नारद उवाच ॥
भक्ष्यं किं वाऽप्यभक्ष्यं च द्विजानां गृहिणां प्रभो ॥
यतीनां वैष्णवानां च विधवाब्रह्मचारिणाम् ॥ १ ॥
किं कर्त्तव्यमकर्त्तव्यमभोग्यं भोग्यमेव वा ॥
सर्वं कथय सर्वज्ञ सर्वेशः सर्वकारणम् ॥ २ ॥
महेश्वर उवाच ॥
कश्चित्तपस्वी विप्रश्च निराहारी चिरं मुनिः ॥
कश्चित्समीरणाहारी फलाहारी च कश्चन ॥। ३ ॥
अन्नाहारी यथा काले गृही च गृहिणीयुतः ॥
येषामिच्छा च या ब्रह्मन्रुचीनां विविधा गतिः ॥ ४ ॥
हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा ॥
नारायणोच्छिष्टमिष्टमभक्ष्यमनिवेदितम् ॥ ५ ॥
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम्॥
विण्मूत्रं सर्वथा प्रोक्तमन्नं च हरिवासरे ॥६॥
ब्राह्मणः कामतोऽन्नं च यो भुङ्क्ते हरिवासरे॥
त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः॥७॥
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं च नारद ॥
गृहिभिर्ब्राह्मणैरन्नं सम्प्राप्ते हरिवासरे ॥८॥
गृही शैवश्च शाक्तश्च ब्राह्मणो ज्ञानदुर्बलः ॥
प्रयाति कालसूत्रं च भुक्त्वा च हरिवासरे ॥ ९ ॥
कृमिभिः शालिमानैश्च भक्षितस्तत्र तिष्ठति ॥
विण्मूत्रभोजनं कृत्वा यावदिन्द्राश्चतुर्दश ॥ 1.27.१० ॥
जन्माष्टमीदिने रामनवमीदिवसे हरेः॥
शिवरात्रौ च यो भुङ्क्ते सोऽपि द्विगुणपातकी ॥ ११ ॥
उपवासासमर्थश्च फलं मूलं जलं पिबेत् ॥
नष्टे शरीरे स भवेदन्यथा चात्मघातकः ॥१२॥
सकृद्भुङ्क्ते हविष्यान्नं विष्णोर्नैवेद्यमेव च॥
न भवेत्प्रत्यवायी स चोपवासफलं लभेत् ॥ १३ ॥
एकादश्यामनाहारं गृही विप्रश्च भारते ॥
स च तिष्ठति वैकुण्ठे यावद्वै ब्रह्मणो वयः ॥ १४ ॥
गृहिणां शैवशाक्तानामिदमुक्तं च नारद ॥
विशेषतो वैष्णवानां यतीनां ब्रह्मचारिणाम् ॥ १५ ॥
नित्यं नैवेद्यभोजो यः श्रीविष्णोस्स हि वैष्णवः ॥
नित्यं शतोपवासानां जीवन्मुक्तफलं भवेत् ॥ १६ ॥
वाञ्छन्ति तस्य संस्पर्शं तीर्थान्यखिलदेवताः ॥
आलापं दर्शनं चैव सर्वपापप्रणाशनम् ॥ १७ ॥
द्विः स्विन्नमन्नं पृथुकं शुद्धं देशविशेषके ॥
नात्यन्तशस्तं विप्राणां भक्षणे न निवेदने॥ १८ ॥
अभक्ष्यं वै यतीनां च विधवाब्रह्मचारिणाम् ॥
ताम्बूलं च यथा ब्रह्मंस्तथैतद्वस्तु न ध्रुवम् ॥ १९ ॥
ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् ॥
तपस्विनां च विप्रेन्द्र गोमांससदृशं ध्रुवम् ॥ 1.27.२० ॥
सर्वेषां ब्राह्मणानां यदभक्ष्यं शृणु नारद ॥
यदुक्तं सामवेदे च हरिणा चाह्निकक्रमे ॥ २१ ॥
ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ॥
दुग्धं लवणसार्द्धं च सद्यो गोमांसभक्षणम् ॥ २२ ॥
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं लघु ॥
ऐक्षवं ताम्रपात्रस्थं सुरातुल्यं न संशयः ॥ २३ ॥
उत्थाय वामहस्तेन यस्तोयं पिबति द्विजः ॥
