००९

नारद उवाच॥
भूमिदानकृतं पुण्यं पापं तद्धरणेन यत् ॥
परभूमौ श्राद्धरूपं कूपे कुपदजं तथा ॥ १ ॥
अम्बुवीचीभूखननबीजत्यागजमेव च ॥
दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः ॥ २ ॥
अन्यद्वा पृथिवीजन्यं पापं यत्प्रश्नतः परम् ॥
यदस्ति तत्प्रतीकारं वद वेदविदां वर ॥३॥
नारायण उवाच॥
वितस्तिमात्रं भूमिं च यो ददाति च भारते॥
सन्ध्यापूताय विप्राय स यायाद्विष्णुमन्दिरम् ॥४॥
भूमिं च सर्वसस्याढ्या ब्राह्मणाय ददाति यः॥
भूमिरेणुप्रमाणे च वर्षे विष्णुपदे वसेत्॥५॥
ग्रामं भूमिं च धान्यं च यो ददात्याददाति यः ॥
सर्वपापाद्विनिर्मुक्तौ चोभौ वैकुण्ठवासिनौ ॥ ६ ॥
भूमिदानं च तत्काले यः साधुश्चानुमोदते ॥
स प्रयाति च वैकुण्ठं मित्रगोत्रसमन्वितः ॥ ७ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ॥
कालसूत्रे तिष्ठति स यावच्चन्द्रदिवाकरौ ॥ ८ ॥
तत्पुत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः ॥
सुखहीनो दरिद्रः स्यादन्ते याति च रौरवम् ॥ ९ ॥
गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति सः ॥
दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति ॥ 2.9.१० ॥
गोष्ठं तडागं निष्कृष्य मार्गं सस्यं ददाति यः ॥
स च तिष्ठत्यसीपत्रे यावदिन्द्राश्चतुर्दश ॥ ११ ॥
न पञ्चपिण्डमुद्धृत्य स्नाति कूपे परस्य यः॥
प्राप्नोति नरकं चैव न स्नानफलमेव च ॥१२॥
कामी भूमौ च रहसि बीजत्यागं करोति यः ॥
स्निग्धरेणुप्रमाणं च वर्षं तिष्ठति रौरवे ॥ १३ ॥
अम्बुवीच्यम्बुखननं यः करोति च मानवः ॥
स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम् ॥ १४ ॥
परकीये लुप्तकूपे कूपं मूढः करोति यः ॥
पुष्करिण्यां च लुप्तायां तां ददाति च यो नरः ॥ १५ ॥
सर्वं फलं परस्यैव तप्तसूर्मिं व्रजेत्तु सः ॥
तत्र तिष्ठति सन्तप्तो यावदिद्राश्चतुर्दश ॥ १५ ॥
परकीयतडागे च पङ्कमुद्धृत्य चोत्सृजेत् ॥
रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः ॥१७॥
पिण्डं पित्रे भूतिभर्त्तुर्न प्रदाय च मानवः ॥
श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ॥ १८ ॥
भूमौ दीपं योऽर्पयति सोऽन्धः सप्तसु जन्मसु ॥
भूमौ शङ्खं च संस्थाप्य कुष्ठं जन्मान्तरे लभेत् ॥ १९ ॥
मुक्तामाणिक्यहीरं च सुवर्णं च मणिं तथा ॥
यश्च संस्थापयेद्भूमौ दरिद्रः सप्तजन्मसु ॥ 2.9.२० ॥
शिवलिङ्गं शिलामर्च्यां यश्चार्पयति भूतले ॥
शतमन्वन्तरं यावत्कृमिभक्षे स तिष्ठति ॥२१॥
सूक्तं मन्त्रं शिलातोयं पुष्पं च तुलसीदलम् ॥
यश्चार्पयति भूमौ च स तिष्ठेन्नरके युगम् ॥२२॥
जपमालां पुष्पमालां कर्पूरं रोचनां तथा ॥
यो मूढश्चार्पयेद्भूमौ स याति नरकं ध्रुवम् ॥ २३ ॥
मुने चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् ॥
संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि ॥ २४ ॥
पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेत्तु यः॥
न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः॥२९॥
ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम्॥
ग्रन्थियुक्तं यज्ञसूत्रं पूज्यं स्यात्सर्ववर्णकैः ॥ २६ ॥
यज्ञं कृत्वा तु यो भूमिं क्षीरेण नहि सिञ्चति॥
स याति तप्तसूर्मिं च सन्तप्तः सर्वजन्मसु ॥२७॥
भूकम्पे ग्रहणे यो हि करोति खननं भुवः ॥
जन्मान्तरे महापापी सोऽङ्गहीनो भवेद्ध्रुवम् ॥२८॥
भवनं यत्र सर्वेषां भूमिस्तन प्रकीर्त्तिता॥।
वसुरत्नं या दधाति वसुधा च वसुन्धरा॥२९॥
हरेरूरौ च या जाता सा चोर्वी परिकीर्त्तिता ॥
धरा धरित्री धरणी सर्वेषां धरणात्तु या ॥ 2.9.३० ॥
इज्या च यागभरणात्क्षोणी क्षीणा लये च या ॥
महालये क्षयं याति क्षितिस्तेन प्रकीर्तिता ॥ ३१ ॥
काश्यपी कश्यपस्येयमचला स्थितिरूपतः ॥
विश्वम्भरा तद्धरणाच्चानन्ताऽनन्तरूपतः ॥ ३२ ॥
पृथ्वी पृधुककन्यात्वाद्विस्तृतत्वान्मही मुने ॥ ३३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनाराणयसंवादे पृथिव्युपाख्यानं नाम नवमोऽध्यायः ॥ ९ ॥