नारद उवाच ॥
श्रुतं सर्वं जगन्नाथ त्वत्प्रसादाज्जगद्गुरो ॥
भवान्ब्रह्मस्वरूपं च वद ब्रह्मनिरूपणम् ॥ १ ॥
प्रभो किं ब्रह्म साकारं किं निराकारमीश्वर ॥
किं तद्विशेषणं किं वाऽप्यविशेषणमेव च ॥२॥
किं वा दृश्यमदृश्यं वा लिप्तं देहिषु किं न वा ॥
किं वा तल्लक्षणं शास्त्रे वेदे वा किं निरूपितम् ॥ ३ ॥
ब्रह्मातिरिक्ता प्रकृतिः किं वा ब्रह्मस्वरूपिणी ॥
प्रकृतेर्लक्षणं किं वा सारभूतं श्रुतौ श्रुतम्॥४॥
प्राधान्यं तस्य सृष्टौ च द्वयोर्मध्ये वरं परम् ॥
विचार्य्य मनसा सर्वं सर्वज्ञ वद मां ध्रुवम् ॥५॥
नारदस्य वचः श्रुत्वा पञ्चवक्त्रः प्रहस्य च ॥
भगवान्कर्तुमारेभे परब्रह्मनिरूपणम् ॥ ६ ॥
महादेव उवाच ॥
यद्यत्पृष्टं त्वया वत्स निगूढं ज्ञानमुत्तमम् ॥
सुदुर्लभं च वेदेषु पुराणेषु च नारद ॥ ७ ॥
अहं ब्रह्मा च विष्णुश्च शेषो धर्मो महान्विराट्॥
सर्वं निरूपितं ब्रह्मन्नस्माभिः श्रुतिभिर्मुने ॥ ८ ॥
यद्विशेषणयुक्तं च दृश्यं प्रत्यक्षमेव च ॥
तन्निरूपितमस्माभिर्वेदे वेदविदांवर॥९॥
वैकुण्ठे च पुरा पृष्टे धर्मेण ब्रह्मणा तदा ॥
यदुवाच हरिः किञ्चिन्निबोध कथयामि ते ॥1.28.१०॥
सारभूतं च तत्त्वानामज्ञानान्धकलोचनम्॥
द्वैधभ्रमतमोध्वंस सुप्रकृष्टप्रदीपकम्॥११॥
परमात्मस्वरूपं च परं ब्रह्म सनातनम्॥
सर्वदेहस्थितं साक्षिस्वरूपं देहिकर्मणाम्॥१२॥
प्राणाः पञ्च स्वयं विष्णुर्मनो ब्रह्मा प्रजापतिः ॥
सर्वज्ञानस्वरूपोऽहं शक्तिः प्रकृतिरीश्वरी ॥ १३ ॥
आत्माधीना वयं सर्वे स्थिते तस्मिन्वयं स्थिताः ॥
गते गताश्च परमे नरदेवमिवानुगाः ॥ १४ ॥
जीवस्तत्प्रतिबिम्बं च सर्वभोगी हि कर्मणाम् ॥
यथाऽर्कचन्द्रयो र्बिम्बं जलपूर्णघटेषु च ॥ १५ ॥
बिम्बं घटेषु भग्नेषु प्रलीनं चन्द्रसूर्य्ययोः ॥
तथा लयप्रसङ्गे स जीवो ब्रह्मणि लीयते ॥ १६ ॥
एकमेव परं ब्रह्म शेषे वत्स भवक्षये ॥
वयं प्रलीनास्तत्रैव जगदेतच्चराचरम् ॥ १७ ॥
तच्च ज्योतिःस्वरूपं च मण्डलाकारमेव च ॥।
ग्रीष्ममध्याह्नमार्त्तण्डकोटिकोटिसमप्रभम्॥१८॥
आकाशमिव विस्तीर्णं सर्वव्यापकमव्ययम्॥
