सौतिरुवाच ॥
स्रष्टा सृष्टिविधानेन नियोज्य सर्वबालकान् ॥
नारदं प्रेरयामास सृष्टिं कर्त्तुं च शौनक ॥ १ ॥
हितं सत्यं वेदसारं परिणामसुखावहम् ॥
उवाच नारदं ब्रह्मा वेदवेदाङ्गपारगम् ॥ २ ॥
ब्रह्मोवाच ॥
एहि वत्स कुलश्रेष्ठ नारद प्राणवल्लभ ॥
ज्ञानदीपशिखाज्ञानतिमिरक्षयकारक ॥ ३ ॥
पूर्वेषामपि वन्द्यानां जनकः परमो गुरुः ॥
विद्यादाता मन्त्रदाता द्वौ समौ च पितुः परौ ॥ ४ ॥
तवाहं जनकः पुत्र विद्यादाता च पालकः ॥
ममाज्ञया च मत्प्रीत्या कुरु दारपरिग्रहम् ॥ ५ ॥
स च शिष्यः सोऽपि पुत्रो यश्चाज्ञां पालयेद्गुरोः ॥
न क्षेमं तस्य मूढस्य यो गुरोरवचस्करः ॥ ६ ॥
स पण्डितः स च ज्ञानी स क्षेमी स च पुण्यवान् ॥
गुरोवर्चस्करो यो हि क्षेमं तस्य पदे पदे ॥ ॥ ७ ॥
सर्वेषामाश्रमाणां च प्रधानः पुण्यवान्गृही॥
स्त्रीपुत्रपौत्रयुक्तं च मन्दिरं तपसः फलम् ॥ ८ ॥
पितरः पूर्वकाले च तिथिकाले च देवताः ॥
सर्वे गृहस्थमायान्ति निपानमिव धेनवः ॥ ९ ॥
नित्यं नैमित्तिकं काम्यं कुर्वन्ति गृहिणः सदा ॥
इह एतत्सुखं पुण्यं स्वर्गभोगः परत्र च ॥ 1.23.१० ॥
जीवन्मुक्तो गृहस्थश्च स्वधर्मपरिपालकः ॥
यशस्वी पुण्यवांश्चैव कीर्तिमान्धनवान्सुखी॥ ११ ॥
यशस्वी कीर्तिमान्यो हि मृतो जीवति सन्ततम् ॥
यशःकीर्तिविहीनो हि जीवन्नपि मृतो हि सः ॥१२॥
ब्रह्मणो वचनं श्रुत्वा नारदो मुनिसत्तमः ॥
उवाच विनयं भीतः शुष्कण्ठौष्ठतालुकः॥१३॥
नारद उवाच॥
एकदा वाग्विरोधेन चोभयोस्तातपुत्रयोः ॥
हानिर्बभूव दैवेन महती वाऽयशस्करी ॥ १४ ॥
मया प्राप्तं च त्वच्छापाद्गान्धर्वं शौद्रमेव च ॥
जन्म कर्म च मच्छापात्त्वमपूज्यो भवे भव ॥ १५ ॥
बभूव शापो मुक्तो मे काले ते भविता विधे ॥
दोषाय कल्पते शश्वद्विरोधो न गुणाय च ॥ १६ ॥
स पिता स गुरुर्बन्धुः स पुत्रः समधीश्वरः ॥
यः श्रीकृष्णपादपद्मे दृढां भक्तिं च कारयेत् ॥१७॥
असद्वर्त्मनि चाज्ञानाद्गच्छन्ति यदि बालकाः ॥
निवर्त्तयति तानेव स पिता करुणानिधिः ॥ १८ ॥
कारयित्वा कृष्णपादे भक्तित्यागं च यः पिता ॥
अन्यस्मिन्विषये पुत्रं स किं हन्तुं प्रवर्त्तयेत् ॥ १९ ॥
दारग्रहो हि दुःखाय केवलं न सुखाय च ॥
तपःस्वर्गभक्तिमुक्तिकर्मणां व्यवधायकः ॥ 1.23.२० ॥
योषितस्त्रिविधा ब्रह्मन्गृहिणां मूढचेतसाम् ॥
साध्वी भोग्या च कुलटास्ताः सर्वाः स्वार्थतत्पराः॥२१॥
परलोकभिया साध्वी तथेह यशसाऽऽत्मनः ॥
कामस्नेहाच्च कुरुते भर्तुः सेवां च सन्ततम् ॥ २२ ॥
भोग्या भोगार्थिनी शश्वत्कामस्नेहेन केवलम् ॥
कुरुते कान्तसेवा च न च भोगादृते क्षणम् ॥ २३ ॥
वस्त्रालङ्कारसम्भोगसुस्निग्धाहारमुत्तमम् ॥
