००२

नारद उवाच ॥
समासेन श्रुतं सर्वं देवीनां चरितं विभो ॥
विबोधनार्थं बोधस्य व्यासतो वक्तुमर्हसि ॥१॥
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह ॥
कथं वा पञ्चधा भूता वद वेदविदां वर ॥ २ ॥
भूता या याश्च कलया तया त्रिगुणया भवे ॥
व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ॥ ३ ॥
तासां जन्मानुकथनं ध्यानं पूजाविधिं परम् ॥
स्तोत्रं कवचमैश्वर्य्यं शौर्यं वर्णय मङ्गलम् ॥ ४ ॥
श्रीनारायण उवाच ॥
नित्यात्मा च नभो नित्यं कालो नित्यो दिशो यथा ॥
विश्वेषां गोकुलं नित्यं नित्यो गोलोक एव च ॥ ५ ॥
तदेकदेशो वैकुण्ठो लम्बभागः स नित्यकः ॥
तथैव प्रकृतिर्नित्या ब्रह्मलीना सनातनी ॥ ६ ॥
यथाऽग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ॥
शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि ॥ ७ ॥
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ॥
विना मृदा कुलालो हि घटं कर्तुं न हीश्वरः ॥ ॥ ८ ॥
नहि क्षमस्तथा ब्रह्मा सृष्टिं स्रष्टुं तया विना ॥
सर्वशक्तिस्वरूपा सा तया स्याच्छक्तिमान्सदा ॥ ९ ॥
ऐश्वर्य्यवचनः शक् च तिः पराक्रमवाचकः ॥
तत्स्वरूपा तयोर्दात्री या सा शक्तिः प्रकीर्तिता ॥ 2.2.१० ॥
समृद्धिबुद्धिसम्पत्तियशसां वचनो भगः ॥
तेन शक्तिर्भगवती भगरूपा च सा सदा ॥ ११ ॥
तया युक्तः सदाऽऽत्मा च भगवांस्तेन कथ्यते ॥
स च स्वेच्छामयः कृष्णः साकारश्च निराकृतिः ॥ १२ ॥
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ॥
वदन्ति ते परं ब्रह्म परमात्मानमीश्वरम् ॥ १३ ॥
अदृश्यं सर्व द्रष्टारं सर्वज्ञं सर्वकारणम् ॥
सर्वदं सर्वरूपान्तमरूपं सर्वपोषकम्॥ १४ ॥
वैष्णवास्ते न मन्यन्ते तद्भक्ताः सूक्ष्मदर्शिनः॥
वदन्ति कस्य तेजस्ते इति तेजस्विनं विना ॥१५॥
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम्॥
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम्॥१६॥
अतीवसुन्दरं रूपं बिभ्रतं सुमनोहरम् ॥
किशोरवयसं शान्तं सर्वकान्तं परात्परम् ॥१७॥
नवीननीरदाभासं रासैकश्यामसुन्दरम् ॥
शरन्मध्याह्नपद्मौघशोभामोचकलोचनम् ॥ १८ ॥
मुक्तासारमहास्वच्छदन्तपङ्क्तिमनोहरम् ॥
मयूरपुच्छचूडं च मालतीमाल्यमण्डितम् ॥१९॥
सुनासं सस्मितं शश्वद्भक्तानुग्रहकारकम् ॥
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ॥2.2.२०॥
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् ॥ २१ ॥
सर्वैश्वर्य्यप्रदं सर्वं स्वतन्त्रं सर्वमङ्गलम् ॥
परिपूर्णतमं सिद्धं सिद्धि दं सिद्धिकारणम् ॥ २२ ॥
ध्यायन्ते वैष्णवाः शश्वदेवंरूपं सनातनम् ॥
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ २३ ॥
ब्रह्मणो वयसा यस्य निमेष उपचार्य्यते ॥
स चात्मा परमं ब्रह्म कृष्ण इत्यभिधीयते ॥ २४ ॥
कृषिस्तद्भक्तिवचनो नश्च तद्दास्यकारकः ॥
भक्तिदास्यप्रदाता यः स कृष्णः परिकीर्तितः ॥ २५ ॥
कृषिश्च सर्ववचनो नकारो बीजवाचकः ॥
सर्वबीजं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ २५ ॥
असङ्ख्यब्रह्मणा पाते कालेऽतीतेऽपि नारद ॥
यद्गुणानां नास्ति नाशस्तत्समानो गुणेन च ॥ २७ ॥
स कृष्णः सर्वसृष्ट्यादौ सिसृक्षुस्त्वेक एव च ॥
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ २८ ॥
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह ॥
स्त्रीरूपा वामभागांशाद्दक्षिणांशः पुमान्स्मृतः ॥ २९ ॥
तां ददर्श महाकामी कामाधारः सनातनः ॥
अतीव कमनीयां च चारुचम्पकसन्निभाम् ॥ 2.2.३० ॥
पूर्णेन्दुबिम्बसदृशनितम्वयुगलां पराम् ॥
सुचारुकदलीस्तम्भसदृशश्रोणिसुन्दरीम् ॥ ३१ ॥
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ॥
पुष्ट्या युक्तां सुललितां मध्यक्षीणां मनोहराम् ॥ ३२ ॥