सुखदृश्यं यथा चन्द्रबिम्बं योगिभिरेव च ॥ १९ ॥
वदन्ति योगिनस्तत्र परं ब्रह्म सनातनम् ॥
दिवानिशं च ध्यायन्ते सत्यं तत्सर्वमङ्गलम् ॥ 1.28.२० ॥
निरीहं च निराकारं परमात्मानमीश्वरम् ॥
स्वेच्छामयं स्वतन्त्रं च सर्वकारणकारणम् ॥ २१ ॥
परमानन्दरूपं च परमानन्दकारणम् ॥
परं प्रधानं पुरुषं निर्गुणं प्रकृतेः परम् ॥
तत्रैव लीना प्रकृतिः सर्वबीजस्वरूपिणी ॥ २२ ॥
यथाऽग्नौ दाहिका शक्तिः प्रभा सूर्य्ये यथा मुने॥
यथा दुग्धे च धावल्यं जले शैत्यं यथैव च ॥ २३ ॥
यथा शब्दश्च गगने यथा गन्धः क्षितौ सदा ॥
तथा हि निर्गुणं ब्रह्म निर्गुणा प्रकृतिस्तथा ॥ २४ ॥
सृष्ट्युन्मुखेन तद् ब्रह्म चांशेन पुरुषः स्मृतः ॥
स एव सगुणो वत्स प्राकृतो विषयी स्मृतः ॥ २५ ॥
त्रिगुणा सा हि तत्रैव परा च्छायामयी स्मृता॥२६॥
यथा मृदा कुलालश्च घटं कर्तुं क्षमः सदा॥
तथा प्रकृत्या तद्ब्रह्म सृष्टिं स्रष्टुं क्षमो मुने॥२७॥
स्वर्णेन कुण्डलं कर्त्तुं स्वर्णकारः क्षमो यथा ॥
तथा ब्रह्म तया सार्द्ध सृष्टिं कर्तुमिहेश्वरः ॥ २८ ॥
कुलालसृष्टा न च मृन्नित्या चैव सनातनी ॥
न स्वर्णकारसृष्टं तत्स्वर्णं वा नित्यमेव च ॥ २९ ॥
नित्यं तत्परमं ब्रह्म नित्या च प्रकृतिः स्मृता ॥
द्वयोः समं च प्राधान्यमिति केचिद्वदन्ति हि ॥ 1.28.३० ॥
मृदं स्वर्णं समाहर्तुं कुलालस्वर्णकारकौ ॥
न समर्थौ च मृत्स्वर्णं तयोराहरणे क्षमम् ॥ ३१ ॥
तस्मात्तत्प्रकृतेर्ब्रह्म परमेव च नारद ॥
इति केचिद्वदन्त्येवं द्वयोर्वै नित्यता ध्रुवम् ॥ ३२ ॥
केचिद्वदन्ति तद्ब्रह्म स्वयं च प्रकृतिः पुमान् ॥
ब्रह्मातिरिक्ता प्रकृतिर्वदन्तीति च केचन ॥ ३३ ॥
तद्ब्रह्म परमं धाम सर्वकारणकारणम् ॥
तद्ब्रह्मलक्षणं ब्रह्मन्निदं किञ्चिच्छ्रुतौ श्रुतम् ॥ ३४ ॥
ब्रह्म चात्मा च सर्वेषां निर्लिप्तं साक्षिरूपि च ॥
सर्वव्यापि च सर्वादि लक्षणं च श्रुतौ श्रुतम्॥३५॥
तद्ब्रह्मशक्तिः प्रकृतिः सर्वबीजस्वरूपिणी ॥
यतस्तच्छक्तिमद्ब्रह्म चेदं प्रकृतिलक्षणम् ॥ ३६ ॥
तेजोरूपं च तद्ब्रह्म ध्यायन्ते योगिनः सदा ॥
वैष्णवास्तन्न मन्यन्ते मद्भक्ताः सूक्ष्मबुद्धयः ॥ ३७ ॥
