नारायण उवाच ॥
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ॥
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा॥१॥
गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह॥
तदाऽऽजगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥ २ ॥
सम्प्राप्य तपसा सूर्य्यं कोणार्के दृष्टिगोचरे ॥
तुष्टाव सूर्य्यं शोकेन रुरोद च पुनः पुनः ॥ ३ ॥
सूर्य्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः ॥
उवाच स्तुहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥ ४ ॥
तमित्युक्त्वा दीननाथो ह्यन्तर्द्धानं जगाम सः ॥
मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥५॥
याज्ञवल्क्य उवाच ॥
कृपां कुरु जगन्मातर्मामेवं हततेजसम्॥
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्॥६॥
ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते ॥
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम्॥७॥
ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ॥
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ ८ ॥
लुप्तां सर्वां दैववशान्नवां कुरु पुनः पुनः ॥
यथाऽङ्कुरं जनयति भगवान्योगमायया ॥ ९ ॥
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ॥
सर्वविद्याधिदेवी या तस्यै वाण्ये नमो नमः ॥ 2.5.१० ॥
यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ॥
ज्ञानाघिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ११ ॥
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ॥
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ १२ ॥
हिमचन्दनकुन्देन्दुकुमुदाम्भोज सन्निभा ॥
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ १३ ॥
विसर्गबिन्दुमात्राणां यदधिष्ठानमेव च ॥
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥१४॥
यया विनाऽत्र सङ्ख्याकृत्सङ्ख्यां कर्त्तुं न शक्नुते ॥
कालसङ्ख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ ॥ १५ ॥
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ॥
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥ १६ ॥
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्तिस्वरूपिणी ॥
प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः ॥ १७ ॥
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥
बभूव जडवत्सोऽपि सिद्धान्तं कर्त्तुमक्षमः ॥ १८॥
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥
उवाच सत्तमं स्तोत्रं वाण्या इति विधिं तदा ॥ १९ ॥
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥
चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥ 2.5.२० ॥
यदाऽप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ॥
बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥२१॥
तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया॥
ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ॥ २२ ॥
व्यासः पुराणसूत्रं च समपृच्छत वाल्मिकिम् ॥
मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥२३॥
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ॥
स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥२४॥
पुराणसूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः॥
त्वां सिषेवे च दध्यौ च शतवर्षं च पुष्करे ॥
तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ॥२५॥
तदा वै वेदभागं च पुराणानि चकार ह ॥
यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् ॥ २६ ॥
क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं ददौ विभुः ॥
पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ॥ २७ ॥
दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥
तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ॥
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ २८ ॥
अध्यापिताश्च यैः शिष्या यैरधीतं मुनीश्वरैः ॥
ते च त्वां परिसञ्चिन्त्य प्रवर्त्तन्ते सुरेश्वरि ॥ २९ ॥
त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः ॥
दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ 2.5.३० ॥
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ॥
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥३१ ॥
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ॥
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ ३२ ॥
तदा ज्योतिस्त्वरूपा सा तेनादृष्टाऽप्युवाच तम् ॥
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ॥ ३३ ॥
याज्ञवल्क्यकृतं वाणीस्तोत्रं यः संयतः पठेत् ॥
स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ॥ ३४ ॥
महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ॥
स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥३५॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे याज्ञवल्क्योक्तवाणीस्तवनं नाम पञ्चमोऽध्यायः॥ ॥ ५ ॥