०२९

सौतिरुवाच ॥
ददर्शाश्रममाश्चर्य्यं देवर्षिर्नारदस्तथा ॥
ऋषिर्नारायणस्यैव बदरीवनसंयुतम् ॥ १ ॥
नानावृक्षफलाकीर्णं पुंस्कोकिलरुतश्रुतम् ॥
शरभेन्द्रैः केसरीन्द्रैर्व्याघ्रौघैः परिवेष्टितम् ॥ २ ॥
ऋषीन्द्रस्य प्रभावेण हिंसाभयविवर्जितम् ॥
महारण्यमगम्यं च स्वर्गादपि मनोहरम् ॥ ३ ॥
सिद्धेन्द्राणां मुनीन्द्राणामाश्रमाणां त्रिकोटिभिः ॥
आवृतं चन्दनारण्यैः पारिजातवनान्वितम् ॥ ४ ॥
ददर्श तमृषीन्द्रं च सभामध्ये मनोहरम् ॥
रत्नसिंहासनस्थं च वसन्तं योगिनां गुरुम् ॥ ५ ॥
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ॥
प्रणनाम च तं दृष्ट्वा ब्रह्मपुत्रश्च शौनक ॥ ६ ॥
उत्थाय सहसाऽऽलिङ्ग्य युयुजे परमाशिषम् ॥
पप्रच्छ कुशलं स्नेहाच्चकारातिथिपूजनम् ॥७॥
रत्नसिंहासने रम्ये वासयामास नारदम् ॥
निवसन्नासने रम्ये वर्त्मश्रमविवर्जितः ॥ ८ ॥
उवाच तमृषिश्रेष्ठं भगवन्तं सनातनम् ॥
अधीत्य वेदान्सर्वांश्च पितुः स्थाने सुदुर्गमान् ॥९॥
ज्ञानं सम्प्राप्य योगीन्द्रान्मन्त्रं वै शङ्कराद्विभो ॥
मनो मे न हि तृप्नोति दुर्निवारं च चञ्चलम् ॥1.29.१ ०॥
दृष्टं मया त्वत्पदाब्जं मनसा प्रेरितेन च ॥
किञ्चिज्ज्ञानविशेषं च लब्धुमिच्छामि साम्प्रतम् ॥ ११ ॥
यत्र कृष्णगुणाख्यानं जन्ममृत्युजरापहम् ॥ १२ ॥
ब्रह्मविष्णुशिवाद्याश्च सुरेन्द्रश्च सुरा विभो ॥
कं चिन्तयन्ति मुनयो मनवश्च विचक्षणाः॥१३॥
कस्मात्सृष्टिश्च भवति कुत्र वा सम्प्रलीयते॥
को वा सर्वेश्वरो विष्णुः सर्वकारणकारकः॥१४॥
तस्येश्वरस्य किं रूपं कर्म वा किं जगत्पते ॥
विचार्य्य मनसा सर्वं तद्भवान्वक्तुमर्हति॥१५॥
नारदस्य वचः श्रुत्वा प्रहस्य भगवानृषिः॥
कथां कथितुमारेभे पुण्यां भुवनपावनीम् ॥ १६ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारायणं प्रति नारदप्रश्नो नामैकोनत्रिंशत्तमो
ऽध्यायः ॥ २९ ॥