तत्तेजः कस्य नाश्चर्य्यं ध्यायन्ते पुरुषं विना ॥
कारणेन विना कार्य कुतो वा प्रभवेद्भुवि ॥ ३८ ॥
ध्यायन्ते वैष्णवास्तस्मात्तत्र रूपं मनोहरम् ॥
स्वेच्छामयस्य पुंसश्च साकारस्यात्मनः सदा ॥ ३९ ॥
तत्तेजोमण्डलाकारे सूर्य्यकोटिसमप्रभे ॥
नित्यं स्थलं च प्रच्छन्नं गोलोकाभिधमेव च ॥1.28.४०॥
लक्षकोट्या योजनानां चतुरस्रं मनोहरम् ॥
रत्नेन्द्रसारनिर्माणैर्गोपीभिश्चावृतं सदा ॥४१॥
सुदृश्यं वर्तुलाकारं यथा चन्द्रस्य मण्डलम् ॥
नानारत्नैश्च खचितं निराधारं तदिच्छया ॥ ४२ ॥
ऊर्ध्वं च नित्यवैकुण्ठात्पञ्चाशत्कोटियोजनम् ॥
गोगोपगोपीसंयुक्तं कल्पवृक्षसमन्वितम् ॥ ४३ ॥
कामधेनुभिराकीर्णं रासमण्डलमण्डितम् ॥
वृन्दावनवनाच्छत्रं विरजावेष्टितं मुने ॥ ४४ ॥
शतशृङ्गं शातकुम्भैः सुदीप्तं श्रीमदीप्सितम् ॥ ।
लक्षकोट्या परिमितैराश्रमैः सुमनोहरैः ॥ ४५ ॥
शतमन्दिरसंयुक्तमाश्रमं सुमनोहरम् ॥
प्राकारपरिखायुक्तं पारिजातवनान्वितम्॥ ॥ ४६ ॥
कौस्तुभेन्द्रेण मणिना राजितं परमोज्ज्वलम् ॥
हीरसारसुसङ्क्लृप्तसोपानैश्चातिसुन्दरैः ॥ ४७ ॥
मणीन्द्रसाररचितैः कपाटैर्दर्पणान्वितैः ॥
नानाचित्रविचित्राढ्यैराश्रमं च सुसंस्कृतम् ॥ ४८ ॥
षोडशद्वारसंयुक्तं सुदीप्तं रत्नदीपकैः ॥
रत्नसिंहासने रम्ये महार्घमणिनिर्मिते ॥ ४९ ॥
नानाचित्रविचित्राढ्ये वसन्तं वरमीश्वरम् ॥
नवीननीरदश्यामं किशोरवयसं शिशुम् ॥ 1.28.५० ॥
शरन्मध्याह्नमार्त्तण्डप्रभामोचकलोचनम् ॥
शरत्पार्वणपूर्णेन्दुशुभदीप्तिमदाननम् ॥ ५१ ॥
कोटिकन्दर्पलावण्यलीलानिन्दितमन्मथम् ॥
कोटिचन्द्रप्रभाजुष्टं पुष्टं श्रीयुक्तविग्रहम् ॥५२॥
सस्मितं मुरलीहस्तं सुप्रशस्तं सुमङ्गलम् ॥
परमोत्तमपीतांशुकयुगेन समुज्ज्वलम् ॥ ५३ ॥
चन्दनोक्षितसर्वाङ्गं कौस्तुभेन विराजितम् ॥
आजानु मालतीमालावनमालाविभूषितम् ॥ ५४ ॥
त्रिभङ्गभङ्ग्या संयुक्तं मणिमाणिक्यभूषितम् ॥
मयूरपुच्छचूडं च सद्रत्नमुकुटोज्ज्वलम् ॥५५॥
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम् ॥
रत्नकुण्डलयुग्मेन गण्डस्थलसुशोभितम् ॥ ५६ ॥
