००८

नारद उवाच ॥
हरेर्निमेषमात्रेण ब्रह्मणः पात एव च ॥
तस्य पाते प्राकृतिकः प्रलयः परिकीर्त्तितः ॥ १ ॥
प्रलये प्राकृते चोक्तं तत्रादृष्टा वसुन्धरा ॥
जलप्लुतानि विश्वानि सर्वे लीना हराविति ॥ २ ॥
वसुन्धरा तिरोभूता कुत्र वा तत्र तिष्ठति ॥
सृष्टेर्विधानसमये साऽऽविर्भूता कथं पुनः ॥ ३ ॥
कथं बभूव सा धन्या मान्या सर्वाश्रया जया ॥
तस्याश्च जन्मविस्तारं वद मङ्गलकारणम् ॥ ४ ॥
श्रीनारायण उवाच ॥
सर्वादिसृष्टौ सर्वेषां जन्म कृष्णादिति श्रुतिः ॥
आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥५॥
श्रूयतां वसुधाजन्म सर्वमङ्गलमङ्गलम् ॥
विघ्ननिघ्नं परं पाप नाशनं पुण्यवर्द्धनम् ॥ ६ ॥
अहो केचिद्वदन्तीति मधुकैटभमेदसा ॥
बभूव वसुधा धन्या तद्विरुद्धमतं शृणु ॥ ७ ॥
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ॥
आवां जहि न यत्रोर्वी पयसा संवृतेति च ॥ ८ ॥
तयोर्जीवनकालेन प्रत्यक्षा च भवेत्स्फुटम् ॥
ततो बभूव मेदश्च मरणानन्तरं तयोः ॥ ९ ॥
मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ॥
जलधौता कृशा पूर्वं वर्द्धिता मेदसा यतः ॥ 2.8.१० ॥
कथयामि च तज्जन्म सार्थकं सर्वसम्मतम् ॥
पुरा श्रुतं च श्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ॥ ११ ॥
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ॥
मलो बभूव कालेन सर्वाङ्गव्यापको ध्रुवम् ॥ १२ ॥
स च प्रविष्टः सर्वेषां तल्लोम्नां विवरेषु च ॥
कालेन महता तस्माद्बभूव वसुधा मुने ॥१३॥
प्रत्येकं प्रतिलोम्नां च स्थिता कूपेषु सा स्थिरा ॥
आविर्भूता तिरोभूता सा चला च पुनः पुनः ॥ १४ ॥
आविर्भूता सृष्टिकाले तज्जलात्पर्य्युपस्थिता ॥
प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता ॥ १५ ॥
प्रतिविश्वेषु वसुधा शैलकाननसंयुता ॥
सप्तसागरसंयुक्ता सप्तद्वीपमिता सती ॥ १५ ॥
हिमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ॥
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तथा नुता ॥ १७ ॥
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ॥
काञ्चनीभूमिसंयुक्ता सर्वदुर्गसमन्विता ॥ १८ ॥
पातालाः सप्त तदधस्तदूर्ध्वे ब्रह्मलोककः ॥
ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥ १९ ॥
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि वै ॥
ऊर्ध्वं गोलोकवैकुण्ठौ नित्यौ विश्वपरौ च तौ ॥ 2.8.२० ॥
नश्वराणि च विश्वानि कृत्रिमाकृत्रिमाणि च ॥
प्रलये प्राकृते ब्रह्मन्ब्रह्मणश्च निपातने ॥ २१ ॥
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥
नित्ये स्थितः स प्रलये काष्ठाकाशेश्वरैः सह ॥ २२ ॥
क्षित्यधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥
मनुभिर्मुनिभिर्विप्रैर्गन्धर्वादिभिरेव च ॥ २३ ॥
विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता ॥
तत्पुत्रो मङ्गलो ज्ञेयः सुयशा मङ्गलात्मजः ॥ २४ ॥
नारद उवाच ॥
पूजिता केन रूपेण वाराहे च सुरैर्मही ॥
वराहेण च वाराही सर्वैः सर्वाश्रया सती ॥ २५ ॥
तस्याः पूजाविधानं चाप्यधश्चोद्धरणक्रमम् ॥
मङ्गलं मङ्गलस्यापि जन्मव्यासं वद प्रभो ॥ २६ ॥
नारायण उवाच ॥
वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा ॥
उद्दधार महीं हत्वा हिरण्याक्षं रसातलात् ॥ २७ ॥
जले तां स्थापयामास पद्मपत्रं यथाऽर्णवे ॥
तत्रैव निर्ममे ब्रह्मा सर्वं विश्वं मनोहरम् ॥ २८ ॥
दृष्ट्वा तदधि देवीं च सकामां कामुको हरिः ॥
वराहरूपी भगवान्कोटिसूर्य्यसमप्रभः ॥ २९ ॥
कृत्वा रतिकरीं शय्यां मूर्त्तिं च सुमनोहराम् ॥
क्रीडां चकार रहसि दिव्यवर्षमहर्निशम् ॥ 2.8.३० ॥
सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी ॥
विदग्धाया विदग्धेन सङ्गमोऽपि सुखप्रदः ॥ ३१ ॥
विष्णुस्तदङ्गसंश्लेषाद् बुबुधे न दिवानिशम् ॥
वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ॥३२॥
दधार पूर्वरूपं हि वाराहं चैव लीलया ॥
पूजां चकार भक्त्या च ध्यात्वा च धरणीं सतीम् ॥ ३३ ॥
धूपैर्दीपैश्च नैवद्यैः सिन्दूरैरनुलेपनः ॥
वस्त्रैः पुष्पैश्च बलिभिः सम्पूज्योवाच तां हरिः ॥ ३४ ॥
महावराह उवाच ॥
सर्वाधारा भव शुभे सर्वैः सम्पूजिता शुभम् ॥
मुनिभिर्मनुभिर्देवैः सिद्धैर्वा मानवादिभिः ॥ ३९ ॥
जलोच्छ्वासाज्जलत्यागगृहारम्भप्रवेशने ॥
वापीतडागारम्भे च शुभे च कृषि कर्मणि ॥ ३६ ॥
तव पूजां करिष्यन्ति सम्भ्रमेण सुरादयः ॥
मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते ॥ ३७ ॥
वसुधोवाच ॥
वहामि सर्वं वाराहरूपेणाहं तवाज्ञया ॥
लीलामात्रेण भगवन्विश्वं च सचराचरम् ॥ ३८ ॥
मुक्तां शुक्तिं हरेरर्चां शिवलिङ्गं शिलां तथा ॥
शङ्खं प्रदीपं रत्नं च माणिक्यं हीरकं मणिम् ॥ ३९ ॥
यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् ॥
जपमालां पुष्पमालां कर्पूरं च सुवर्णकम् ॥ 2.8.४० ॥
गोरोचनां चन्दनं च शालग्रामजलं तथा ॥
एतान्वोढुमशक्ताऽहं क्लिष्टा च भगवञ्छृणु ॥ ४१ ॥
श्रीभगवानुवाच ॥
द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि ॥
यास्यन्ति ते कालसूत्रं दिव्यं वर्षशतं त्वयि ॥ ४२ ॥
इत्येवमुक्त्वा भगवान्विरराम च नारद ॥
बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ॥४३॥
पूजां चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः ॥
दध्युः काण्वोक्तमार्गेण तुष्टुवुः स्तवनेन च ॥ ४४ ॥
दद्युर्मूलेन मन्त्रेण नैवेद्यादिकमेव च ॥
संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह ॥ ४५ ॥
नारद उवाच ॥
किं ध्यानं स्तवनं किं वा तस्या मूलं च किं वद ॥
गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ॥ ४६ ॥
नारायण उवाच ॥
आदौ च पृथिवी देवी वराहेण सुपूजिता ॥
ततो हि ब्रह्मणा पश्चात्ततश्च पृथुना पुरा ॥ ४७ ॥
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्नारदादिभिः ॥
ध्यानं च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद ॥ ४८ ॥
ॐ ह्रीं श्रीं वां वसुधायै स्वाहा ॥
इत्यनेन तु मन्त्रेण पूजिता विष्णुना पुरा ॥ ४९ ॥
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ॥
चन्दनोक्षितसर्वाङ्गीं सर्वभूषणभूषिताम् ॥ 2.8.५० ॥
रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम् ॥
वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे ॥ ५१ ॥
ध्यानेनानेन सा देवी सर्वैर्वै पूजिता भवेत् ॥
स्तवनं शृणु विप्रेन्द्र कण्वशाखोक्तमेव च ॥५२॥
विष्णुरुवाच ॥
यज्ञसूकरजाया त्वं जयं देहि जयावहे ॥
जयेऽजये जयाधारे जयशीले जयप्रदे ॥ ५३ ॥
सर्वाधारे सर्वबीजे सर्वशक्तिसमन्विते ॥
सर्वकामप्रदे देवि सर्वेष्टं देहि मे स्थिरे ॥ ९४ ॥
सर्वसस्यालये सर्वसस्याड्ये सर्वसस्यदे ॥
सर्वसस्यहरे काले सर्वसस्यात्मिके क्षिते ॥ ५५ ॥
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे ॥
मङ्गलार्थे मङ्गलांशे मङ्गलं देहि मे परम् ॥ ५६ ॥
भूमे भूमिपसर्वस्वे भूमिपालपरायणे ॥
भूमिपाहङ्काररूपे भूमिं देहि वसुन्धरे ॥ ५७ ॥
इदं स्तोत्रं महापुण्यं तां सम्पूज्य च यः पठेत् ॥
कोट्यन्तरे जन्मनि स सम्भवेद्भूमिपेश्वरः ॥ ॥ ५८ ॥
भूमिदानकृतं पुण्यं लभते पठनाज्जनः ॥
दत्तापहारजात्पापान्मुच्यते नात्र संशयः ॥ ५९ ॥
अम्बुवीचीभूखननात्पापान्मुच्येत स ध्रुवम् ॥
अन्यकूपे कुपदजात्पापान्मुच्येत स ध्रुवम् ॥ 2.8.६० ॥
परभूश्राद्धजात्पापान्मुच्यते नात्र संशयः ॥
भूमौ वीर्य्यत्यागपापाद्दीपादिस्थापनात्तथा ॥ ६१ ॥
पापेन मुच्यते प्राज्ञः स्तोत्रस्य पठनान्मुने ॥
अश्वमेधशतं पुण्यं लभते नात्र संशयः॥ ६२ ॥
इति श्रीब्रह्मवैर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे पृथिव्युपाख्याने पृथिवीस्तोत्रं नामाष्टमोऽध्यायः॥८॥