॥ १४९ ॥
नारायणश्च भगवन्वनमालां मनोहराम् ॥
अमूल्यरत्नकलितं लक्ष्मीर्मकरकुण्डलम् ॥ 2.10.१५० ॥
विष्णुमाया भगवती मूलप्रकृतिरीश्वरी ॥
दुर्गा नारायणीशानी विष्णुभक्तिं सुदुर्लभाम् ॥ १५१ ॥
धर्मबुद्धिं च धर्मस्तु यशश्च विपुलं भवे ॥
वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरम् ॥ १५२ ॥
एतस्मिन्नन्तरे शम्भुर्ब्रह्मणा प्रेरितो मुहुः ॥
जगौ श्रीकृष्णसङ्गीतं रासोल्लाससमन्वितम् ॥ १५३ ॥
मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा ॥
क्षणेन चेतनां प्राप्य ददृशू रासमण्डलम् ॥ १५४ ॥
स्थलं सर्वं जलाकीर्णं हीनराधाहरिं तथा ॥
अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः ॥ १५५ ॥
ध्यानेन धाता बुबुधे सर्वमेतदभीप्सितम् ॥
गतश्च राधया सार्द्धं श्रीकृष्णो द्रवतामिति ॥ १५६ ॥
ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम् ॥
स्वमूर्त्तिं दर्शय विभो वाञ्छितं वरमेव नः ॥ १५७ ॥
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥
तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरां शुभाम् ॥ १५८ ॥
सर्वात्माऽहमियं शक्तिर्भक्तानुग्रहविग्रहा ॥
ममाप्यस्याश्च हे देवा देहेन च किमावयोः ॥ १५९ ॥
मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ॥
मन्मन्त्रपूता मां द्रष्टुमागमिष्यन्ति मत्पदम् ॥ 2.10.१६० ॥
मूर्तिं द्रष्टुं च सुव्यग्रा यूयं यदि सुरेश्वराः ॥
करोति शम्भुस्तत्रैव मदीयं वाक्यपालनम् ॥ १६१ ॥
स्वयं विधाता त्वं ब्रह्मन्नाज्ञां कुरु जगद्गुरो ॥
कर्तुं शास्त्रविशेषं च वेदाङ्गं सुमनोहरम् ॥ १६२ ॥
अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः ॥
स्तोत्रैश्च कवचैर्ध्यानैर्युतं पूजाविधिक्रमैः ॥ १६३ ॥
मन्मन्त्रं कवचं स्तोत्रं कृत्वा यत्नेन गोपय ॥
भवन्ति विमुखा येन जनानां यत्करि ष्यति ॥ १६४ ॥
सहस्रेषु शतेष्वेको मन्मन्त्रोपासको भवेत् ॥
ते ते जना मन्त्रपूताश्चागमिष्यन्ति मत्पदम् ॥ ॥ १६५ ॥
अन्यथा च भविष्यन्ति सर्वे गोलोकवासिनः ॥
निष्फलं भविता सर्वं ब्रह्माण्डं चैव वेधसः ॥ १६६ ॥
जनाः पञ्चप्रकाराश्च युक्ताः स्रष्टुर्भवे भवे ॥
पृथिवीवासिनः केचित्केचित्स्वर्गनिवासिन ॥ १६७ ॥
अधोनिवासिनः केचिद्ब्रह्मलोकनिवासिनः ॥
केचिद्वा वै ष्णवाः केचिन्मम लोकनिवासिनः ॥ १६८ ॥
इदं कर्तुं महादेवः करोतु सुरसंसदि ॥
प्रतिज्ञां सुदृढां सद्यस्ततो मूर्तिं च पश्यसि ॥ १६९ ॥
इत्येवमुक्त्वा गगने विरराम सनातनः ॥
तद्दृष्ट्वा च जगन्नाथस्तमुवाच शिवं मुदा ॥2.10.१७०॥
ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः ॥
गङ्गातोयं करे धृत्वा स्वीचकार वचस्तु सः ॥ १७१ ॥
संयुक्तं विष्णुमायाद्यैर्मन्त्राद्यैः शास्त्रमुत्तमम् ॥
वेदसारं करिष्यामि कृष्णाज्ञापालनाय च ॥ १७२ ॥
गङ्गातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः ॥
स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः ॥ १७३ ॥
इत्युक्ते शङ्करे ब्रह्मन्गोलोके सुरसंसदि ॥
आविर्बभूव श्रीकृष्णो राधया सह तत्परः ॥ १७४ ॥
ते तं दृष्ट्वा च संहृष्टाः संस्तूय पुरुषोत्तमम् ॥
परमानन्दपूर्णाश्च चक्रुश्च पुनरुत्सवम् ॥ १७५ ॥
कालेन शम्भुर्भगवाञ्छास्त्रदीपं चकार सः ॥
इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् ॥ १७६ ॥
सा चैवं द्रवरूपा या गङ्गा गोलोकसम्भवा ॥
राधाकृष्णाङ्गसम्भूता भुक्तिमुक्तिफलप्रदा ॥ १७७ ॥
स्थाने स्थाने स्थापिता सा कृष्णेन परमात्मना ॥
कृष्णस्वरूपा परमा सर्वब्रह्माण्डपूजिता ॥ १७८ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे गङ्गोपाख्यानं नाम दशमोऽध्यायः॥१०॥