यावत्प्राप्नोति सा भोग्या तावच्च वशगा प्रिया ॥ २४ ॥
कुलाङ्गारसमा नारी कुलटा कुलनाशिनी ॥
कपटात्कुरुते सेवां स्वामिनो न च भक्तितः ॥ २५ ॥
सदा पुंयोगमाशंसुर्मनसा मदनातुरा॥
आहारादधिकं जारं प्रार्थयन्ती नवं नवम् ॥ २६ ॥
जारार्थे स्वपतिं तात हन्तुमिच्छति पुंश्चली ॥
तस्यां यो विश्वसेन्मूढो जीवनं तस्य निष्फलम् ॥ २७ ॥
कथिता योषितः सर्वा उत्तमाधममध्यमाः ॥
स्वात्मारामा विजानन्ति मनस्तासां न पण्डिताः ॥ २८ ॥
हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ॥
सुधासमं सुमधुरं वचनं स्वार्थसिद्धये ॥ २९ ॥
प्रकोपे विषतुल्यं च विश्वासे सर्वनाशनम् ॥
दुर्ज्ञेयं तदभिप्रायं निगूढं कर्म केवलम् ॥ 1.23.३० ॥
सदा तासामविनयः प्रबलं साहसं परम् ॥
दोषोत्कर्षश्छलोत्कर्षः शश्वन्माया दुरत्यया ॥ ३१ ॥
पुंसश्चाष्टगुणः कामः शश्वत्कामो जगद्गुरो ॥
आहारो द्विगुणो नित्यं नैष्ठुर्य्यं च चतुर्गुणम् ॥३२॥
कोपः पुंसः षड्गुणश्च व्यवसायश्च निश्चितम्॥
यत्रेमे दोषनिवहाः काऽऽस्था तत्र पितामह॥३३॥
का क्रीडा किं सुखं पुंसो विण्मूत्रमलवेश्मनि॥
तेजः प्रनष्टं सम्भोगे दिवालापे यशःक्षयः ॥ ३४ ॥
धनक्षयोऽतिप्रीतौ चात्यासक्तौ च वपुःक्षयः॥
साहित्ये पौरुषं नष्टं कलहे माननाशनम् ॥
सर्वनाशश्च विश्वासे ब्रह्मन्नारीषु किं सुखम् ॥ ३५ ॥
यावद्धनी च तेजस्वी सश्रीको योग्यतापरः ॥
पुमान्नारीं वशीकर्तुं समर्थस्तावदेव हि ॥ ३६ ॥
रोगिणं निर्द्धनं वृद्धं योषिद्वै प्रेक्षतेऽप्रियम् ॥
लोकाचारभयात्तस्मै ददात्याहारमल्पकम् ॥ ३७ ॥
इत्येवं कथितं सर्वं ब्रह्मन्नात्मागमो यथा ॥
सर्वं जानासि सर्वज्ञ स्वात्मारामेश्वरो भवान् ॥ ३८ ॥
अनुग्रहं कुरु विभो विदायं देहि साम्प्रतम् ॥
कृष्णभक्तिं प्रार्थयामि त्वयि कल्पतरोः परे ॥ ३९ ॥
इत्युक्त्वा नारदस्तत्र धृत्वा तातपदाम्बुजम् ॥
आज्ञां ययाचे पितरं गन्तु तपसि मङ्गले ॥ 1.23.४० ॥
कृताञ्जलिपुटो भूत्वा भक्तिनम्रात्मकन्धरः॥
कृत्वा प्रदक्षिणं नत्वा ब्रह्माणं गन्तुमुद्यतः ॥ ४१ ॥
गच्छन्तं तनयं दृष्ट्वा विधाता जगतां मुने ॥
रुरोदोच्चैर्मुक्तकण्ठं महासांसारिको यथा ॥ ४२ ॥
करे धृत्वा समालिङ्ग्य चुचुम्ब च पुनः पुनः ॥
चिरं वक्षसि कृत्वा च वासयामास जानुनि ॥ ४३ ॥
स्वात्मारामेश्वरो ब्रह्मा योगीन्द्राणां गुरोर्गुरुः ॥
भेद सोढुं न शक्तोऽभूद्विच्छेदो दुःसहो नृणाम् ॥ ४४ ॥
कातरः पुत्रभेदेन मोहितो विष्चुमायया॥
शोकार्त्तो वक्तुमारेभे सुतं सम्बोध्य शौनक ॥ ४५ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे त्रयोविंशतितमोऽध्यायः ॥ २३ ॥