००४

नारद उवाच ॥
श्रुतं सर्वमपूर्वं च त्वत्प्रसादात्सुधोपमम् ॥
अधुना प्रकृतीनां च व्यासं वर्णय भो प्रभो ॥ १ ॥
कस्याः पूजा कृता केन कथं मर्त्ये प्रका शिता ॥
केन वा पूजिता का वा केन का वा स्तुता मुने ॥२॥
कवचं स्तोत्रकं ध्यानं प्रभावं चरितं शुभम् ॥
काभिः काभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
नारायण उवाच ॥
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ॥
सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ ४ ॥
आसीत्पूज्या प्रसिद्धा च प्रभावः परमाद्भुतः ॥
सुधोपमं च चरितं सर्वमङ्गलकारणम् ॥ ५ ॥
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् ॥
सर्वं वक्ष्यामि ते ब्रह्मन्सावधानं निशामय ॥ ६ ॥
वाणी वसुन्धरा गङ्गा षष्ठी मङ्गलच ण्डिका ॥
तुलसी मानसी निद्रा स्वधा स्वाहा च दक्षिणा ॥ ७ ॥
तेजसा मत्समास्ताश्च रूपेण च गुणेन च ॥ ८ ॥
सङ्क्षेपमासां चरितं पुण्यदं अतिसुन्दरम् ॥
जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥ ९ ॥
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ॥
तच्च पश्चात्प्रवक्ष्यामि सङ्क्षेपात्क्रमतः शृणु ॥ 2.4.१० ॥
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ॥
यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥ ११ ॥
आविर्भूता यदा देवी वक्त्रतः कृष्णयोषितः ॥
इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ १२ ॥
स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् ॥
तामुवाच हितं सत्यं परिणामसुखावहम् ॥ १३ ॥
श्रीकृष्ण उवाच ॥
भज नारायणं साध्वि मदंशं च चतुर्भुजम् ॥
युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ १४ ॥
कामदं कामिनीनां च तासां तं कामपूरकम् ॥
कोटिकन्द र्पलावण्यं लीलान्यक्कृतमन्मथम् ॥ १५ ॥
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ॥
त्वत्तो बलवती राधा न ते भद्रं भविष्यति ॥ १६ ॥
यो यस्माद्बलवान्वाऽपि ततोऽन्यं रक्षितुं क्षमः ॥
कथं परान्साधयति यदि स्वयमनीश्वरः ॥ १७ ॥
सर्वेशस्सर्वशास्ताऽहं राधां राधितुमक्षमः ॥
तेजसा मत्समा सा च रूपेण च गुणेन च ॥ १८ ॥
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः ॥
प्राणतोऽपि प्रियः कुत्र केषां वाऽस्ति च कश्चन ॥ १९ ॥
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ॥
पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥ 2.4.२० ॥
विवर्जिता लोभमोहकामकोपेन हिंसया ॥
तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥ २१ ॥
तया सार्द्धं भव प्रीत्या सुखं कालं प्रयास्यति ॥
गौरवं चापि तत्तुल्यं करिष्यति पतिर्द्वयोः ॥ २२ ॥
प्रतिविश्वेषु ते पूजां महतीं ते मुदाऽन्विताः ॥
माघस्य शुक्लपञ्चम्यां विद्यारम्भेषु सुन्दरि ॥ २३ ॥
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ॥
सन्तश्च योगिनः सिद्धा नागगन्धर्वकिन्नराः ॥ २४ ॥
मद्वरेण करिष्यन्ति कल्पे कल्पे यथाविधि ॥
भक्तियुक्ताश्च दत्त्वा वै चोपचारांश्च षोडश ॥२५॥
काण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ॥
जितेन्द्रियाः संयताश्च पुस्तकेषु घटेऽपि च ॥ २६ ॥
कृत्वा सुवर्णगुटिकां गन्धचन्दन चर्च्चिताम् ॥
कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥ २७ ॥
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ॥
इत्युक्त्वा पूजयामास तां देवीं सर्वपूजितः ॥ २८ ॥
ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुमहेश्वराः ॥
अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥२९॥
सर्वे देवाश्च मनवो नृपा वा मानवादयः ॥
बभूव पूजिता नित्या सर्वलोकैः सरस्वती ॥ 2.4.३० ॥
नारद उवाच ॥
पूजाविधानं स्तवनं ध्यानं कवचमीप्सितम् ॥
पूजोपयुक्तं नैवेद्यं पुष्पं वा चन्दनादिकम् ॥ ३१ ॥
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ॥
वर्द्धते साम्प्रतं शश्वत्किमिदं श्रुतिसुन्दरम् ॥ ३२ ॥
नारायण उवाच ॥
शृणु नारद वक्ष्यामि काण्वशाखोक्तपद्धतिम् ॥
जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम्॥३३॥
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च॥
पूर्वेऽह्नि संयमं कृत्वा तत्र स्यात्संयतः शुचिः ॥३४॥
स्नात्वा नित्यक्रियां कृत्वा घटं संस्थाप्य भक्तितः॥
सम्पूज्य देवषट्कं च नैवेद्यादिभिरेव च॥३५॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्॥
सम्पूज्य संयतोऽग्रे च ततोऽभीष्टं प्रपूजयेत् ॥ ३६ ॥
ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे बुधः ॥
ध्यात्वा पुनः षोडशोपचारैस्तां पूजयेद्व्रती ॥३७॥
पूजोपयुक्तं नैवेद्यं यद्यद्वेदे निरूपितम् ॥
वक्ष्यामि साम्प्रतं किञ्चिद्यथाऽधीतं यथाऽऽगमम् ॥ ३८ ॥
नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकान् ॥
इक्षुमिक्षुरसं शुक्लवर्णं पक्वगुडं मधु ॥ ३९ ॥
स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम्॥
अस्विन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ॥ 2.4.४० ॥
घृतसैन्धवसंस्कारैर्हविष्यैर्व्यञ्जनैस्तथा ॥
यवगोधूमचूर्णानां पिष्टकं घृतसंस्कृ तम् ॥ ४१ ॥
पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ॥
परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् ॥ ४२ ॥
नारिकेलं तदुदकं केशरं मूलमार्द्रकम् ॥
पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् ॥
कालदेशोद्भवं पक्वफलं शुक्लं सुसंस्कृतम् ॥ ४३ ॥
सुगन्धि शुक्लपुष्पं च गन्धाढ्यं शुक्लचन्दनम् ॥
नवीनं शुक्लवस्त्रं च शङ्खं च सुमनोहरम् ॥
माल्यं च शुक्लपुष्पाणां मुक्ताहीरादिभूषणम् ॥। ॥ ४४ ॥
यद्दृष्टं च श्रुतौ ध्यानं प्रशस्तं श्रुतिसुन्दरम् ॥
तन्निबोध महाभाग भ्रमभञ्जनकारणम् ॥ ४५ ॥
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ॥
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहाम् ॥ ४६ ॥
वह्निशुद्धांशुकाधानां सस्मितां सुमनोहराम् ॥
रत्नसारेन्द्र खचितवरभूषणभूषिताम् ॥ ४७ ॥
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥
वन्दे भक्त्या वन्दिता तां मुनीन्द्रमनुमानवैः ॥ ४८॥
एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ॥
संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि ॥ ४९ ॥
येषां स्यादिष्टदेवीयं तेषां नित्यं शुभं मुने ॥
विद्यारम्भे च सर्वेषां वर्षान्ते पञ्चमीदिने ॥ 2.4.५० ॥
सर्वोपयुक्तमूलं च वैदिकाष्टाक्षरः परः ॥
येषां यदुपदेशो वा तेषां तन्मूलमेव च ॥
सरस्वती चतुर्थ्यन्तो वह्निजायान्त एव च ॥ ५१ ॥
श्रीं ह्रीं सरस्वत्यै स्वाहा ॥
लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः ॥ ५२ ॥
पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ॥
प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते ॥ ५३ ॥
भृगुर्ददौ च शुक्राय पुष्करे सूर्य्यपर्वणि ॥
चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा ॥ ५४ ॥
भृगवे च ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ॥
आस्तीकाय जरत्कारुर्ददौ क्षीरोदसन्निधौ ॥
विभाण्डको ददौ मेरावृष्यशृङ्गाय धीमते ॥ ५५ ॥
शिवः कणादमुनये गौतमाय ददौ मुने ॥
सूर्य्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥ ५६ ॥
शेषः पाणिनये चैव भरद्वाजाय धीमते ॥
ददौ शाकटायनाय सुतले बलिसंसदि ॥ ५७ ॥
चतुर्लक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥
यदि स्यात्सिद्धमन्त्रो हि बृहस्पतिसमो भवेत् ॥ ५८ ॥
कवचं शृणु विप्रेन्द्र यद्दत्तं विधिना पुरा ॥
विश्वश्रेष्ठं विश्वजयं भृगवे गन्धमादने ॥ ५९ ॥
भृगुरुवाच ॥
ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्म ज्ञानविशारद ॥
सर्वज्ञ सर्वजनक सर्वपूजकपूजित ॥ 2.4.६० ॥
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ॥
अयातयाममन्त्राणां समूहो यत्र संयुतः ॥ ६१ ॥
ब्रह्मोवाच ॥
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ॥
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ६२ ॥
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ॥
रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ६३ ॥
अतीव गोपनीयं च कल्पवृक्षसमं परम् ॥
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ ६४ ॥
यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः ॥
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ॥ ६५ ॥
पठनाद्धारणाद्वाग्ग्मी कवीन्द्रो वाल्मिकी मुनिः ॥
स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥ ६६ ॥
कणादो गौतमः कण्वः पाणिनिः शाकटायनः ॥
ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ ६७ ॥
धृत्वा वेदविभागं च पुराणान्यखिलानि च ॥
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ ६८ ॥
शातातपश्च संवर्त्तो वसिष्ठश्च पराशरः ॥
यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ ६९ ॥
ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा ॥
जैगीषव्योऽथ जाबालि यद्धृत्वा सर्व पूजितः ॥ 2.4.७० ॥
कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ॥
स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ॥७१॥
सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने ॥
कवितासु च सर्वासु विनियोगः प्रकीर्त्तितः ॥ ७२ ॥
ॐ ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ॥
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ॥ ७३ ॥
ॐ सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् ॥
ॐ श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ ७४ ॥
ॐ ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु ॥
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा श्रोत्रं सदाऽवतु ॥ ॥ ७५ ॥
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तीः सदाऽवतु ॥
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ॥ ७६ ॥
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ॥
श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥ ७७ ॥
ॐ ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ॥
ॐ ह्रीं ह्रीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ॥ ७८ ॥
ॐ सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ॥
ॐ रागाधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु॥७९॥
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु ॥
ॐ ह्रीं जिह्वाप्रवासिन्यै स्वाहाऽग्नि दिशि रक्षतु ॥ 2.4.८० ॥
ॐ ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा ॥
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥ ८१ ॥
ॐ ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां मे सदाऽवतु ॥
कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ ८२ ॥
ॐ सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ॥
ॐ गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ८३ ॥
ॐ सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ॥
ॐ सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥ ८४ ॥
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ॥
ॐ ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ॥ ८५ ॥
इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ॥
इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥ ८६ ॥
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ॥
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ ८७ ॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कार चन्दनैः ॥
प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥ ८८ ॥
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ॥
यदि स्यात्सिद्धकवचो बृह स्पतिसमो भवेत ॥ ८९ ॥
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ॥
शक्नोति सर्वं जेतुं स कवचस्य प्रभावतः ॥2.4.९०॥
इदं ते काण्वशाखोक्तं कथितं कवचं मुने॥
स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा॥९१॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ॥ ४ ॥