मुक्तापङ्क्तिसदृक्षाभदशनं सुमनोहरम् ॥
पक्वबिम्बाधरोष्ठं च नासिकोन्नतिशोभनम् ॥ ॥ ५७ ॥
वीक्षितं गोपिकाभिश्च वेष्टिताभिस्समन्ततः ॥
स्थिरयौवनयुक्ताभिः सस्मिताभिश्च सादरम् ॥ ५८ ॥
भूषिताभिश्च सद्रत्ननिर्मितैर्भूषणैः परम् ॥
सुरेन्द्रैश्च मुनीन्द्रैश्च मुनिभिर्मानवेन्द्रकैः ॥ ५९ ॥
ब्रह्मविष्णुशिवानन्तधर्माद्यैर्वन्दितं मुदा ॥
भक्तप्रियं भक्तनाथं भक्तानुग्रहकारकम् ॥ 1.28.६० ॥
रासेश्वरं सुरसिकं राधावक्षस्थलस्थितम् ॥
एवंरूपमरूपं तं मुने ध्यायन्ति वैष्णवाः ॥ ॥ ६१ ॥
सततं ध्येयमस्माकं परमात्मानमीश्वरम् ॥
अक्षरं परमं ब्रह्म भगवन्तं सनातनम् ॥ ६२ ॥
स्वेच्छामयं निर्गुणं च निरीहं प्रकृतेः परम् ॥
सर्वाधारं सर्वबीजं सर्वज्ञं सर्वमेव च ॥ ६३ ॥
सर्वेश्वरं सर्वपूज्यं सर्वसिद्धिकरं प्रदम् ॥
स एव भगवानादिर्गोलोके द्विभुजः स्वयम् ॥ ६४ ॥
गोपवेषश्च गोपालैः पार्षदैः परिवेष्टितः ॥
परिपूर्णतमः श्रीमान् श्रीकृष्णो राधिकेश्वरः ॥ ६९ ॥
सर्वान्तरात्मा सर्वत्र प्रत्यक्षः सर्वगः स्मृतः ॥
कृषिश्च सर्ववचनो नकारश्चात्मवाचकः ॥
सर्वात्मा च परं ब्रह्म तेन कृष्णः प्रकीर्तितः ॥ ६६ ॥
कृषिश्च सर्ववचनो नकारश्चादिवाचकः ॥
सर्वादिपुरुषो व्यापी तेन कृष्णः प्रकीर्तितः ॥ ६७ ॥
स एवांशेन भगवान्वैकुण्ठे च चतुर्भुजः ॥
चतुर्भुजैः पार्षदैस्तैरावृतः कमलापतिः ॥ ६८ ॥
स एव कलया विष्णुः पाता च जगतां प्रभुः ॥
श्वेतद्वीपे सिन्धुकन्यापतिरेव चतुर्भुजः ॥ ६९ ॥
एतत्ते कथितं सर्वं परब्रह्मस्वरूपकम् ॥
अस्माकं चिन्तनीयं च सेव्यं वन्दितमीप्सितम् ॥ 1.28.७० ॥
इत्युक्त्वा शङ्करस्तत्र विरराम च शौनक ॥
गन्धर्वराजस्तोत्रेण तुष्टुवे तं च नारदः ॥७१ ॥
मुनिस्तोत्रेण सन्तुष्टो भगवानादिरच्युतः ॥
ज्ञानं मृत्युञ्जयस्तस्मै प्रददौ वरमीप्सितम् ॥ ७२ ॥
मुनीन्द्रस्तं सम्प्रणम्य प्रहृष्टवदनेक्षणः ॥
तदाज्ञया पुण्यरूपं ययौ नारायणाश्रमम् ॥ ७३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे ब्रह्मस्वरूपवैकुण्ठादिवर्णनं नारदप्रस्थानं नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