०१९

सौतिरुवाच ॥
मालावती धनं दत्त्वा ब्राह्मणेभ्यः प्रहर्षिता ॥
चकार विविधं वेशं स्वात्मनः स्वामिनः कृते ॥१॥
भर्तुश्चकार शुश्रूषां पूजां च समयोचिताम्॥
तेन सार्द्धं सुरसिका रेमे सा सुचिरं मुदा॥२॥
महापुरुषस्तोत्रं च पूजां च कवचं मनुम्॥
विस्मृतं बोधयामास स्वयं रहसि सुव्रता ॥ ३ ॥
पुरा दत्तं वसिष्ठेन स्तोत्रपूजादिकं हरेः ॥
गन्धर्वाय च मालत्यै मन्त्रमेकं च पुष्करे ॥४॥
विस्मृतं स्तोत्रकवचं वसिष्ठश्च कृपानिधिः ॥
गन्धर्वराजं रहसि बोधयामास शूलिनः ॥ ५ ॥
एवं चकार राज्यं च कुबेरभवनोपमे ॥
आश्रमे परमानन्दो गन्धर्वो बान्धवैः सह ॥ ६ ॥
यथातथा गताभिश्च स्त्रीभिरन्याभिरेव च ॥
आगत्य ताभिः स्वस्वामी सम्प्राप्तः परया मुदा ॥ ७ ॥
शौनक उवाच ॥
किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा ॥
दत्तो विशिष्टस्ताभ्यां च तं भवान्वक्तुमर्हति ॥ ८ ॥
द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् ॥
दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ॥ ९ ॥
तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम ॥
शङ्करस्तोत्रकवचं मन्त्रं दुर्गतिनाशनम्॥1.19.१०॥
सौतिरुवाच ॥
तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् ॥
तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं शृणु ॥ ११॥
ॐ नमो भगवते रासमण्डलेशाय स्वाहा ॥
इमं मन्त्रं कल्पतरुं प्रददौ षोडशाक्षरम् ॥ १२ ॥
पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः ॥
पुरा दत्तं च कृष्णेन गोलोके शङ्कराय च ॥१३॥
ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् ॥
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥ १४ ॥
अतीव गुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् ॥
पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम्॥ ॥ १५ ॥
शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले ॥
धर्माय गोपीकान्तेन कृपया परमाद्भुतम् ॥ १६ ॥
ब्रह्मोवाच ॥
राधाकान्त महाभाग कवचं यत्प्रकाशितम् ॥
ब्रह्माण्डपावनं नाम कृपया कथय प्रभो ॥ १७ ॥
मां महेशं च धर्मं च भक्तं च भक्तवत्सल ॥
त्वत्प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ॥ १८ ॥
श्रीकृष्ण उवाच ॥
शृणु वक्ष्यामि ब्रह्मेश धर्मेदं कवचं परम् ॥
अहं दास्यामि युष्मभ्यं गोपनीयं सुदुर्लमम् ॥ १९ ॥
यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि ॥
यत्तेजो मम देहेऽस्ति तत्तेजः कवचेऽपि च ॥ 1.19.२० ॥
कुरु सृष्टिमिमं धृत्वा धाता त्रिजगतां भव ॥
संहर्त्ता भव हे शम्भो मम तुल्यो भवे भव ॥ ॥ २१ ॥
हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम् ॥
तपसां फलदातारो यूयं भवत मद्वरात् ॥ २२ ॥
ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् ॥
ऋषिश्छन्दश्च गायत्री देवोऽहं जगदीश्वरः ॥ २३ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥
त्रिलक्षवार पठनात्सिद्धिदं कवचं विधे ॥ २४ ॥
यो भवेत्सिद्धकवचो मम तुल्यो भवेच्च सः ॥
तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ॥ ॥ २५ ॥
प्रणवो मे शिरः पातु नमो रामेश्वराय च ॥
भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ॥ २५ ॥
कृष्णः पायाच्छ्रोत्रयुग्मं हे हरे प्राणमेव च ॥
जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ॥ २७ ॥
श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः ॥
ह्रीं कृष्णाय नमो वक्त्रं क्लीम्पूर्वश्च भुजद्वयम् ॥ २८ ॥
नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु ॥
दन्तपङ्क्तिमोष्ठयुग्मं नमो गोपीश्वराय च ॥ २९ ॥
ॐ नमो भगवते रासमण्डलेशाय स्वाहा ॥
स्वयं वक्षःस्थलं पातु मन्त्रोऽयं षोडशाक्षरः ॥ 1.19.३० ॥
ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदाऽवतु ॥
ॐ विष्णवे स्वाहेति च कपोलं सवर्तोऽवतु ॥ ३१ ॥
ॐ हरये नम इति पृष्ठं पादं सदा ऽवतु ॥
ॐ गोवर्द्धनधारिणे स्वाहा सर्वशरीरकम् ॥ ३२ ॥
प्राच्यां मां पातु श्रीकृष्ण आग्नेय्यां पातु माधवः ॥
दक्षिणे पातु गोपीशो नैर्ऋत्यां नन्दनन्दनः ॥ ३३ ॥
वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः ॥
उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ॥ ३४ ॥
सततं सर्वतः पातु परो नारायणः स्वयम्॥
इति ते कथितं ब्रह्मन्कवचं परमाद्भुतम् ॥३५॥
मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ॥
कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ॥ ३६ ॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ॥
स्नात्वा तं च नमस्कृत्य कवचं धारयेत्सुधीः ॥ ३७ ॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥
यदि स्यात्सिद्धकवचो विष्णुरेव भवेद्द्विज ॥ ३८ ॥
सौतिरुवाच ॥
शिवस्य कवचं स्तोत्रं श्रूयतामिति शौनक ॥
वशिष्ठेन च यद्दत्तं गन्धर्वाय च यो मनुः ॥। ३९ ॥
ॐ नमो भगवते शिवाय स्वाहेति च मनुः ॥
दत्तो वशिष्ठेन पुरा पुष्करे कृपया विभो ॥ 1.19.४० ॥
अयं मन्त्रो रावणाय प्रदत्तो ब्रह्मणा पुरा ॥
स्वयं शम्भुश्च बाणाय तथा दुर्वाससे पुरा ॥४१॥
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥
ध्यायेन्नित्यादिकं ध्यानं वेदोक्तं सर्वसम्मतम्॥४२॥
ॐ नमो महादेवाय ॥
बाणासुर उवाच ॥
महेश्वर महाभाग कवचं यत्प्रकाशितम् ॥
संसार पावनं नाम कृपया कथय प्रभो ॥ ४३ ॥
महेश्वर उवाच ॥
शृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् ॥
अहं तुम्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥ ४४ ॥
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च ॥ ४५ ॥
ममैवेदं च कवचं भक्त्या यो धारयेत्सुधीः ॥
जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया॥४६॥
संसारपावनस्यास्य कवचस्य प्रजापतिः॥
ऋषिश्छन्दश्च गायत्री देवोऽहं च महेश्वरः॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ४७ ॥
पञ्चलक्षजपेनैव सिद्धिदं कवचं भवेत् ॥
यो भवेत्सिद्धकवचो मम तुल्यो भवेद्भुवि ॥
तेजसा सिद्धि योगेन तपसा विक्रमेण च ॥४८ ॥
शम्भुर्मे मस्तकं पातु मुखं पातु महेश्वरः ॥
दन्तपक्तिं नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ॥ ४९॥
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः ॥
वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥ 1.19.५० ॥
सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा ॥
स्वप्ने जागरणे चैव स्थाणुर्मे पातु सन्ततम् ॥ ५१ ॥
इति ते कथितं बाण कवचं परमाद्भुतम् ॥
यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ॥ ५२ ॥
यत्फलं सर्वतीर्थानां स्नानेन लभते नरः ॥
तत्फलं लभते नूनं कवचस्यैव धारणात् ॥ ५३ ॥
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः ॥
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ५४ ॥
सौतिरुवाच ॥
इदं च कवचं प्रोक्तं स्तोत्रं च शृणु शौनक ॥
मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान्पुरा ॥ ५५ ॥
ॐ नमः शिवाय ॥
बाणासुर उवाच ॥
वन्दे सुराणां सारं च सुरेशं नीललोहितम् ॥
योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् ॥ ५६ ॥
ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् ॥
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥५७॥
तपोरूपं तपोबीजं तपोधनधनं वरम् ॥
वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः॥५८॥
कारणं भुक्तिमुक्तीनां नरकार्णवतारणम् ॥
आशुतोषं प्रसन्नास्यं करुणामयसागरम् ॥५९॥
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम्॥
ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ॥ 1.19.६० ॥
विषयाणां विभेदेन बिभ्रतं बहुरूपकम् ॥
जलरूपमग्निरूपमाकाशरूपमीश्वरम्॥ ॥ ६१ ॥
वायुरूपं चन्द्ररूपं सूर्य्यरूपं महत्प्रभुम् ॥
आत्मनः स्वपदं दातुं समर्थमवलीलया ॥६२ ॥
भक्तजीवनमीशं च भक्तानुग्रहकातरम् ॥
वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् ॥६३॥
अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् ॥
व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् ॥
त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् ॥ ६४ ॥
इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः ॥
प्राणमच्छङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः ॥ ६५ ॥
इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने ॥
कथितं च महास्तोत्रं शूलिनः परमाद्भुतम् ॥ ६६ ॥
इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः ॥
स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् ॥ ६७ ॥
अपुत्रो लभते पुत्रं वर्षमेकं शृणोति यः ॥
संयतश्च हविष्याशी प्रणम्य शङ्करं गुरुम् ॥ ६८ ॥
गलत्कुष्ठी महाशूली वर्षमेकं शृणोति यः ॥
अवश्यं मुच्यते रोगाद्व्यासवाक्यमिति श्रुतम् ॥ ६९ ॥
कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् ॥
स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद् ध्रुवम् ॥ 1.19.७० ॥
भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः ॥
मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् ॥ ७१ ॥
यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् ॥
निश्चितं मुच्यते रोगाच्छङ्करस्य प्रसादतः ॥ ७२ ॥
यः शृणोति सदा भक्त्या स्तवराजमिमं द्विज ॥
तस्यासाध्यं त्रिभुवने नास्ति किञ्चिच्च शौनक ॥ ७३ ॥
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते ॥
अचलं परमैश्वर्य्यं लभते नात्र संशयः ॥ ७४ ॥
सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः ॥
अभार्य्यो लभते भार्य्यां सुविनीतां सतीवराम् ॥७५॥
महामूर्खश्च दुर्मेधा मासमेकं शृणोति यः ॥
बुद्धिं विद्यां च लभते गुरूपदेशमात्रतः॥७६॥
कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः॥
ध्रुवं वित्तं भवेत्तस्य शङ्करस्य प्रसादतः॥७७॥
इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् ॥
नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् ॥ ७८ ॥
पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् ॥
यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् ॥ ७९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनक संवादे विष्णुशङ्करस्तोत्रकथनं नामैकोनविंशोऽध्यायः ॥ १९ ॥