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् ॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ ३३ ॥
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सन्ततं मुदा ॥
कृष्णस्य सुन्दरमुखं चन्द्रकोटिविनिन्दकम् ॥ ३४ ॥
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ॥
समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम् ॥ ३५ ॥
सुवक्रकबरीभारं मालतीमाल्यभूषितम् ॥
रत्नेन्द्रसारहारं च दधतीं कान्तकामुकीम् ॥ ३६ ॥
कोटिचन्द्रप्रभाजुष्टपुष्टशोभासमन्विताम् ॥
गमने राजहंसीं तां दृष्ट्या खञ्जनगञ्जनीम् ॥ ३७ ॥
अतिमात्रं तया सार्द्धं रासेशो रासमण्डले ॥
रासोल्लासेषु रहसि रासक्रीडां चकार ह॥३८॥
नानाप्रकारशृङ्गारं शृङ्गारो मूर्त्तिमानिव॥
चकार सुखसम्भोगं यावद्वै ब्रह्मणो वयः ॥३९॥
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता ॥
चकार वीर्य्याधानं च नित्यानन्दः शुभक्षणे ॥ 2.2.४० ॥
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ॥
निस्ससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ ४१ ॥
महासुरतखिन्नाया निश्वासश्च बभूव ह ॥
तदाधारश्रमजलं तत्सर्वं विश्वगोलकम् ॥ ४२५ ॥
स च निःश्वासवायुश्च सर्वाधारो बभूव ह ॥
निश्श्वासवायुः सर्वेषां जीविनां च भवेषु च ॥ ४३ ॥
बभूव मूर्त्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा ॥
तत्पत्नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम् ॥ ४४ ॥
प्राणोऽपानः समानश्चैवोदानो व्यान एव च ॥
बभूवुरेव तत्पुत्रा अधःप्राणाश्च पञ्च च ॥ ४९ ॥
घर्मतोयाधिदेवश्च बभूव वरुणो महान् ॥
तद्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा ॥ ४६ ॥
अथ सा कृष्णशक्तिश्च कृष्णाद्गर्भं दधार ह ॥
शतमन्वन्तरं यावज्ज्वलन्तो(ती?) ब्रह्मतेजसा ॥ ४७ ॥
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ॥
कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षस्थलस्थिता ॥ ४८ ॥
शतमन्वन्तरातीते काले परमसुन्दरी ॥
सुषावाण्डं सुवर्णाभं विश्वाधारालयं परम् ॥ ४९ ॥
दृष्ट्वा चाण्डं हि सा देवी हृदयेन विदूयता ॥
उत्ससर्ज च कोपेन तदण्डं गोलके जले ॥ 2.2.५० ॥
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार द॥।
शशाप देवीं देवेशस्तत्क्षणं च यथोचितम् ॥ ५१ ॥
यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे ॥
भव त्वमनपत्याऽपि चाद्यप्रभृति निश्चितम् ॥ ५२ ॥
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ॥
अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः ॥ ५३ ॥
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः ॥
आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥ ५४ ॥
पीतवस्त्रपरीधाना वीणापुस्तकधारिणी ॥
रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ॥ ५९ ॥
अथ कालान्तरे सा च द्विधारूपा बभूव ह ॥
वामार्द्धाङ्गा च कमला दक्षिणार्द्धा च राधिका ॥ ५६ ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव ह ॥
दक्षिणार्द्धस्स्याद्द्विभुजो वामार्द्धश्च चतुर्भुजः ॥ ५७ ॥
उवाच वाणीं श्रीकृष्णस्त्वमस्य भव कामिनी॥
अत्रैव मानिनी राधा नैव भद्रं भविष्यति ॥ ५८ ॥
एवं लक्ष्मीं सम्प्रदौ तुष्टो नारायणाय वै ॥
सञ्जगाम च वैकुण्ठं ताभ्यां सार्द्धं जगत्पतिः ॥ ५९ ॥
अनपत्ये च ते द्वे च यतो राधांशसम्भवे॥
नारायणाङ्गादभवन्पार्षदाश्च चतुर्भुजाः ॥ 2.2.६० ॥
तेजसा वयसा रूपगुणाभ्यां च समा हरेः ॥
बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः ॥ ६१ ॥
अथ गोलोकनाथस्य लोमाविवरतो मुने ॥
आसन्नसङ्ख्यगोपाश्च वयसा तेजसा समाः ॥ ६२ ॥
