०२६

सौतिरुवाच ॥
हरिस्तोत्रं च कवचं मन्त्रं पूजाविधिं परम् ॥
हरं ययाचे देवर्षिर्ध्यानं च ज्ञानमेव च ॥ १ ॥
स्तोत्रं च कवचं मन्त्रं ध्यानं पूजाविधिं तथा ॥
तत्प्राक्तनीयज्ञानं च ददौ तस्मै महेश्वरः ॥ २ ॥
सर्वं प्राप्य मुनिश्रेष्ठः परिपूर्णमनोरथः ॥
उवाच प्रणतो भक्त्या गुरुं प्रणतवत्सलम् ॥ ३ ॥
नारद उवाच ॥
आह्निकं ब्राह्मणानां च वद वेदविदां वर ॥
स्वधर्मपालनं नित्यं यतो भवति नित्यशः ॥ ४ ॥
श्रीमहेश्वर उवाच ॥
ब्राह्मे मुहूर्ते चोत्थाय बह्मरन्धस्थपङ्कजे ॥
सूक्ष्मे सहस्रपत्रे स्वे निर्मले ग्लानिवर्जिते ॥ ५ ॥
रात्रिवासं परित्यज्य गुरुं तत्रैव चिन्तयेत् ॥
व्याख्यामुद्राकरं प्रीतं सस्मितं शिष्यवत्सलम् ॥ ६ ॥
प्रसन्नवदनं शान्तं परितुष्टं निरन्तरम् ॥
साक्षाद्ब्रह्मस्वरूपं च परमं चिन्तयेत्सदा ॥ ७ ॥
ध्यात्वैवं गुरुमाराध्य हृत्पद्मे निर्मले सिते ॥
सहस्रपत्रे विस्तीर्णे देवमिष्टं विचिन्तयेत् ॥ ८ ॥
यस्य देवस्य यद्ध्यानं यद्रूपं तद्विचिन्तयेत् ॥
गृहीत्वा तदनुज्ञां च कर्त्तव्यं समयोचितम् ॥ ९ ॥
आदौ ध्यात्वा गुरुं नत्वा सम्पूज्य विधिपूर्वकम् ॥
पश्चात्तदाज्ञामादाय ध्यायेदिष्टं प्रपूजयेत् ॥1.26.१०॥
गुरुप्रदर्शितो देवो मन्त्रपूजाविधिर्जपः ॥
न देवेन गुरुर्दृष्टस्तस्माद्देवाद्गुरुः परः ॥ ॥ ११ ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ॥
गुरुः प्रकृतिरीशाद्या गुरुश्चन्द्रोऽनलो रविः ॥ १२ ॥
गुरुर्वायुश्च वरुणो गुरुर्माता पिता सुहृत् ॥
गुरुरेव परं ब्रह्म नास्ति पूज्यो गुरोः परः ॥ १३ ॥
अभीष्टदेवे रुष्टे च समर्थो रक्षणे गुरुः ॥
न समर्था गुरौ रुष्टे रक्षणे सर्वदेवताः ॥ १४ ॥
यस्य तुष्टो गुरुः शश्वज्जयस्तस्य पदे पदे ॥
यस्य रुष्टो गुरुस्तस्य सर्वनाशश्च सर्वदा ॥ १५ ॥
न सम्पूज्य गुरुं देवं यो मूढः पूजयेद् भ्रमात्॥
ब्रह्महत्याशतं पापी लभते नात्र संशयः ॥१६॥
सामवेदे च भगवानित्युवाच हरिः स्वयम्॥
तस्मादभीष्टदेवाच्च गुरुः पूज्यतमः परः ॥ १७ ॥
गुरुमिष्टं स्वयं ध्यात्वा स्तुत्वा वै साधको मुने ॥
निर्मलं स्थलमासाद्य विण्मूत्रं ह्युत्सृजेन्मुदा ॥ १८ ॥
जलं जलसमीपं च सरन्धं प्राणिसन्निधिम् ॥
देवालयसमीपं च वृक्षमूलं च वर्त्म च ॥ १९ ॥
हलोत्कर्षस्थलं चैव सस्यक्षेत्रं च गोष्ठकम् ॥
नदीकन्दरगर्भं च पुष्पोद्यानं च पङ्किलम् ॥ 1.26.२० ॥
ग्रामाद्यभ्यन्तरं चैव नृणां गृहसमीपकम्॥