सुरापी च स विज्ञेयः सर्वधर्मबहिष्कृतः ॥ २४ ॥
अनिवेद्यं हरेरन्नं भुक्तशेषं च नित्यशः ॥
पीतशेषजलं चैव गोमांससदृशं मुने ॥ २५ ॥
वानिङ्गणफलं चैव गोमांसं कार्त्तिके स्मृतम् ॥
माघे च मूलकं चैव कलम्बी शयने तथा ॥ २६ ॥
श्वेतवर्णं च तालं च मसूरं मत्स्यमेव च ॥
सर्वेषां ब्राह्मणानां च त्याज्यं सर्वत्र देशके ॥ २७ ॥
मत्स्यांश्च कामतो भुक्त्वा सोपवासस्त्र्यहं वसेत् ॥
प्रायश्चित्तं ततः कृत्वा शुद्धिमाप्नोति वाडवः ॥ २८ ॥
प्रतिपत्सु च कूष्माण्डमभक्ष्यं ह्यर्थनाशनम् ॥
द्वितीयायां च बृहतीभोजनेन स्मरेद्धरिम् ॥ २९ ॥
अभक्ष्यं च पटोलं च शत्रुवृद्धिकरं परम् ॥
तृतीयायां चतुर्थ्यां च मूलकं धननाशनम् ॥ 1.27.३० ॥
कलङ्ककारणं चैव पञ्चम्यां बिल्वभक्षणम् ॥
तिर्य्यग्योनिं प्रापयेत्तु षष्ठ्यां वै निम्बभक्षणम् ॥ ३१ ॥
रोगवृद्धिकरं चैव नराणां तालभक्षणम्॥
सप्तम्यां च तथा तालं शरीरस्य च नाशकम् ॥ ३२ ॥
नारिकेलफलं भक्ष्यमष्टम्यां बुद्धिनाशनम् ॥
तुम्बी नवम्यां गोमांसं दशम्यां च कलम्बिका ॥ ३३ ॥
एकादश्यां तथा शिम्बी द्वादश्यां पूतिका तथा ॥
त्रयोदश्यां च वार्त्ताकी न भक्ष्या पुत्रनाशनम् ॥३४॥
चतुर्दश्यां माषभक्ष्यं महापापकरं परम् ॥
पञ्चदश्यां तथा मांसमभक्ष्यं गृहिणां मुने ॥३५॥
गृहिणां प्रोक्षितं मांसं भक्ष्यमन्यदिनेषु च ॥
प्रातः स्नाने तथा श्राद्धे पार्वणे व्रतवासरे ॥ ३६ ॥
प्रशस्तं सार्षपं तैलं पक्वतैलं च नारद ॥
कुहूपूर्णेन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च ॥३७॥
रवौ श्राद्धे व्रताहे च दुष्टं स्त्रीतिलतैलकम् ॥
मांसं च रक्तशाकं च कांस्यपात्रे च भोजनम् ॥ ३८ ॥
निषिद्धं शयनं चैव कूर्ममांसं च मन्त्रितम् ॥
निषिद्धं सर्ववर्णानां दिवा स्वस्त्रीनिषेवणम् ॥ ३९ ॥
रात्रौ च दधि भक्ष्यं च शयनं सन्ध्ययोर्दिने ॥
रजस्वलास्त्रीगमनमेतन्नरककारणम् ॥ 1.27.४० ॥
उदक्यवीरयोरन्नं पुंश्चल्यन्नमभक्षकम् ॥
शूद्रान्नं याजकान्नं च शूद्रश्राद्धान्नमेव च ॥४१॥
अभक्ष्यान्नं च विप्रर्षे यदन्नं वृषलीपतेः ॥
ब्रह्मन्वार्धुषिकान्नं च गणकान्नमभक्षकम् ॥ ४२ ॥
अग्रदानिद्विजान्नं च चिकित्साकारकस्य च ॥
हस्तचित्राहरौ तैलमग्राह्यं चाप्यभक्षकम् ॥ ४३ ॥
मूले मृगे भाद्रपदे मांसं गोमांसतुल्यकम् ॥
अमायां कृत्तिकायां च द्विजैः क्षौरं विवर्जितम् ॥ ४४ ॥
कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत्पितॄन् ॥
रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत् ॥ ४५ ॥
यत्कर्त्तव्यमकर्त्तव्यं यद्भोज्यं यदभोज्यकम् ॥
सर्वं तुभ्यं निगदितं किं भूयः श्रोतुमिच्छसि ॥ ४६ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारदं प्रति शिवोपदेशे भक्ष्याभक्ष्यादिविवरणं नाम सप्तविंशतितमोऽध्यायः ॥२७॥