रूपेण सुगुणेनैव वेषाद्वा विक्रमेण च ॥
प्राणतुल्याः प्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ ६३ ॥
राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ॥
राधातुल्याश्च सर्वास्ता नान्यतुल्याः प्रियंवदाः ॥ ६४ ॥
रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः ॥
अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम् ॥ ६५ ॥
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः ॥
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ॥ ६६ ॥
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी ॥
बुद्ध्यधिष्ठातृदेवी सा कृष्णस्य परमात्मनः ॥६७॥
देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी॥
परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ॥ ६८ ॥
तप्तकाञ्चनवर्णाभा सूर्य्यकोटिसमप्रभा ॥
ईषद्धासप्रसन्नास्या सहस्रभुजसंयुता ॥ ६९ ॥
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना ॥
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ॥ 2.2.७० ॥
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः ॥
सर्वविश्वस्थिता लोका मोहिता मायया यया ॥ ७१ ॥
सर्वैश्वर्य्यप्रदात्री च कामिनां गृहमेधिनाम् ॥
कृष्णभक्ति प्रदात्री च वैष्णवानां च वैष्णवी ॥ ७२ ॥
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी॥
स्वर्गेषु स्वर्गलक्ष्मीः सा गृहलक्ष्मीर्गृहेष्वसौ॥ ॥।७३॥
तपस्विषु तपस्या च श्रीरूपा सा नृपेषु च ॥
या चाग्नौ दाहिकारूपा प्रभारूपा च भास्करे ॥ ७४ ॥
शोभास्वरूपा चन्द्रे च पद्मेषु च सुशोभना ॥
सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ॥ ७९ ॥
यया च शक्तिमानात्मा यया वै शक्तिमज्जगत् ॥
यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ॥ ७६ ॥
या च संसारवृक्षस्य बीजरूपा सनातनी ॥
स्थितिरूपा बुद्धिरूपा फलरूपा च नारद ॥ ७७ ॥
क्षुत्पिपासा दया श्रद्धा निद्रा तन्द्रा क्षमा धृतिः ॥
शान्तिर्लज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ॥ ७८ ॥
सा च संस्तूय सर्वेशं तत्पुरः समुपस्थिता ॥
रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ ७९ ॥
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ॥
पद्मनाभो नाभिपद्मान्निस्ससार पुमान्मुने ॥ 2.2.८० ॥
कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः ॥
चतुर्मुखस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ॥ ८१ ॥
सुदती सुन्दरी श्रेष्ठा शतचन्द्रसमप्रभा ॥
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ॥ ८२ ॥
रत्नसिंहासने रम्ये स्तुता वै सर्वकारणम् ॥
उवास स्वामिना सार्द्ध कृष्णस्य पुरतो मुदा ॥ ८३ ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ॥
वामार्द्धाङ्गो महादेवो दक्षिणो गोपिकापतिः ॥ ८४ ॥
शुद्धस्फटिकसङ्काशः शतकोटिरविप्रभः ॥
त्रिशूलपट्टिशधरो व्याघ्रचर्मधरो हरः ॥ ८९ ॥
तप्तकाञ्चनवर्णाभ जटाभारधरः परः ॥
भस्मभूषणगात्रश्च सस्मितश्चन्द्रशेखरः ॥ ८६ ॥
दिगम्बरो नीलकण्ठः सर्प भूषणभूषितः ॥
बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम् ॥ ८७ ॥
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् ॥
सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम् ॥ ८८ ॥
कारणं कारणानां च सर्वमङ्गलमङ्गलम् ॥
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ ८९ ॥
संस्तूय मृत्योर्मृत्युं तं जातो मृत्युञ्जयाभिधः ॥
रत्नसिंहासने रम्ये समुवास हरेः पुरः ॥ 2.2.९० ॥
इति श्रीब्र०महापु० द्वि० प्रकृ० नारायणनारदसंवादे देवदेव्युत्पत्तिर्नाम द्वितीयोऽध्यायः ॥ २ ॥