शङ्कुं सेतुं शरवणं श्मशानं वह्निसन्निधिम् ॥ २१ ॥
क्रीडास्थलं महारण्यं मञ्चकाधःस्थलं तथा ॥
वृक्षच्छायायुतं स्थानमन्तःप्राण्यवपर्णकम् ॥२२॥
दूर्वास्थानं कुशस्थानं वल्मीकस्थानमेव च ॥
वृक्षारोपणभूभिं च कार्यार्थं च परिष्कृतम् ॥ २३ ॥
एतत्सर्वं परित्यज्य सूर्य्यतापविवर्जितम् ॥
कृत्वा गर्त्तं पुरीषं च मूत्रं च परिवर्जयेत् ॥ २४ ॥
पुरीषमूत्रोत्सर्गं च दिवा कुर्यादुदङ्मुखः ॥
पश्चिमाभिमुखो रात्रौ सन्ध्यायां दक्षिणामुखः ॥ २५ ॥
मौनी भूत्वा च निश्वासं यथा गन्धो न सञ्चरेत् ॥
त्यक्त्वा मृदा समाच्छाद्य शौचं कुर्य्याद्विचक्षणः ॥२६॥
कृत्वा तु लोष्टशौचं च जलशौचं ततः परम् ॥
मृद्युक्तं तज्जलं चैव तत्प्रमाणं निशामय ॥ ॥ २७ ॥
एकां लिङ्गे मृदं दद्याद्वामहस्ते चतुष्टयम् ॥
उभयोर्हस्तयोर्द्वे तु मूत्रशौचं प्रकीर्तितम् ॥ २८ ॥
मूत्रशौचं द्विगुणितं मैधुनानन्तरं यदि ॥
मैथुनानन्तरं यद्वा मूत्रशौचं चतुर्गुणम् ॥ २९ ॥
एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश ॥
उभयोः सप्त दातव्याः पादः षष्ठेन शुध्यति ॥ 1.26.३० ॥
पुरीषशौचं विप्राणां गृहिणामिदमेव च ॥
विधवानां द्विगुणितं शौचमेव प्रकीर्त्तितम् ॥ ३१ ॥
यतीनां वैष्णवानां च ब्रह्मर्षेर्ब्रह्मचारिणाम् ॥
चतुर्गुणं च गृहिणां तेषां शौचं प्रकीर्त्तितम् ॥ ३२ ॥
नो यावदुपनीयेत द्विजः शूद्रस्तथाऽङ्गना ॥
गन्धलेपक्षयकरं तेषां शौचं प्रकीर्त्तितम् ॥ ३३ ॥
शौचं क्षत्रविशोश्चैव द्विजानां गृहिणां समम् ॥
द्विगुणं वैष्णवादीनां मुनीनां परिकीर्तितम् ॥ ३४ ॥
न्यूनाधिकं न कर्तव्यं शौचं शुद्धिमभीप्सता ॥
प्रायश्चित्तं प्रयुज्येत विहितातिक्रमे कृते ॥ ३५ ॥
शौचं तन्नियमं मत्तः सावधानं निशामय ॥
मृच्छौचे च शुचिर्विप्रोऽप्यशुचिश्च व्यतिक्रमे ॥ ३६ ॥
वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा ॥
शौचावशिष्टां गेहाच्च न दद्यात्क्लेशसम्भवाम् ॥ ३७ ॥
अन्तःप्राण्यवपर्णां च हलोत्खातां विशेषतः ॥
कुशमूलोत्थितां चैव दूर्वामूलोत्थितां तथा ॥ ३८ ॥
अश्वत्थमूलान्नीतां च तथैव शयनोत्थिताम् ॥
चतुष्पथाच्च गोष्ठानां गोष्पदानां तथैव च॥३९॥
शस्यस्थलानां क्षेत्राणामुद्यानानां मृदं त्यजेत् ॥
स्नातो वाऽप्यथवाऽस्नातो विप्रः शौचेन शुध्यति ॥ 1.26.४० ॥
शौचहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ॥
