०२१

सौतिरुवाच ॥
बभूव काले बालश्च क्रमेण पञ्चहायनः ॥
जातिस्मरो ज्ञानयुक्तः पूर्वमन्त्रस्मृतः सदा ॥१ ॥
गीयते सततं कृष्णयशोनामगुणादिकम् ॥
क्षणं रोदिति नृत्येन पुलकाञ्चितविग्रहः ॥ २ ॥
कृष्णसम्बन्धिनीं गाथां शृणोति यत्र तत्र वै ॥
तत्सम्बन्धि पुराणं च तत्र तिष्ठति बालकः ॥ ३ ॥
धूलिधूसरसर्वाङ्गो धूलिनैवेद्यमीप्सितम् ॥
धूलिषु प्रतिमां कृत्वा धूलिना पूजयेद्धरिम् ॥ ४ ॥
पुत्रमाह्वयते माता प्रातराशाय चेन्मुने ॥
हरिं सम्पूजयामीति मातरं संवदेत्पुनः। ५ ॥
शौनक उवाच ॥
किं नाम बालकस्यास्य जन्मन्यत्र बभूव ह ॥
व्युत्पत्त्या सञ्ज्ञया वाऽपि तद्भवान्वक्तुमर्हति ॥ ६ ॥
सौतिरुवाच ॥
अनावृष्ट्यवशेषे च काले बालो बभूव ह ॥
नारं ददौ जन्मकाले तेनायं नारदाभिधः ॥७॥
ददाति नारं ज्ञानं च बालकेभ्यश्च बालकः ॥
जातिस्मरो महाज्ञानी तेनायं नारदाभिधः ॥ ८ ॥
वीर्येण नारदस्यैव बभूव बालको मुने ॥
मुनीन्द्रस्य वरेणैव तेनायं नारदाभिधः ॥ ९ ॥
शौनक उवाच ॥
शिशुनाम च विज्ञातं व्युत्पत्त्या च यथोचितम् ॥
मुनीन्द्रस्य कथं नाम नारदश्चेति मङ्गलम् ॥ 1.21.१० ॥
सौतिरुवाच ॥
अपुत्रकाय विप्राय धर्मपुत्रो नरो मुनिः ॥
ददौ पुत्र कश्यपाय तेनायं नारदाभिधः ॥ ११ ॥
शौनक उवाच ॥
अधुना नामव्युत्पत्तिः श्रुता सौते शिशोरपि ॥
शूद्रयोनौ ब्रह्मपुत्रः कथं स नारदाभिधः ॥ १२ ॥
सौतिरुवाच ॥
कल्पान्तरे ब्रह्मकण्ठाद्बभूवुर्बहवो नराः ॥
नरान्ददौ तत्कण्ठं च तेन तन्नारदं स्मृतम् ॥१३॥
ततो बभूव बालश्च नारदात्कण्ठदेशतः ॥
अतो ब्रह्मा नाम चक्रे नारदश्चेति मङ्गलम् ॥ १४ ॥
साम्प्रतं शिशुवृत्तान्तं सावधानं निशामय ॥
उपालम्भरहस्येन विशिष्टं किं प्रयोजनम् ॥ १५ ॥
ववृधे गोपिकाबालो विप्रगेहे दिनेदिने ॥
सपुत्रां पालितां चक्रे ब्राह्मणः स्वसुतां यथा ॥१६ ॥
एतस्मिन्नन्तरे विप्रा आययुर्विप्रमन्दिरम् ॥
शिशवः पञ्चवर्षीया महातेजस्विनो यथा ॥ १७ ॥
प्रच्छन्नं हृतवन्तश्च ग्रीष्ममध्याह्नभास्करम् ॥
मधुपर्कादिकं दत्त्वा तान्ननाम गृही द्विज ॥ १८ ॥
फलमूलादिकं काले चत्वारो मुनिपुङ्गवाः ॥
विप्रदत्तं बुभुजिरे तच्छेशं बुभुजे शिशुः ॥ १९ ॥
चतुर्थको मुनिस्तस्मै कृष्णमन्त्रं ददौ मुदा ॥
तेषां बभूव दासः स द्विजस्य मातुराज्ञया ॥1.21.२०॥
एकदा शिशुमाता च गच्छन्ती निशि वर्त्मनि ॥
ममार सर्पदष्टा च तत्क्षणं स्मरती हरिम् ॥ २१ ॥
सद्यो जगाम वैकुण्ठं विष्णुयानेन सा सती ॥
विष्णुपार्षदसंयुक्ता सद्रत्ननिर्मितेन च ॥ २२ ॥
प्रातर्बालो द्विजैः सार्धं प्रययौ विप्रमन्दिरात् ॥
तत्त्वज्ञानं ददुस्तस्मै ब्राह्मणाश्च कृपालवः ॥ २३ ॥
ब्रह्मपुत्राः शिशुं त्यक्त्वा स्वस्थानं प्रययुः किल ॥
महाज्ञानी शिशुस्तस्थौ गङ्गातीरे मनोहरे ॥२४ ॥
तत्र स्नात्वा विप्रदत्तं विष्णुमन्त्रं जजाप सः ॥
क्षुत्पिपासारोगशोकहरं वेदेषु दुर्लभम् ॥ २५ ॥
महारण्ये च घोरे च अश्वत्थमूलसन्निधौ ॥
कृत्वा योगासनं तस्थौ सुचिरं तत्र बालकः ॥ २६ ॥
शौनक उवाच ॥
कं मन्त्रं बालकः प्राप कुमारेण च धीमता ॥
दत्तं परं श्रींहरेश्च तद्भवान्वक्तु मर्हति ॥ २७ ॥
सौतिरुवाच ॥
कृष्णेन दत्तो गोलोके कृपया ब्रह्मणे पुरा ॥
द्वाविंशत्यक्षरो मन्त्रो वेदेषु च सुदुर्लभः ॥ २८ ॥
तं च ब्रह्मा ददौ भक्त्या कुमाराय च धीमते ॥
कुमारेण स दत्तश्च मन्त्रश्च शिशवे द्विज ॥ २९ ॥
