०२४

श्रीब्रह्मोवाच ॥
त्वं गच्छ तपसे वत्स किं मे संसारकर्मणि ॥
अहं यास्यामि गोलोकं विज्ञातुं कृष्णमीश्वरम् ॥ १ ॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
सनत्कुमारो नीरागश्चतुर्थः पुत्र एव च ॥ २ ॥
यती हंसी चारुणिश्च वोढुः पञ्चशिखस्तथा ॥
पुत्रास्तपस्विनः सर्वे किं मे संसारकर्मणि ॥ ३ ॥
वचस्करो मरीचिर्मे अङ्गिराश्च भृगुस्तथा ॥
रुचिरत्रिः कर्दमश्च प्रचेताश्च क्रतुर्मनुः ॥ ४ ॥
वसिष्ठो वशगः शश्वत्सर्वेषु च सुतेषु च ॥
अन्ये ऽविवेकिनोऽसाध्याः किं मे संसारकर्मणि ॥ ५ ॥
निबोध वत्स वक्ष्यामि वेदोक्तं वचनं शुभम् ॥
पारम्पर्य्यक्रमपरं चतुर्वर्गफलप्रदम् ॥ ॥ ६ ॥
धर्मार्थकाममोक्षांश्च सर्वे वाञ्छन्ति पण्डिताः ॥
वेदप्रणिहितानेतान्सभासु मुनिशंसितान् ॥ ७ ॥
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्य्ययः ॥
आदौ विप्रो यज्ञसूत्रं परिधाय सुखं सुखी ॥ ८ ॥
समधीत्य ततो वेदान्ददाति गुरुदक्षिणाम् ॥
ततः प्रकृष्टकुलजां सुविनीतां समुद्वहेत् ॥ ९ ॥
सा साध्वी कुलजा या च पतिसेवासु तत्परा ॥
सद्वरो दुर्विनीता च सम्भवेन्न कदाचन ॥
आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥ 1.24.१० ॥
असद्वंशप्रसूता या पित्रोर्दोषेण नारद ॥
दुर्विनीता च सा दुष्टा स्वतन्त्रा सर्वकर्मसु ॥ ११ ॥
न वत्स दुष्टाः सर्वाश्च योषितः कमलाकलाः ॥
स्वर्वेश्यांशाश्च कुलटा असद्वंश समुद्भवाः ॥ १२ ॥
निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति ॥
न सेवते च कुलटा प्रियं निन्दति सद्गुणम् ॥ १३ ॥
साधुः सद्वंशजां कन्यां प्रयत्नेन परिग्रहेत् ॥
तस्यां पुत्रान्समुत्पाद्य वृद्धस्तु तपसे व्रजेत् ॥ १४ ॥
वरं हुतवहे वासः सर्पवक्त्रे च कण्टके ॥
एतेभ्यो दुःखदो वासः स्त्रिया दुर्मुखया सह ॥ १५ ॥
मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम् ॥
पुत्र देहीदमेवेह कुरु दारपरिग्रहम् ॥ १६ ॥
वत्स त्वं कुलजातां च पूर्वपत्नी च मालतीम् ॥
विवाहं कुरु कल्याण कल्याणे च दिने ऽनघ ॥ १७ ॥
मनुवंशोद्भवस्येह सृञ्जयस्य गृहे सती ॥
त्वत्कृते जन्म लब्ध्वा च कुरुते भारते तपः ॥ १८ ॥
गृह्णीष्व परमां रत्नमालां च कमलाकलाम् ॥
भारते न भवेद्व्यर्थं जनानां तपसः फलम् ॥ १९ ॥
आदौ भवेद्गृही लोको वानप्रस्थस्ततः परम् ॥
ततस्त पस्वी मोक्षाय क्रम एष श्रुतौ श्रुतः ॥ 1.24.२० ॥
वैष्णवानां हरेरर्चा तपस्या च श्रुतौ श्रुता ॥ २१ ॥
वैष्णव त्वं गृहे तिष्ठ कुरु कृष्णपदार्चनम् ॥
अन्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ॥ २२ ॥
नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसाऽनघ ॥
तपसा हरिराराध्यो नान्यः कश्चन विद्यते ॥ २३ ॥
यत्र तत्र कृतं कृष्णसेवनं परमं तपः ॥
वत्स मद्वचनेनैव गृहे स्थित्वा हरिं भज॥ २४ ॥
गृही भव मुनिश्रेष्ठ गृहिणां सर्वदा सुखम् ॥