कृत्वा शौचमिदं विप्रो सुखं प्रक्षालयेत्सुधीः ॥ ४१ ॥
आदौ षोडशगण्डूषैर्मुखशुद्धिं विधाय च ॥
दन्तकाष्ठेन दन्तं च तत्पश्चात्परिमार्जयेत् ॥४२॥
पुनः षोडशगण्डूषैर्मुखशुद्धिं समाचरेत् ॥
दन्तमार्जनकाष्ठानां नियमं शृणु नारद ॥४३॥
निरूपितं सामवेदे हरिणा चाह्निकक्रमे ॥
अपामार्गं सिन्धुवारमाम्रं च करवीरकम्॥४४॥
खदिरं च शिरीषं च जातिपुन्नागशालकम् ॥
अशोकमर्जुनं चैव क्षीरिवृक्षं कदम्बकम् ॥४५॥
जम्बूकं बकुलं तोक्मं पलाशं च प्रशस्तकम् ॥
बदरीं पारिभद्रं च मन्दारं शाल्मलिं तथा॥४६ ॥
वृक्षं कण्टकयुक्तं च लतादि परिवर्जयेत् ॥
पिप्पलं च प्रियालं च तिन्ति डीकं च तालकम् ॥४७॥
खर्जूरं नारिकेलं च तालं च परिवर्जयेत् ॥
दन्तशौचविहीनश्च सर्वशौचविहीनकः ॥४८॥
शौचहीनोऽशुचि र्नित्यमनर्हः सर्वकर्मसु ॥
कृत्वा शौचं शुचिर्विप्रो धृत्वा धौते च वाससी ॥ ४९ ॥
प्रक्षाल्य पादावाचम्य प्रातःसन्ध्यां समाचरेत्॥
एवं त्रिसन्ध्यं सन्ध्यां च कुरुते कुलजो द्विजः ॥ 1.26.५० ॥
स स्नातः सर्वतीर्थेषु त्रिसन्ध्यं यः समाचरेत् ॥
सन्ध्यात्रितयहीनस्स्यादनर्हः सर्वकर्मसु ॥ ५१ ॥
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥ ५२ ॥
स शूद्रवद्बहिष्कार्य्यः सर्वस्माद्द्विजकर्मणः ॥
पूर्वां सन्ध्यां परित्यज्य मध्यमां पश्चिमां तथा ॥९३॥
ब्रह्महत्यामात्महत्यां प्रत्यहं लभते द्विजः ॥
एकदशीविहीनो यः सन्ध्याहीनश्च यो द्विजः ॥ ५४ ॥
कल्पं व्रजेत्कालसूत्रं यथा हि वृषलीपतिः ॥
प्रातःसन्ध्यां विधायैवं गुरुमिष्टं सुरं रविम् ॥५५ ॥
ब्रह्माणमीशं विष्णुं च मायां पद्मां सरस्वतीम् ॥
प्रणम्य गुरुमाज्यं च दर्पणं मधु काञ्चनम्॥५६॥
स्पृष्ट्वा स्नानादिकं काले कुर्यात्साधकसत्तमः ॥
पुष्करिण्यां तु वाप्यां तु यदा स्नानं समाचरेत् ॥ ५७ ॥
समुद्धृत्य पञ्चपिण्डानादौ धर्मी विचक्षणः ॥
नद्यां नदे कन्दरे वा तीर्थे वा स्नानमाचरेत् ॥ ५८ ॥
कुर्य्यात्स्नात्वा तु सङ्कल्पं ततः स्नानं पुनर्मुने ॥
श्रीकृष्णप्रीतिकामश्च वैष्णवानां महात्मनाम् ॥ ५९ ॥
सङ्कल्पो गृहिणां चैव कृतपातकनाशकः ॥
विप्रः कृत्वा तु सङ्कल्पं मृदं गात्रे प्रलेपयेत् ॥ 1.26.६० ॥
वेदोक्तमन्त्रेणानेन देहशुद्धिकृते नरः ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥ ६१ ॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥ ६२ ॥
आरुह्य मम गात्राणि सर्वं पापं प्रमोचय ॥