ॐ श्रीं नमो भगवते रास मण्डलेश्वराय ॥
श्रीकृष्णाय स्वाहेति च मन्त्रोऽयं कल्पपादपः ॥ 1.21.३० ॥
महापुरुषस्तोत्रं च पूर्वोक्तं कवचं च यत् ॥
अस्यौपयौगिकं ध्यानं सामवेदोक्तमेव च ॥ ३१ ॥
तेजोमण्डलरूपे च सूर्य्यकोटिसमप्रभे ॥
योगिभिर्वाञ्छितं ध्याने योगैः सिद्धगणैः सुरैः ॥ ३२ ॥
ध्यायन्ते वैष्णवा रूपं तदभ्यन्तरसन्निधौ ॥
अतीव कमनीयानिर्वचनीयं मनोहरम् ॥ ३३ ॥
नवीनजलदश्यामं शरत्पङ्कजलोचनम् ॥
शरत्पार्वणचन्द्रास्यं पक्वबिम्बाधिकाधरम् ॥ ३४ ॥
मुक्तापङ्क्तिविनिन्दैकदन्तपङ्क्तिमनोहरम् ॥
सस्मितं मुरलीन्यस्तहस्तावलम्बनेन च ॥ ३९ ॥
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ॥
चन्द्रलक्षप्रभाजुष्टं पुष्टश्रीयुक्तविग्रहम् ॥ ३६ ॥
त्रिभङ्गसङ्गि वा युक्तं द्विभुजं पीतवाससम् ॥
रत्नकेयूरवलयरत्ननूपुरभूषि तम् ॥ ३७ ॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ॥
मयूरपुच्छचूडं च रत्नमालाविभूषितम् ॥ ३८ ॥
शोभितं जानुपर्य्यन्तं मालतीवनमालया ॥
चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकारकम् ॥३९ ॥
मणिना कौस्तुभेन्द्रेण वक्षस्थलसमुज्ज्वलम् ॥
वीक्षितं गोपिकाभिश्च शश्वद्व्रीडितलोचनैः ॥1.21.४०॥
स्थिरयौवनयुक्ताभिर्वेष्टिताभिश्च सन्ततम् ॥
भूषणैर्भूषिताभिश्च राधावक्षःस्थलस्थितम् ॥ ॥ ४१ ॥
ब्रह्मविष्णुशिवाद्यैश्च पूजितं वन्दितं स्तुतम् ॥
किशोरं राधिकाकान्तं शान्तरूपं परात्परम् ॥ ४२ ॥
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ॥
ध्यायेत्सर्वेश्वरं तं च परमात्मानमीश्वरम् ॥ ४३ ॥
इदं ते कथितं ध्यानं स्तोत्रं च कवचं मुने ॥
मन्त्रोपयौगिकं सत्यं मन्त्रश्च कल्पपादपः॥४४॥
साम्प्रतं बालकस्तस्थौ ध्यानस्थस्तत्र शौनक ॥
दिव्यं वर्षसहस्रं च निराहारः कृशोदरः॥ ॥४५॥
शक्तिमान्परिपुष्टश्च सिद्धमन्त्रप्रभावत॥
ददर्श बालको ध्याने दिव्यं लोकं च बालकम्॥४६॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥
किशोरवयसं श्यामं गोपवेषं च सस्मितम् ॥ ४७ ॥
गोपैर्गोपाङ्गनाभिश्च वेष्टितं पीतवाससम् ॥
द्विभुजं मुरलीहस्तं चन्दनेन विचर्चितम्॥४८॥
ब्रह्मविष्णुशिवाद्यैश्च स्तूयमानं परात्परम् ॥
दृष्ट्वा च सुचिरं शान्तं शान्तश्च गोपिकासुतः॥४९॥
विरराम च शोकार्तो यदा तद्द्रष्टुमक्षमः ॥
रुरोदाश्वत्थमूले च न दृष्ट्वा बालकं शिशुः ॥ 1.21.५० ॥
बभूवाकाशवाणीति रुदन्तं बालकं प्रति ॥
सत्यं प्रबोधयुक्तं च हितमेव मिताक्षरम् ॥ ५१ ॥
सकृद्यद्दर्शितं रूपं तदेव नाधुना पुनः ॥
अपि पक्वकषायाणां दुर्दर्शं च कुयोगिनाम् ॥ ५२ ॥
एतस्मिन्विग्रहेऽतीते सम्प्राप्ते दिव्यविग्रहे ॥
पुनर्द्रक्ष्यसि गोविन्दं जन्ममृत्युहरं हरिम् ॥ ५३ ॥
इति श्रुत्वा बालकश्च विरराम मुदाऽन्वितः ॥
काले तत्याज तीर्थे च तनुं कृष्णं हृदि स्मरन् ॥ ५४ ॥
नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ॥
बभूव शापमुक्तश्च नारदश्च महामुनिः॥५५॥
तनुं त्वक्वा स जीवश्च विलीनो ब्रह्मविग्रहे ॥
बभूव प्राक्तनान्नित्यः कालभेदे तिरोहितः ॥॥ ५५ ॥
आविर्भावस्तिरोभावः स्वेच्छया नित्यदेहिनाम् ॥
जन्ममृत्युजराव्याधिर्भक्तानां नास्ति शौनक ॥ ५७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारदशापविमोचनं नामैकविंशोऽध्यायः ॥ २१ ॥