कामिन्यां सुखसम्भोगः स्वर्गभोगसमो मतः ॥ २९ ॥
तद्दर्शनमुपस्पर्शं वाञ्छन्त्येव मुमुक्षवः ॥
सर्वस्पर्शसुखात्स्त्रीणामुपस्पर्शसुखं परम्॥२६॥
ततः सुखतमं पुत्रदर्शनं स्पर्शनं मुने ॥
सर्वेभ्यः प्रेयसी कान्ता प्रिया तेन प्रकीर्त्तिता ॥ ॥२७॥
पुत्रप्रयोजना कान्ता शतकान्ताप्रियः सुतः ॥
नास्ति पुत्रात्परो बन्धुर्नास्ति पुत्रात्परः प्रियः ॥ २८॥
सर्वेभ्यो जयमन्विच्छेत्पुत्रादेकात्पराजयम् ॥
न चात्मनि प्रियोऽर्थश्च तस्मादपि सुतः प्रियः ॥ २९ ॥
अतः प्रियतमे पुत्रे न्यसेदात्मपरं धनम् ॥
इत्येवमुक्त्वा स ब्रह्मा विरराम च शौनक ॥
उवाच वचनं तातं नारदो ज्ञानिनां वरः ॥ 1.24.३० ॥
नारद उवाच ॥
स्वयं विज्ञाय सर्वार्थं स्वपुत्रं वेददर्शने ॥
प्रवर्त्तयत्यसन्मार्गे स दयालुः कथं पिता ॥३१॥
जलबुद्बुदवत्सर्वं संसारमतिनश्वरम् ॥
जलरेखा यथा मिथ्या तथा ब्रह्मञ्जगत्त्रयम् ॥ ३२ ॥
विहाय हरिदास्यं च विषये यन्मनश्चलम् ॥
दुर्लभं मानवं जन्म मा भूत्तन्निष्फलं क्वचित् ॥ ३३ ॥
का वा कस्य प्रिया पुत्रो बन्धुः को वा भवार्णवे ॥
कर्मोर्मिभिर्योजना च तदपायो वियोजना ॥ ३४ ॥
सुकर्म कारयेद्यो हि तन्मित्रं स पिता गुरुः ॥
दुर्बुद्धिं जनयेद्यो हि स रिपुः स्यात्कथं पिता ॥ ३५ ॥
इत्येवं कथितं तात वेदबीजं यथागमम् ॥
ध्रुवं तथाऽपि कर्त्तव्यं तवाज्ञापरिपालनम् ॥ ३६ ॥
आदौ यास्यामि भगवन्नरनारायणाश्रमम् ॥
नारायणकथां श्रुत्वा करिष्ये दारसङ्ग्रहम् ॥३७॥
इत्येवमुक्त्वा स मुनिर्विरराम पितुः पुरः ॥
पुष्पवृष्टिस्तदुपरि तत्क्षणेन बभूव ह ॥ ३८ ॥
क्षणं पितुः पुरः स्थित्वा नारदो मुनिसत्तमः ॥
उवाच च पुनर्वेदं वचनं मङ्गलप्रदम् ॥ ३९ ॥
श्रीनारद उवाच ॥
देहि मे कृष्णमन्त्रं च यन्मनोवाञ्छितं मम ॥
तत्सम्बन्धि च यज्ज्ञानं यत्र तद्गुणवर्णनम्॥ 1.24.४० ॥
ततः पश्चात्करिष्यामि त्वत्प्रीत्या दारसङ्ग्रहम् ॥
मानसे परिपूर्णे च कार्य्यं कर्तुं पुमान्सुखी॥४१॥
नारदस्य वचः श्रुत्वा प्रहृष्टः कमलोद्भवः ॥
उवाच पुनरेवेदं पुत्रं ज्ञानविदां वरः ॥ ४२ ॥
ब्रह्मोवाच ॥
पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयाद्विचक्षणः ॥
विविक्ताश्रमिणां चैव न मन्त्रः सुखदायकः ॥ ४३ ॥
निषेकाल्लभ्यते मन्त्रो गुरुर्भर्त्ता च कामिनी॥
विद्या सुखं भयं दुःखं पुरुषैः स्वेच्छया न च ॥ ४४ ॥
महेश्वरस्तव गुरुः प्राक्तनो नः पुरातनः ॥
गच्छ वत्स शिवं शान्तं शिवदं ज्ञानिनां गुरुम् ॥ ४५ ॥
तत एव भवान्मन्त्रं ज्ञानं लब्ध्वा पुरातनात् ॥
नारायणकथां श्रुत्वा शीघ्रमागच्छ मद्गृहम् ॥ ४६ ॥
इत्युक्त्वा जगतां धाता विरराम च शौनक ॥
प्रणम्य पितरं भक्त्या शिवलोकं ययौ मुनिः ॥ ४७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे ब्रह्मनारदोक्तसंसारसुखासुखवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