पुण्यं देहि महाभागे स्नानानुज्ञां कुरुष्व माम् ॥ ६३ ॥
इत्युक्त्वा च जले नाभिप्रमाणे मन्त्रपूर्वकम् ॥
चतुर्हस्तप्रमाणां च कृत्वा मण्डलिका शुभाम् ॥ ६४ ॥
तीर्थान्यावाहयेत्तत्र हस्तं दत्त्वा तपोधन ॥
यानि यानि च तीर्थानि सर्वाणि कथयामि ते ॥ ६५ ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ ६६ ॥
नलिनी नन्दिनी सीता मालिनी च महापगा॥
विष्णुपादाब्जसम्भूता गङ्गा त्रिपथगामिनी ॥ ६७ ॥
पद्मावती भोगवती स्वर्णरेखा च कौशिकी ॥
दक्षा पृथ्वी च सुभगा विश्वकाया शिवामृता ॥ ६८ ॥
विद्याधरी सुप्रसन्ना तथा लोकप्रसाधिनी ॥
क्षेमा च वैष्णवी शान्ता शान्तिदा गोमती सती ॥ ६९ ॥
सावित्री तुलसी दुर्गा महालक्ष्मीः सरस्वती ॥
कृष्णप्राणाधिका राधा लोपामुद्रा दितीरतिः ॥1.26.७०॥
अहल्या चादितिः सञ्ज्ञा स्वधा स्वाहाऽप्यरुन्धती ॥
शतरूपा देवहूतिरित्याद्याः संस्मरेत्सुधीः ॥ ७१ ॥
स्नात्वा स्नात्वा महापूतः कुर्य्यात्तु तिलक बुधः ॥
बाह्वोर्मूले ललाटे च कण्ठदेशे च वक्षसि ॥ ७२ ॥
स्नानं दानं तपो होमो देवतापितृकर्म च ॥
तत्सर्वं निष्फलं याति लला टे तिलकं विना॥ ७३ ॥
ब्राह्मणस्तिलकं कृत्वा कुर्य्यात्सन्ध्यां च तर्पणम् ॥
नमस्कृत्य सुरान्भक्त्या गृहं गच्छेन्मुदाऽन्वितः ॥७४॥
प्रक्षाल्य पादौ यत्नेन धृत्वा धौते च वाससी ॥
मन्दिरं प्रविशेत्प्राज्ञ इत्याह हरिरेव च ॥ ७५ ॥
विना पादक्षालनं यः स्नात्वा विशति मन्दिरम् ॥
तस्य स्नानादिकं नष्टं जपहोमादिपञ्चकम् ॥ ७६ ॥
परिधाय स्निग्धवस्त्रं गृहं च प्रविशेद्गृही ॥
रुष्टा लक्ष्मीर्गृहा द्याति शापं दत्त्वा सुदारुणम्॥ ७७ ॥
जङ्घोर्ध्वतश्च यो विप्रः पादौ प्रक्षालयेद्यदा ॥
तावद्भवति चाण्डालो यावद्गङ्गां न पश्यति ॥ ७८ ॥
उपविश्यासने ब्रह्मञ्छुचिराचम्य साधकः ॥
पूजां कुर्य्यात्तु वेदोक्ता भक्तियुक्तो हि संयतः ॥ ७९ ॥
शालग्रामे मणौ मन्त्रे प्रतिमायां जले स्थले ॥
गोपृष्ठे वा गुरौ विप्रे प्रशस्तमर्चनं हरेः ॥ 1.26.८० ॥
सर्वेषु शस्ता पूजा च शालग्रामे च नारद ॥
सुराणामेव सर्वेषां यत्राधिष्ठानमेव च ॥८१ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥
शालग्रामोदकेनैव योऽभिषेकं समाचरेत् ॥ ८२ ॥
शालग्रामजलं भक्त्या नित्यमश्नाति यो नरः ॥
जीवन्मुक्तः स च भवेद्यात्यन्ते कृष्णमन्दिरम् ॥ ८३ ॥
शालग्रामशिलाचक्रं यत्र तिष्ठति नारद ॥
सचक्रो भगवांस्तत्र सर्वतीर्थानि निश्चितम् ॥ ८४ ॥
तत्र यो हि मृतो देही ज्ञानाज्ञानेन दैवतः ॥
रत्ननिर्मितयानेन स याति श्रीहरेः पदम् ॥ ८५ ॥
शालग्रामं विनाऽन्यत्र कः साधुः पूजयेद्धरिम् ॥
कृत्वा तत्र हरेः पूजां परिपूर्णं फलं लभेत्॥ ॥ ८६ ॥
पूजाधारश्च कथितः श्रूयतां पूजनक्रमः ॥
हरेः पूजां बहुमतां कथयामि यथागमम् ॥ ८७ ॥
कश्चिद्ददाति हरये चोपचारांश्च षोडश ॥
सुन्दराणि पवित्राणि नित्यं भक्त्या च वैष्णवः ॥ ८८ ॥
कश्चिद्द्वादश वस्तूनि पञ्च वस्तूनि कश्चन ॥
येषामेव यथा शक्तिर्भक्तिर्मूलं च पूजने ॥८९॥
आसनं वसनं पाद्यमर्घ्यमाचमनीयकम् ॥
पुष्पं चन्दनधूपं च दीपं नैवेद्यमुत्तमम् ॥ 1.26.९० ॥
गन्धं माल्यं च शय्यां च ललितां सुविलक्षणाम् ॥
जलमन्नं च ताम्बूलं साधारं देयमेव च ॥ ९१ ॥
गन्धान्नतल्पताम्बूलं विना द्रव्याणि द्वादश ॥
पाद्यार्घ्यजलनैवेद्यपुष्पाण्येतानि पञ्च च ॥ ९२ ॥
सर्वाण्येतानि मूलेन दद्यात्साधकसत्तमः ॥
गुरूपदिष्टं मूलं च प्रशस्तं सर्वकर्मसु ॥ ९३ ॥
आदौ कृत्वा भूतशुद्धिं प्राणायामं ततः परम् ॥
अङ्गप्रत्यङ्गयोर्न्यासं मन्त्रन्यासं ततः परम् ॥९४॥
वर्णन्यासं विनिर्वर्त्य चार्घ्यपात्रं विनिर्दिशेत् ॥
त्रिकोणमण्डलं कृत्वा तत्र कूर्मं प्रपूजयेत् ॥ ९५॥
जलेनापूर्य्य शङ्खं च तत्र संस्थापयेद्द्विजः ॥
जलं सम्पूज्य विधिवत्तीर्थान्यावाहयेत्तत्तः ॥ ९६ ॥
पूजोपकरणं तेन जलेन क्षालयेत्पुनः ॥
ततो गृहीत्वा पुष्पं च कृत्वा योगासनं शुचिः ॥ ९७ ॥
ध्यानेन गुरुदत्तेन ध्यायेत्कृष्णमनन्यधीः ॥
ध्यात्वा पाद्यादिकं सर्वं दद्यान्मूलेन साधकः ॥ ९८ ॥
अङ्ग प्रत्यङ्गदेवं च तन्त्रोक्तं पूजयेद्धरिम् ॥
मूलं जप्त्वा यथाशक्ति देवमन्त्रं विसर्जयेत् ॥ ९९ ॥
दत्त्वोपहारं विविधं स्तुत्वा च कवचं पठेत् ॥
ततः कृत्वा परीहारं मूर्ध्ना च प्रणमेद्भुवि ॥1.26.१००॥
कृत्वा वै देवपूजां च यज्ञं कुर्य्याद्विचक्षणः ॥
श्रौतस्मार्त्ताग्नियुक्तं च बलिं दद्यात्ततो मुने ॥ १०१ ॥
नित्यश्राद्धं यथाशक्ति दानं वित्तानुरूपकम् ॥
कृत्वा कृती स विहरेत्क्रम एष श्रुतौ श्रुतः ॥ १ ०२॥
इति ते कथितं सर्वं वेदोक्तं सूत्रमुत्तमम् ॥
आह्निकस्य च विप्राणां किं भूयः श्रोतुमिच्छसि॥१०३॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे शिवनारदसंवादे आह्निकनिरूपणं नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